भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 2

2.1

तत्र भगवान् (आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥ यावन्तो भिक्षवो गृध्र)कूटपर्वतम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां (सन्निपातय ॥)

2.2

(एवं भदन्तेत्य्) आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवो गृध्रकूटं पर्वत(म् उपनिश्रित्य) विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातयित्वा येन भगवांस् तेनोपजगाम ॥ उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् ॥ एकान्त्(अ)स्थित्(अ) आ(युष्मान् आनन्दो) भगवन्तम् इदम् अवोचत् ॥

2.3

यावन्तो भदन्त भिक्षवो गृध्रकूटं पर्वतम् उपनिश्रित्य विहरन्ति ते सर्व उपस्थानशालायां सन्निपतिताः ॥ यस्येदानीं भगवाङ् कालं मन्(यते ॥)

2.4

(अथ भगवान् ये)नोपस्थानशाला तेनोपजगाम ॥ उपेत्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषी(दत्) ॥ निषद्य भगवान् भिक्षून् आमन्त्र(य)ते स्म ॥

2.5

सप्ताहं वो भिक्षवो ऽपरिहा(णीयान् धर्मान् देशयिष्या)मि ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्ता(परिहाणीया धर्माः कतमे ॥)

2.6

(यावच् च भिक्षवो ऽभीक्ष्णसन्निपाता अ)भीक्ष्णं सन्निपातबहुला विहरिष्यन्ति वृद्धिर् एव भिक्षूणां प्रतिकां(क्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.7

(यावच् च भिक्षवः समग्राः) सन्निपतिष्यन्ति समग्रा व्युत्थास्यन्ति समग्राः संघकरणीया(नि करिष्यन्ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.8

(याव)च् (च) भिक्षवो ऽप्रणिहितं न प्रणिधास्यन्ति प्रणिहितं च न (समुच्छेत्स्यन्ति यथा)प्रज्ञप्(त्)इ(कां शि)क्षां समादाय्(अ वर्तिष्यन्ते वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या) क्(उ)शलानां धर्मा(ण्)आं न परिहाणिः ॥

2.9

यावच् च भिक्(षवस् तृष्णायाः पौनर्भवि)क्या (नन्दिराग)सहगतायास् त(त्र तत्राभिनन्दिन्या वशं न गच्छन्ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.10

(यावच् च भिक्षवो ये ते भिक्षवः) स्थविरा रात्(र्)इज्ञाश् चिरप्रव्रजिता ............... (तान् सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूज)यिष्यन्ति तेषां वचनं (श्)र्(ओत)व्(य्)अं म(ंस्यन्ते वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.11

(यावच् च भिक्षवो ऽरण्यवनप्रस्थानि) प्रान्तानि शयनासनान्य् अध्यावसिष्यन्(ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.12

(यावच् च भिक्षवः सब्रह्मचारिणाम् अन्तिके ती)व्रचेतस आरक्षास्मृतिः प्रत्युपस्थ्(इता कच्चिद् अनागताश् च सब्रह्मचारिण आगच्छेयुर् आगताश् चाभिरमेरंस् ते च न विहन्येरञ् चीवरपिण्डपातशयनासनग्ला)नप्रत्ययभैषज्यपरिष्कारैर् वृद्धिर् एव भिक्षूणां प्र्(अतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.13

(यावच्) च भिक्षव इ(मान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षुषु) च सप्तापरिहाणीया धर्माः सन्द्रक्ष्यन्ते वृद्(ध्)इ(र् एव भिक्षूणां प्रतिकांक्षितव्या कुश)लानां धर्माणां न परिहा(णिः ॥)

2.14

(अपरान् अपि सप्तापरिहाणीयान् धर्मान् देशयिष्यामि ताञ् शृणुत) साधु च सुष्ठु च मनसि कुरुत भा(षिष्ये ॥ सप्तापरिहाणीया ध)र्माः कतमे ॥

2.15

यावच् च भिक्षवः शा(स्तारं सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति शास्ता)रं सत्कृत्वा गुरुकृत्वा मानयित्वा पू(जयित्वोपश्रि)त्य विहरिष्यन्ति धर्मं शिक्षाम् अनुशा(सनम् अप्रमादं प्रतिसंस्तरं समाधिं सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्य)न्ति पूजयिष्यन्ति समाधिं सत्कृत्वा (गुरुकृत्वा) मान(यित्वा पूजयित्वोपश्रित्य विहरिष्यन्ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.16

नुर् इम् तिब्.

2.17

(अपरा)न् अपि सप्तापरिहाणीयान् धर्मान् दे(श)यिष्यामि (ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्तापरिहाणीया धर्माः कतमे ॥)

2.18

(यावच् च भिक्षवो न कर्मारामा भविष्यन्ति न भ्)आष्यारामा न निद्रार्(आमा) न स(ं)गणि(कारामा) ............... (वि)शेषाधिगमेना(न्त)रावसा(न्) ....... (वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.19

नुर् इम् तिब्.

2.20

(अपरान् अपि सप्तापरिहा)णीयान् धर्मान् देशयिष्यामि ताञ् शृणुत (साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्तापरिहाणीया धर्माः कतमे ॥)

2.21

(यावच् च भिक्षवः श्राद्धा भविष्यन्ति ह्रीमन्तो भविष्यन्त्य्) अवत्रापिण आरब्धवीर्या उ(पस्थितस्मृतयः समाहिताः प्रज्ञावन्तो भविष्यन्ति वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.22

नुर् इम् तिब्.

2.23

(अपरा)न् अपि सप्तापरिहाणीयान् धर्मान् देश(यिष्यामि ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्तापरिहाणीया धर्माः कतमे ॥)

2.24

(यावच् च भिक्षवो धर्मज्ञा अर्थज्ञा)ः कालज्ञा मात्रज्(ञ्)आ आत्मज्ञाः परिष(ज्ज्ञाः पुद्गलवरावरज्ञा वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.25

नुर् इम् तिब्.

2.26

(अपरान् अपि सप्तापरिहाणीयान् धर्मान् देशयिष्यामि ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ सप्तापरिहाणीया धर्माः कतमे ॥)

2.27

(यावच् च भिक्षवः स्मृतिसंबोध्यङ्गं भावयिष्यन्ति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं धर्मविचयवीर्यप्रीतिप्रस्रब्धिसमाध्युपेक्षासंबोध्यङ्गं भावयिष्यन्ति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.28

(यावच् च भिक्षव इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षुषु च सप्तापरिहाणीया धर्माः सन्द्रक्ष्यन्ते वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.29

(षड् अहं वो भिक्षवः संरंजनीयान् धर्मान् देशयिष्यामि ताञ् शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ॥ षट् संरंजनीया धर्माः कतमे ॥)

2.30

मैत्रं मे कायकर्म प्रत्युपस्थितं भविष्यति शास्तु(र् अ)न्तिके विज्ञ्(आ)नाञ् च सब्रह्मचार्(इ)णाम् ॥ अयं धर्मः संरंजनीयः प्रियकरणो गुरुकरणो मनापकरणः प्रियत्वाय गुरुत्वाय गौरवाय भावनाय संग्रहाय समाधये ऽविग्रहायाविवादाय एकोतीभावाय संवर्तते ॥

2.31

मैत्रं वाक्कर्म

2.32

मैत्रं मनस्कर्म

2.33

ये ते लाभा धार्मिका धर्मलब्धा अन्ततः पात्रगताः पात्रपर्यापन्नास् तद्रूपेषु लाभेषु साधारणपरिभोजिनो भविष्यामो ऽप्रतिगुप्तभोजिन्(अः) सार्धं विज्ञैः सब्रह्मचारिभिः ॥
अयं धर्मः संरंजनी(यः) पूर्ववत् ॥

2.34

यानि तानि शीलान्य् अखण्डान्य् अच्छिद्राण्य् अशबलान्य् अकल्माषाणि भुजिष्याण्य् अपरामृष्टानि सुसमाप्तानि सुसमादत्तानि विज्ञप्रशस्तान्य् अगर्हितानि विज्ञैस् तद्रूपैः शीलैः शीलसामान्यगता भविष्यामः सार्धं विज्ञैः स(ब्)र्(अ)ह्मच्(आ)रिभिः ॥ अयं धर्मः संरंजनीयः पूर्ववत् ॥

2.35

येयं दृष्टिर् आर्या नैर्याणिका नैर्वेधिका निर्याति तत्करसम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै तद्रूपया दृष्ट्या दृष्टिसामान्यगता भविष्यामः सार्धं विज्ञैः सब्रह्मचारिभिः ॥ अयं धर्मः संरंजनीयः पूर्ववद् यावद् एकोतीभावा(य सं)वर्तते ॥

2.36

(यावच् च भिक्षव इमान् षट् संरंजनीयान् धर्मान् समादाय वर्तिष्यन्ते भिक्षुषु च षट् संरंजनीया धर्माः सन्द्रक्ष्यन्ते वृद्धिर् एव भिक्षूणां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)

2.37

<नुर् छिन्.>
<हिएर् इम् तिब्. उद्दान>

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc