महापरिनिर्वाणसूत्र · अध्याय 22
तेन खलु समयेन महापृथिवीचा(लश् चाभूद् उल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति ॥)
(अथायुष्मान् आनन्दः) सायाह्ने प्रतिसंलयनाद् व्युत्थाय येन (भग)वा(ंस् त्)ए(नोपजगाम ॥ उपेत्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् ॥)
(एकान्तस्थित आयुष्मान् आन)न्दो भगवन्तम् इदम् अवोचत् ॥
को भदन्त हे(तुः कः प्रत्ययो येनैतर्ह्य् अभूद् महापृथिवीचाल उल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयो ऽभिनद)न्ति ॥
त्रय इमे आनन्द हेतवस् त्रयः प्रत्यया (महतः पृथिवीचालस्य ॥)
(कतमे त्रयः ॥)
(इयं महापृथिव्य् अप्सु प्रतिष्ठिता पूर्ववद् यावच् चालयन्ति ॥)
(अयं प्रथमो हेतुः प्र)थ्(अमः) प्रत्ययो महतः पृथिवीचाल्(अस्य ॥)
(पुनर् अपरं भिक्षुर् महर्द्धिको भवति पूर्ववद् यावच् चालयति ॥)
<नुर् तिबेतिस्छ्.>
(अयं द्वितीयो हेतुर् द्वितीयः प्रत्ययो महतः पृथिवीचालस्य ॥)
(पुनर् अ)परं न चिरस्येदानीं तथागतस्यानु(पधि)श्(ए)ष्(ए) न्(इर्वाण)धातौ परिनि(र्वाणं भविष्यति ॥ अत्यर्थं तस्मिन् समये महापृथिवीचा)ल्(अ)श् च भवत्य् उल्क्(आपाता दिशो)दाहा अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति ॥
अयं तृतीयो (हेतु)स् तृतीय्(अः प्रत्ययो महतः पृथिवीचालस्य ॥)
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0