महापरिनिर्वाणसूत्र · अध्याय 21
अथ भग(वान् वृजिषु जनपदेषु चर्यां चरङ् कुष्ठग्रामकम् अनुप्राप्तः कुष्ठग्रामके विहरत्य् उत्तरेण ग्राम)स्य शिंशपावने ॥
तत्र भगवान् भिक्षून् आमन्त्रयते ।
इतीमानि भिक्ष्(अवः शीलानि ॥ अयं समाधिः ॥ इयं प्रज्ञा ॥ शीलप्रभावितः समाधिश् चिरस्थितिको भवति ॥ प्रज्ञापरिभावितं चित्तं सम्यग् एव विमुच्यते रागद्वेषमोहेभ्यः ॥)
(एवं सम्यक्सुविमुक्तचित्त आर्यश्रावकः सम्यग् एव प्रजानाति ॥)
(क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामि ॥)
<हिएर् इम् तिब्. उन्द् स्क्त्. उद्दान; च्f. म्प्स् प्. 495>:
कुष्ठ गण्ड आम्र च
जम्बु शूर्प तूल हस्ति च ॥
ग्रामौ (च) वृजिमल्लौ
भोगनगरकं तथा ।>
(यथा कु)ष्ठग्रामक एवं गण्डग्रामको द्रोणग्रामकः शूर्पग्रामक आ(म्रग्रामको जम्बुग्रामको हस्तिग्रामकः ॥)
(वृजिग्रामकान् मल्लग्रामकाद् भोगनगरकम् अनु)प्राप्तः ॥ भोगनगरके विहरत्य् उत्तरेण ग्रामस्य शिंशपावने ॥
त(त्)र्(अ भगवान् भिक्षून् आमन्त्रयते ॥)
(इतीमानि भिक्षवः शीलानि पूर्ववद् यावद् नाप)रम् अस्माद् भावं प्रजानामि ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0