भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 23

23.1

(अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् ॥)

23.2

(आस्च)र्याद्भुतधर्मस(मन्वागता)स् तथागता अर्हन्तः सम्यक्संबुद्धाः ॥ यत्रेदानीं न चिर(स्य तथागतस्यानुपधिशेषे निर्वाणधातौ परिनिर्वाणं भवि)ष्यत्य् अत्य्(अ)र्थं तस्मि(न् समये) महापृथिवीचालश् च भवत्य् उल्कापाता दिशोदाहा (अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति ॥)

23.3

(एवम् एतद् आनन्द एवम् ए)तद् आनन्द ॥ आश्चर्याद्भ्(उतधर्म)समन्वागता एव तथागता अ(र्हन्त)ः सम्यक्संबुद्धाः ॥

23.4

अभिजान्(आमि खलु पुनर् अहम् अनेकशतं क्षत्रियपरिषदं दर्शनायोपसंक्रमि)तुम् उपसंक्रान्तस्य (च मे या)द्(ऋ)शस् तेषाम् आरोहपरिणा(ह्)ओ (भव)ति ममापि तादृश आरो(हपरिणाहो भवति ॥ यादृशी तेषां वर्णपुष्कलता भवति मम्)आपि तादृशी वर्ण्(अपु)ष्कलता भवति ॥ यादृशी तेषां स्व्(अरगुप्ति)र् भवति ममापि त्(आ)दृश्(ई) स्(वरगुप्तिर् भवति ॥)

23.5

(ते यम् अर्थं मन्त्रयन्त्य् अहम् अपि तम् अर्थं मन्त्रयामि ॥ ते यम् अ)र्थ(ं) न मन्त्रयन्त्य् (अह)म् अपि तम् अर्थं (न) मन्त्रयामि ॥ उत्तरे वै (तान् धा)र्म्या कथया सन्दर्शयामि (समादापयामि समुत्तेजयामि संप्रहर्षयामि ततो) ऽन्तर्धापयामि ॥ अन्तर्हि(तस्य) मे न जानन्ति क एष अन्तर्हितो देवो वा मनुष्यो वा ॥

23.6

ए(वम् अपि ब्राह्मणपरिषदं गृहपतिपरिषदं) श्(र्)अमणपरिषदं चा(तुर्महा)राजिकान् देवांस् त्रायस्त्रिंशान् यामांस् तुषितान् निर्माणर(तीन् परिनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपारिषद्यान् ब्रह्मपुरो)हितान् महाब्रह्म(णः प)रीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अ(प्र)म्(आ)णशु(भाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृ)हान् अतपान् सुदृश्(आन् सुदर्श)नान् अकनिष्ठान् देवान् दर्शनायोपसंक्र्(अमितु)म्

23.7

(उ)प(संक्रा)न्तस्य च मे (यादृशस् तेषाम् आरोहपरिणाहो भवति पूर्ववद् यावद् दे)वो वा मनुष्यो वा ॥

23.8

(एवम् आश्चर्या)द्भुतधर्मसमन्वाग(तास् तथागता अर्)ह्(अ)न्तः सम्यक्संबुद्धाः ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc