भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 20

20.1

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥

20.2

आगमयानन्द येन कुष्ठग्रामकः ॥

20.3

एवं भद्(अन्त्)ए(त्य् आयु)ष्मान् आनन्दो भगव(तः प्रत्यश्रौषीत् ॥)

20.4

(भ)गवान् वैशालीसामन्तकेनातिक्रमन् दक्षिणेन सर्वकायेन नागावलोकितेनावलोक्(अयति ॥)

20.5

(अद्राक्षीद् आ)युष्मान् आनन्दो भगवन्तं द(क्षिणेन सर्वकाये)न नागावलोकितेन व्यवलोकयन्तं दृष्ट्वा पुनर् भगवन्तम् इदम् अवोचत् ॥

20.6

ना(ह्)ए(त्व् अप्रत्ययं भदन्त तथाग)ता अर्हन्तः सम्यक्संबुद्धा ना(गावलोकितम् अव)लोकयन्ति ॥ को भदन्त हेतुः कः प्रत्ययो नागावलोकित(स्य ॥)

20.7

(ए)व्(अम् ए)तद् आनन्दैवम् एतद् आनन्द ॥ नाहे(त्व् अप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा दक्षिणेन सर्वकायेन नागावलोकितेनावलोकयन्ति ॥)

20.8

(इदम् आनन्द तथागतस्य वैशा)ल्याः पश्चिमं द(र्)शनं न भूय इह स(ं)बुद्धो (वैशालीम् आगमिष्यति ॥ परिनिर्वाणाय गमिष्यति मल्लानाम् उपवर्तनं यमकशालवनम् ॥)

20.9

(अथान्यतरो भि)क्षुस् तस्यां वेलायां गाथां बभाषे ॥

20.10

इ(दम् अपश्चिमकं नाथ
वैशाल्यास् तव दर्शनम् ॥
न भूयः सुगतो बुद्धो
वैशालीम् आगमिष्यति ॥
निर्वाणाय) प्रयातो ऽयं
मल्लानाम् उपवर्तने ।

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc