महापरिनिर्वाणसूत्र · अध्याय 1
एवं मया श्रुतम् ॥
एकं समयं भगवा(न्) राजगृहे विहर(ति) गृध्रकूटे पर्वते ॥ तेन ख(लु समयेन राजा मागधो ऽजातशत्रुर् वैदेहीपु)त्रो वृजिभिः सार्धं प्रतिविरुद्धः ॥
स एवं परिषदि वाचं (भाषते) ॥ अहम् इमान् वृजीन् ऋद्धांश् च स्फी(तांश् च क्षेमांश् च सुभिक्षांश् चाकीर्णबहुजनम)नुष्यांश् चोत्सादयिष्यामि विनाशयिष्याम्य् अनयेन व्यसनम् आपादयिष्यामि ॥
अथ राजा मा(गधो ऽजातशत्रुर् वैदेहीपुत्रो वर्षाकारं ब्र्)आह्मणमगधमहामात्रम् आमन्त्रयते ॥
एहि त्वं वर्षाकार येन भगवांस् तेनोपसंक्रम ॥ उपेत्यास्मा(कं वचनेन भगवतः पादौ शिरसा वन्दस्वा)ल्पाबाधतां च पृच्छाल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च (सु)खं चानवद्य(तां च स्पर्शविहारतां च ॥)
(एवं च वद ॥ राजा) मागधो ऽजातशत्रुर् वैदेहीपुत्रो वृजिभिः सार्धं प्रतिविरुद्धः ॥ स एवं परिषदि वाचं भाष्(अते ॥ अहम् इमान् वृजीन् ऋद्धांश् च स्फीतांश् च क्षेमांश् च) सुभिक्षांश् चाकीर्णबहुजनमनु(ष्यां)श् चो(त्सा)दय्(इ)ष्याम्(इ) विनाशयिष्याम्(य्) अनयेन व्यसन्(अम् आपादयिष्यामि ॥)
(किं भगवान् आमन्त्रयते ॥ यथा वर्षा)कार स भगवां व्याकरोति तथैव्(ओद्गृहाण ॥ तत् कस्माद् धेतोः ॥ अ)वितथावा(द्)इ(न्)ओ हि भ(व)न्ति (तथागता अर्हन्तः सम्यक्संबुद्धाः ॥)
(एवं देवेति वर्षाकारो ब्राह्म)णमगधमहामात्रो राज्ञो मा(गधस्याजातशत्रोर् वैदेहीपुत्रस्य प्रतिश्रुत्य) सर्वश्वेतं वडब्(आ)रथम् अभ्(इ)रुह्य्(अ) ........ माणवगणपरिवृतः सौवर्णेन दण्डकम ........... (राजगृहान् निर्याति भगवतो ऽन्तिकेनोपदर्शनाय भगव)न्तं पर्युपासनायै ॥ तस्य या(वद् यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव गृध्रकूटं पर्वतम् अभिरुह्य येन भगवांस् तेनोपजगामोपेत्य) भगवता सार्धं (संमुखं संमोदनीं संरंजनीं विविधां कथां व्यतिसार्यैकान्ते न्यषीदत् ।)
(एकान्ते निषण्णो वर्षाकारो ब्राह्मणमगधमाहामा)त्र्(ओ) भगव(न्)तम् इद(म् अवोचत् ॥)
(राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रो भगवतः पादौ शिरसा वन्दत्य् अल्पाबाधतां च पृच्छत्य् अल्पातङ्कतां च) पूर्ववद् याव्(अत् स्पर्श)विहारतां च ॥
सु(खी भवतु वर्षाकार राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रस् त्वं च ॥)
(राजा भदन्त मागधो ऽजातशत्रुर् वैदेहीपुत्रो वृजिभिः सार्धं) प्रतिविरु(द्धः ॥ स एवं) परिषदि वाचं भ्(आषते ॥ अहम् इमान् वृजीन् ऋद्धांश् च स्फीतांश् च क्षेमांश् च सुभिक्षांश् चाकीर्णबहुजनमनुष्यांश् चोत्सादयिष्यामि विनाशयि)ष्याम्य् अन्(अयेन व्य)सनम् आपादयिष्(य्)आ(मि ॥)
(किं भगवाङ् गौतम आमन्त्रयते ॥)
(एकम् अहं वर्षाकार समयं वृजिषु जनपदेषु विहरामि चापाले च्)ऐत्ये ॥ तत्र म(या वृजीनां) सप्तापरिहा(णीया धर्मा देशिताः ॥ यावच् च वर्षाकार वृजय इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते वृजिषु च सप्तापरिहा)णीया (ध)र्माः सन्द्रक्ष्य्(अन्ते वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
(एवम् अहं भदन्तास्य भगवतो गौतमस्य संक्षिप्तेन) भा(षि)तस्यावि(भक्तस्य विस्तरेणार्थं नाजानामि ॥ भगवान् गौतमो संक्षिप्तेन भाषितस्यार्थं विभक्तं विस्तरेण भाषेत ॥ एवम् अहं भगवतो गौतम)स्य संक्षिप्तेन भाषितस्याविभ्(अक्तं विस्तरेणार्थं साधु एवाज्ञास्यामि ॥)
(तेन खलु समयेनायुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो भ)गवन्तं वीजयमानः ॥ तत्र भग(वान् आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥)
(किं नु त्वयानन्द श्रुतं वृजयो ऽभीक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुला विहरन्ति ॥)
(श्रुतं मे भदन्त वृजयो ऽभीक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुला विहरन्ति ॥)
(यावच् च वर्षाकार वृजयो ऽभीक्ष्णसन्निपाता अभीक्ष्णं सन्निपातबहुला विहरिष्यन्ति वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
(किं नु त्वयानन्द श्रुतं वृजयः समग्राः सन्निपतन्ति समग्रा व्युत्तिष्ठन्ति समग्रा वृजिकरणीयानि कुर्वन्ति ॥)
(श्रुतं मे भ)दन्त वृजयः सम(ग्राः सन्निपतन्ति समग्रा व्युत्तिष्ठन्ति समग्रा वृजिकरणीयानि कुर्वन्ति ॥)
(यावच् च वर्षाकार वृजयः समग्राः सन्निपतिष्यन्ति सम)ग्रा व्युत्थास्यन्ति (समग्रा वृजिकरणीयानि करिष्यन्ति वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
(किं नु त्वयानन्द श्रुतं वृजयो ऽप्र)णिहितं न प्रणि(दधति प्रणिहितं च न समुच्छिन्दति यथाप्रज्ञप्तं वृजिधर्मं समादाय वर्तन्ते ॥)
(श्रुतं मे भदन्त वृजयो ऽप्रणिहितं न प्रणिदधति प्रणिहि)तं च न समुच्छिन्(द)()न्(ति यथाप्रज्ञप्तं वृजिधर्मं समादाय वर्तन्ते ॥)
(यावच् च वर्षाकार वृजयो ऽप्रणिहितं न प्रणिधास्यन्ति प्रणिहितं च न समुच्छेत्स्यन्ति यथाप्रज्ञप्तं) वृजिधर्मं समादा(य वर्तिष्यन्ते वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
(किं नु त्वयानन्द श्रुतं यास् ता वृजीनां वृजिप्रजापत्यो वृजिकुमारिकाश् च पितृरक्षिता मातृरक्षिता भ्रातृरक्षिता भगिनीरक्षिताः श्वशुररक्षिता श्वश्रुरक्षिता ज्ञातिरक्षिता गोत्ररक्षिताः सपरिदण्डाः सस्वामिकाः कन्)याः परपरिगृ(हीता अन्तशो मालागुणपरिक्षिप्ता अपि तद्रूपासु) न स(हसा बलेनानुप्रस्कन्द्य कामेषु चारित्रम् आपद्यन्ते ॥)
(श्रुतं मे भदन्त वृजयो या)स् ता वृजीनां वृजि(प्)र्(अजापत्यो वृजिकुमारिकाश् च पितृरक्षिता मातृरक्षिता पूर्ववद् यावद् अन्तशो मालागुणपरिक्षिप्ता अ)पि तद्रूपा(सु न सहसा) बलेनानुप्रस्कन्द्य कामेषु चारित्रम् आपद्य(न्ते ॥)
(यावच् च वर्षाकार वृजयो यास् ता) व्(ऋ)जीनां वृजि(प्रजापत्यो वृजिकुमारिकाश् च पूर्ववद् यावद् अन्तशो मालागुणपरिक्षिप्ता अपि) तद्रूपासु न स(हसा बलेनानुप्रस्कन्द्य कामेषु चारित्रम् आपत्स्यन्ते वृद्धिर् एव) वृजीनां (प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
(किं नु त्वयानन्द श्रुतं वृजयो ये) ते वृजीनां वृजिमह्(अल्लकास् तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति तेषां वचनं श्रोतव्यं मन्यन्ते ॥)
(श्रुतं मे भदन्त वृज)यो ये ते वृ(जीनां वृजिमहल्लकास् तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति तेषां वचनं श्रोतव्यं मन्यन्ते ॥)
(यावच् च वर्षाकार वृजयो ये ते वृजीनां वृजिमहल्लकास् तान् सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति तेषां वचनं श्रोत)व्यं म(ं)स्य्(अन्ते) व्(ऋ)द्धिर् एव वृजीनां प्रति(कांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥)
(किं नु त्वयानन्द श्रुतं वृजयो ये ते वृजीनां चतुर्दिक्षु वृजिचैत्यास् तान् सत्कुर्वन्ति गुरुकुर्वन्)ति मानयन्ति पूजयन्ति तेषां च पौ(राणं चिह्नवृत्तं न समुच्छिन्दन्ति ॥)
(श्रुतं मे भदन्त वृजयो ये ते वृजीनां चतुर्दिक्षु वृजिचैत्यास् तान् सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्)ति तेषां च पौराणं चिह्(न्)अवृत्तं (न समुच्छिन्दन्ति ॥)
(यावच् च वर्षाकार वृजयो ये ते वृजीनां चतुर्दिक्षु वृजिचैत्यास् तान् सत्करि)ष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति तेषां च पौराणं चिह्नवृत्तं न समु(च्छेत्)स्य(न्)ति वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणा(ं) न परिहाणि(ः) ॥
(किं नु त्वयानन्द) श्रुतं वृजीनाम् अर्हता(म् अन्ति)के तीव्रचेतस आरक्षास्मृतिः प्रत्युपस्थिता कच्चिद् अनागताश् चार्हन्त आगच्छेयुर् आगताश् चाभिरमेरंस् ते च न विहन्येरञ् चीवरपिण्डपा(तशयनासनग्ला)नप्रत्ययभैषज्यपरिष्कारैः ॥
श्रुतं मे भदन्त वृजीनाम् अर्हताम् अन्तिके तीव्रचेतस आरक्षास्मृतिः प्रत्युपस्थिता कच्चिद् अनागताश् चार्हन्त आग(च्छेयुर् आगताश् चा)भिरमेरंस् ते च न विहन्येरञ् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः ॥
यावच् च वर्षाकार वृ(जी)नाम् अर्हताम् अन्तिके तीव्रचेतस (आरक्षास्मृतिः) प्रत्युपस्थिता भविष्यति कच्चिद् अनागताश् चार्हन्त आगच्छेयुर् आगताश् चाभिरमेर(ं)स् ते च न विहन्येरञ् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्का(रैर् वृद्धिर् एव वृजी)नां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥
यावच् च वर्षाकार वृजय इमान् सप्तापरिहाणीयान् धर्मान् समादाय वर्तिष्यन्ते वृजिषु च सप्तापरिहा(णीया धर्माः सन्द्रक्ष्यन्)ते वृद्धिर् एव वृजीनां प्रतिकांक्षितव्या कुशलानां धर्माणां न परिहाणिः ॥
एकैकेन तावद् भो गौतमाङ्गेन समन्वागता वृजयो ऽगमनीयाः स्यू राज्ञो माग(धस्याजातश)त्रोर् वैदेहीपुत्रस्य कः पुनर् वादः सर्वैः ॥
हन्त भो गौतम गमिष्यामो बहुकृत्याः स्मो बहुकरणीयाः ॥
यस्येदानीं वर्षाकार काल(ं) मन्यसे ॥
अथ वर्षाकारो ब्राह्मणमगधमहामात्रो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्तः ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0