भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 18

18.1

अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् ॥

18.2

यथा खल्व् अहं भदन्त भगवतो भाषितस्यार्थम् आजान्(आमि भगव)तैतर्हि जीवितसंस्कारान् अधिष्ठायायुःसंस्कारा उत्सृष्टाः ॥

18.3

एवम् एतद् आनन्दैवम् एतद् आनन्द ॥ ए(तर्ह्य् आनन्द) तथागतेन जीवितसंस्कारान् (अधिष्ठायायुःसंस्कार्)आ उत्सृष्टाः ॥

18.4

संमुखं मे भदन्त भगवतो ऽन्तिकाच् छ्रुतं संमुखम् उद्गृहीतम् ॥ यस्य कस्यचिच् चत्वार ऋ(द्धिपादा) आसेविता भाविता बहुल्(ईकृता आकांक्षमाणः) क्(अ)ल्पम् अपि ति(ष्ठ्)ए(त् क)ल्पाव(श्)ए(ष)म् अपि ॥

18.5

(भगवतो भदन्त चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृता आकांक्षमाणस् तथागतस् कल्पं वा तिष्ठेत् कल्पावशेषं वा) ॥

18.6

तिष्ठतु भगवान् कल्पं तिष्(ठ)त्(उ) सुगतः कल्पावशेषम् ॥

18.7

तवैव्(आनन्दाप)र्(आ)धस् तव्(ऐ)व दुष्कृ(त)ं यस् त्व्(अं तथागतस्य यावत् त्रिर् अप्य् औदा)र्(ए) ऽवभास्(अनिमि)त्त्(ए प्)राविष्क्रियमाणे न शक्नोषि तं निमित्तं प्रतिव्(ए)द्धुं यथापि तत् स्फुटो मारेण (पापी)यसा ॥

18.8

क्(इं) मन्यस आनन्द भ्(आषेत तथागतस् तां वा)चं या स्याद् द्वैधविपाक्या ॥ नो भदन्त ॥

18.9

साधु साध्व् आनन्द ॥ अस्थानम् अनवकाशो यत् तहागतस् तां वाचं भाषेत या स्याद् द्वैधविपा(क्या ॥)

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc