भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 17

17.1

(अथाय्)उष्मान् आनन्दो येन भ्(अगवांस् तेनोपज)गाम्(अ ॥) उपेत्य भगव(तः पादौ) शिरसा (वन्दित्वैकान्ते ऽस्थात् ॥ एकान्तस्थित आयुष्मान् आनन्दो भ)ग(वन्तम् इद)म् अवोचत् ॥

17.2

को भ्(अदन्त हेतुः कः प्र)त्ययो येनैतर्ह्य् अ(भून् महापृथिवी)चाल उल्कापाता दि(शोदाहा अन्तरीक्षे देवदुन्दुभयो ऽभिनदन्ति ॥)

17.3

(अष्टाव् इमे) ह्(ए)तवो ऽष्टौ प्रत्यया (म)हतः पृथिव्(ईच्)आलस्य ॥ कतमे ऽष्टौ ॥

17.4

(इ)यं महापृ(थिव्य्) अप्सु प्रतिष्ठिता ॥ आपो वा(यौ) प्रतिष्ठिता व्(आय्)उ(र् आकाशे प्रतिष्ठितः ॥ भवत्य्) आन्(अन्द सम)यो यद् आकाशे विषमा वायवो वान्त्य् आपः (क्)ष्(ओ)भयन्ति ॥ आपः क्षुब्धाः पृथिवी(ं) चालयन्ति ॥

17.5

अयं प्रथमो हेतुः प्रथमः प्रत्य्(अयो) महतः पृथिवीचालस्य ॥

17.6

पुनर् अपरं भिक्षुर् महर्द्धिको भवति महानुभावः स परीत्तां पृथिवीसंज्ञाम् अधितिष्ठत्य् अप्रमाणां चाप्संज्ञां स आक्(आं)क्षमाणः पृथिवीं चालयति ॥

17.7

भिक्षुणी देवता वा महर्द्धिका भवति महानुभावा सा परीत्तां पृथिवीसंज्ञाम् अधितिष्ठत्य् अप्रमाणां चाप्संज्ञाम् आकांक्षमाणा पृथिवीं चालयति ॥

17.8

अयं द्वितीयो हेतुर् द्वितीयः प्रत्ययो महतः पृथिवीचालस्य ॥

17.9

पुनर् अपरं यस्मिन् समये बोधिसत्वस् तुषिताद् देवनिकायाच् च्युत्वा मातुः कुक्षाव् अवक्रामत्य् अत्यर्थं तस्मिन् समये महापृथिवीचालश् च भवति स्(अर्वश् चायं लोक उदारेणावभासेन स्फुटो भवन्ति ॥)

17.10

अपि ता लोकस्य लोकान्तरिका अन्धतमा अन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्र्(अमसाव्) एवंमहर्द्धि(क्)आव् (एवंमहानुभावाव् आभयाभां न प्रत्यनुभवतस् ता अ)पि तस्मिन् समये उदारेणावभासेन स्फुटा भवति ॥

17.11

तत्र ये (सत्वा उप)पन्नास् ते तय्(आ)भ(य्)आन्(योन्यं सत्वं दृष्ट्वा संजानन्ते ॥ अन्ये ऽपि भवन्तः सत्वा इहोप)पन्नाः ॥ अन्ये ऽपि भवन्तः सत्वा इहोपपन्नाः ॥

17.12

अयं तृतीयो हे(तुस् तृतीयः प्रत्य)यो म(हतः प्)ऋ(थिवीचालस्य ॥)

17.13

(पुनर् अपरं यस्मिन् समये बोधिसत्वो मातुः कु)क्षेर् निष्क्रामत्य् अत्यर्थं तस्मिन् समये महापृथिवीचालश् च भवति पूर्ववद् यावद् अन्ये (ऽपि भ)वन्तः सत्वा (इहोपपन्नाः ॥)

17.14

(अयं चतुर्थो हेतुश् चतुर्थः प्रत्ययो म)हतः पृथिवीचालस्य ॥

17.15

पुनर् अपरं यस्मिन् समये बोधिसत्वो ऽनुत्तरां सम्यक्संबो(धिम् अधिगच्छत्य् अत्यर्थं तस्मिन् समये महापृथिवी)चालश् च भवति पूर्ववत् ॥

17.16

अयं पञ्चमो हेतुः पञ्चमः प्रत्ययो महतः पृथिव्(ईचालस्य ॥)

17.17

(पुनर् अपरम् आनन्द यस्मिन् समये तथागतस् त्रिपरिव)र्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तयत्य् अत्यर्थं तस्मिन् समये महापृथिवीचालश् च भव(ति पूर्ववत् ॥)

17.18

(अयं षष्ठो हेतुः षष्ठः प्रत्ययो महतः पृथिवी)चालस्य ॥

17.19

पुनर् अपरं यस्मिन् समये तथागतो जीवितसंस्कारान् अधिष्ठायायुःसंस्का(रान् उत्सृजत्य् अत्यर्थं तस्मिन् समये महापृथिवीचालो भ)वत्य् उल्क्(आपाता दिशोदाहा अन्तरीक्षे) देवदुन्दुभयो ऽभिनदन्ति ॥

17.20

अय्(अं सप्तमो हेतुः सप्)तम्(अ)ः प्रत्ययो महतः पृथिवीचालस्य ॥

17.21

पुनर् अपरं न चिरस्येदानीं तथागतस्यानु(पधिशेषे निर्वा)णधातौ परिनिर्वाणं भविष्य्(अति ॥ अत्यर्थं तस्मिन्) समये महापृथिवीचालश् च भवत्य् उल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयो ऽभिन(दन्)त्(इ) ॥

17.22

अयम् अष्टमो हेतुर् अष्(टमः प्रत्ययो महत)ः पृथिवीचालस्य ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc