महापरिनिर्वाणसूत्र · अध्याय 19
(गच्छ त्वम् आनन्द यावन्तो भिक्षवश् चापालं चैत्यम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातय ॥)
(एवं भदन्त ॥ आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवश् चापालं चैत्यम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपात्य येन भगवांस् तेनोपसंक्रान्तः ॥ उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् ॥)
(एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् ॥)
(यावन्तो भदन्त भिक्षवश् चापालं चैत्यम् उपनिश्रित्य विहरन्ति सर्वे त उपस्थानशालायां निषण्णाः सन्निपतिताः ॥ यस्येदानीं भगवान् कालं मन्यते ॥)
(अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः ॥ उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत् ॥ निषद्य भगवान् भिक्षून् आमन्त्रयते स्म ॥)
(अनित्या भिक्षवः सर्वसंस्कारा अध्रुवा अनाश्वासिका विपरिणामधर्माणो यावद् अलम् एव भिक्षवः सर्वसंस्कारान् संस्करितुम् अलं विरन्तुम् ॥)
तस्मात् तर्ह्(इ) भिक्षवो ये ते धर्म्(आ) दृष्टधर्महिताय संव(र्)तन्ते दृष्टधर्मसुखाय संपराय्(अहिताय संप)रायसुखाय ते भिक्षुभिर् उद्गृह्य पर्यवाप्य (तथा त)थ्(आ) धारयितव्या ग्राहयितव्या वाचयितव्या यथेदं ब्रह्मचर्यं चिरस्थितिकं स्यात् तद् भविष्(यति बहु)जनहिताय बहुजनसुखाय लो(कानुकम्)पायार्थाय हिताय सुखाय देवमनुष्याणां ॥
कतमे ते धर्मा दृष्टधर्महिताय (संवर्तन्ते दृ)ष्टधर्मसुखाय स(ं)परायहिताय्(अ संपरा)य्(अ)स्(उ)खाय ते भिक्षुभिर् उद्गृह्य पूर्ववद् यावद् देवमनुष्याणाम् ॥
तद्यथा चत्वारि स्मृत्युप्(अस्थानानि चत्वारि) स्(अ)म्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रि(याणि पञ्च ब)लानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः ॥
इमे ते धर्मा दृष्टधर्महिताय संवर्त्(अन्ते पूर्ववद् यावद् देवमनु)ष्याणाम् ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0