महापरिनिर्वाणसूत्र · अध्याय 16
(स मारः पापीयान् येन भगवांस् तेनोपसंक्रान्तः ॥) उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् ॥ एकान्तस्थितो मार(ः पापीयान् भगवन्तम् इदम् अवोचत् ॥)
(परिनिर्वाहि भगवन् परिनिर्वाणसमयः सुगतस्य ॥)
(कस्मात् त्वं पापीय)न्न् एवं वदसि ॥ परिनिर्वाहि भगवन् परिनिर्वाणसमयः सुगतस्य ॥
(एको ऽयं भदन्त समयः ॥ भगवान् उरुविल्वायां विहरति नद्या नैरञ्जनायास् तीरे बोधिमूले ऽचिराभिसंबुद्धः ॥) सो ऽहं येन भगवांस् तेनोपसंक्रान्तः ॥
उपेत्य भगवन्तम् एवं वद्(आमि ॥ परिनिर्वाहि भगवन् परिनिर्वाणसमयः सुगतस्य ॥)
(भगवान् एवम् आह ॥)
(न तावत् पापीयन् परिनिर्वा)स्य्(आ)मि यावन् न मे श्रावकाः पण्डिता भविष्यन्ति व्यक्ता मेधाविनः ॥ अलम् उ(त्पन्नोत्पन्नानां परप्रवादिनां सह धर्मेण निग्रहीतारः ॥ अलं स्वस्य वादस्य प)र्यवदातारो भिक्षवो भिक्षुण्य उपासका उपासिका वैस्तारिकं च मे ब्र(ह्मचर्यं चरिष्यन्ति बहुजन्यं पृथुभूतं यावद् देवमनुष्येभ्यः सम्यक्संप्र)काशितम् ॥
एतर्हि भदन्त भगवतः श्रावकाः पण्डिता व्यक्ता मेधाविनः ॥ अ(लम् उत्पन्नोत्पन्नानां परप्रवादिनां सह धर्मेण निग्रहीतारः स्वस्य वादस्य प)र्यवदातारो भिक्षवो भिक्षुण्य उपासका उपासिका वैस्तारिकं च ते ब्रह्म(चर्यं बाहुजन्यं पृथुभूतं यावद् देवमनुष्येभ्यः सम्यक्संप्रकाशितम् ॥)
(तस्माद् अहम् ए)वं वदामि परिनिर्वाहि भगवन् परिनिर्वाणसमयः सुगतस्य ॥
अल्पोत्सुकस् त्वं पापीयन् भव न चिरस्येदानीं तथागतस्य त्रयाणां मासानाम् अत्ययाद् अनुपधिशेषे नि(र्)व्(आ)णधातौ परिन्(इ)र्वाणं भविष्यति ॥
अथ मारस्य पापीयस एतद् अभवत् ॥ परिनिर्वास्य्(अते) श्रमणो गौतम इति विदित्वा हृष्टस् तुष्ट उदग्रः प्रीतिसौमनस्यजातस् तत्रैवान्तर्हितः ॥
अथ भगवत एतद् अभवत् ॥ यन् न्व् अह्(अं) तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिस(ं)स्कुर्यां (य)था समाहिते चित्ते जीवितसंस्कारान् अधिष्ठायायुःसंस्कारान् उत्सृजेयम् ॥
अथ भगवांस् तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंस्करोति यथा समाहिते चित्ते जीवित(संस्कारान् अधि)ष्ठायायुःसंस्कारान् उत्सृजति ॥ समनन्त(र्)ओत्स्(ऋ)ष्टायुःसंस्कारेष्व् अत्यर्थं तस्मिन् समये महापृथिवीचालश् चाभूद् उल्कापा(ता) द्(इ)शोदाहा (अन्तरीक्षे देवदुन्)दुभयो ऽभिनदन्ति ॥
अथ भगवांस् तस्मात् समाधेर् व्युत्था(य त)स्या(ं) वेलायां (गा)था(ं) बभाषे ॥
तुल्यम् अतुल्यं च संभवं
(भवसंस्कारम् अपोत्सृजन् मुनिः ॥
अध्यात्मरतः समाहि)तो
ह्(य् अभिनत् को)शम् इवाण्ड(संभवः ।)
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0