महाभारततात्पर्यनिर्णय · भाग 261277
विमुच्य द्वेषकामौ त्वं वने तीर्थनिषेवकः ।
तपसाऽराधय हरिं ततः पूतो भविष्यसि । 31.17 ।
इत्युक्तो द्वेषमुत्सृज्य भीमे निर्वेदमागतः ।
अनुज्ञॣअं तपसे प्राप्तुमुपवासपरोऽभवत् । 31.18 ।
अनश्नन्तं चतुर्थेऽह्नि धृतराष्ट्रं युधिष्ठिरः ।
ज्ञॣअत्वा सम्प्रार्थयामास भोजनार्थं पुनः पुनः । 31.19 ।
अनुज्ञॣअं वनवासाय त्वत्तः प्राप्यैव सर्वथा ।
भोक्ष्येऽन्यथा नेति वदन् धृतराष्ट्रः श्रमान्वितः ।
उपवासकृशो भार्यां शिश्रिये मूर्च्छितः क्षणात् । 31.20 ।
शन्तमेन करेणाथ धर्मजस्तं मृदु स्पृशन् ।
शनैः सञ्ज्ञॣअमगमयदब्रवीच्च सुदुःखितः । 31.21 ।
पुरस्कृत्य युयुत्सुं त्वं कुरु राज्यमकण्टकम् ।
च्द्xल्विइइ.वयमेव त्वदर्थाय कुर्मः सर्वे तपो वने । 31.22 ।
नेत्याह धृतराष्ट्रस्तं कुलधर्मो हि नो वने ।
अन्ते देहपरित्यागस्तन्माऽनुज् ञॣअतुमर्हसि । 31.23 ।
तयोर्विवदतोरेवं कृष्णद्वैपायनः प्रभुः ।
सर्वज्ञः सर्वकर्तेश आविर्भूतोऽब्रवीन्नृपम् । 31.24 ।
तपसाऽशेषदोषाणां क्षयकाममिमं नृपम् ।
अनुजानीहि नैवास्य धर्मविघ्नकरो भव । 31.25 ।
कॣअले निर्वेदमापन्नस्तपसा दग्धकिल्बिषः ।
शुभ्रां गतिमयं यॣअयादन्यथा न कथञ्चन । 31.26 ।
इत्युक्तो धर्मराजस्तमनुजज्ञे स चाण्सितः ।
शिक्षयामास सद्धर्मान् नीतिं च विदुषेऽप्यलम् ।
केवलस्नेहतो राज्ञे शुश्राव विनयाय सः । 31.27 ।
अनुज्ञॣअय गृहं प्राप्ते धर्मजे विदुरं पुनः ।
श्राद्धाय वित्तमाकाङ्क्षन् प्रेषयामास तद्वचः । 31.28 ।
श्रुत्वा युधिष्ठिरो भीममाह दातव्यमद्य नः ।
पुत्रपौत्राप्तबन्धूनां श्राद्धेच्छोर्वित्तमञ्जसा । 31.29 ।
तमाह भीमः पॣअपानां विमुखानां मधुद्विषः ।
पॣअरलौकिकसाहाय्यं न कार्यमितरार्थतः ।
दत्तेनापि हि वित्तेन पुत्रश्राद्धं करिष्यति । 31.30 ।
तज्ज् ञॣअत्वा ददतां दोषो भवेदिति विचिन्तयन् ।
कष्टात् कष्टतरं यॣअन्तु सर्वे दुर्योधनादयः । 31.31 ।
भीष्मॣअदीनां वयं श्राद्धकर्तारस्तेन किं ततः ।
कॣअनीनत्वात्तु कर्णस्य सहास्माभिः पृथैव हि ।
श्राद्धकर्मण्यधिकृता किं तस्मै दीयते धनम् । 31.32 ।
च्द्xलिx.इत्युक्तवन्तं नृपतिरर्जुनश्चोचतुः पुनः ।
यियासोर्याचमानाय निजबाहुबलार्जितम् ।
देहि वित्तं परमतः किं त्वामेषोऽभियाचते । 31.33 ।
इत्युक्तमपि नेत्येव ब्रुवाणं शुद्धधार्मिकम् ।
अप्रीत्या जोषमास्वेति प्रोच्योवाच युधिष्ठिरः । 31.34 ।
कोशतो यद् बहिर्वित्तं दॣअनभोगादिकारणम् ।
मम सन्निहितं सर्वं तत् पित्रेऽद्यार्पितं मया । 31.35 ।
एवमेवार्जुनोऽप्याह विदुरं पुनरूचतुः ।
मुख्यधर्मरते भीमे न पिता क्रोद्धुमर्हति ।
इत्युक्तो वित्तमादाय गत्वा क्षत्ताऽग्रजेऽब्रवीत् । 31.36 ।
युधिष्ठिरार्जुनौ भक्तिं नितरां त्वयि चक्रतुः ।
नॣअतिहृष्टस्त्वदाज्ञॣअयां भीमस्तन्मा क्रुधोऽत्र च । 31.37 ।
शुद्धे क्षत्रियधर्मे हि नितरोऽयं वृकोदरः ।
नृपॣअर्जुनौ धर्मरतावपि लोककृपॣअपरौ । 31.38 ।
अजातकोपस्तच्छ्रुत्वा धृतराष्ट्रः प्रशान्तधीः ।
कृत्वा ण्स्राद्धानि सर्वेषां महादानान्यनारतम् ।
दशरात्रं ददौ शुद्धमनसा निरृणत्वधीः । 31.39 ।
सर्वं समर्प्य गोविन्दे पार्थेभ्योऽन्येभ्य एव च ।
स्वजनेभ्यः समादाय स्रवन्नेत्रेभ्य उच्चधीः ।
अनुज्ञॣअं निर्गतः प्राह पौरजानपदान् नृपः । 31.40 ।
धर्मतो रक्षिता यूयमस्मत्पूर्वैर्महात्मभिः ।
नचाहं परमस्नेहाद् युष्मॣअभिः सुकृपॣअलुभिः ।
अरक्षितेति कथितः प्रमादादपि सज्जनाः । 31.41 ।
इष्टं च यज्ञैः पूर्तैश्च चरितं युष्मदाण्स्रयात् ।
पुत्रस्तु मम पापात्मा सर्वक्षत्रविनाण्सकः ।
सर्वातिशङ्की मूढश्च वृद्धानां शासनातिगः । 31.42 ।
च्द्ल्.सौभ्रात्रं येन सन्त्यज्य पाण्डवेषु महात्मसु ।
कृतं विरूपं सुमहत् कुर्याद् यन्नापरः क्वचित् । 31.43 ।
अप्रियाणि च कृष्णस्य सुबहून्याचरत् कुधीः ।
प्रायस्तेनापि मन्देन न युष्मॣअस्वशिवं कृतम् । 31.44 ।
भ्रातरोऽस्य च सर्वेऽपि तच्छीलमनुवर्तिनः ।
हताण्स्च स्वेन पापेन ससुतामात्यबान्धवाः । 31.45 ।
सोऽहं वयोगतश्चैव पुत्राधिभिरभिप्लुतः ।
तत्सम्बन्धकृतं पॣअपं स्वकृतं चॣअत्यपेशलम् ।
पॣअण्डवेषु सकृष्णेषु तपसा मार्ष्टुमुद्यतः । 31.46 ।
तत्र मामनुजानीध्वं कृपया मित्रवत्सलाः ।
मत्प्रियार्थमपि स्नेहः पॣअण्डवेषु महात्मसु । 31.47 ।
क्रियमाणोऽपि कर्तव्यो भूय एव सदाऽचलः ।
ते हि मे पुत्रकाः सन्त इहामुत्र च सौख्यदाः । 31.48 ।
इत्युक्तैः स्वगुणानुच्चैः कीर्तयद्भिः सुदुःखितैः ।
पर्यश्रुनयनैः कृच्छ्रात् पौरजानपदैश्चिरात् ।
अनुज्ञॣअतो ययौ पार्थैरनुयातः सुदूरतः । 31.49 ।
सञ्जयो विदुरश्चैनं सभार्यमनुजग्मतुः ।
अनुवव्राज तं कुन्ती वनाय कृतनिश्चया । 31.50 ।
वॣअर्यमाणाऽपि तनयैः सभार्यैर्भृशदुःखितैः ।
सं स्थाप्य तान् सुकृच्छ्रेण ययौ साऽन्वेव तं नृपम् । 31.51 ।
सं न्दर्शितपथो राजा कुन्तीविदुरसञ्जयैः ।
गॣअन्धारीसहितः प्राप कुरुक्षेत्रे जगद्गुरोः ।
क्रमेणैवाऽश्रमं व्यासदेवस्य सुरपूजितम् । 31.52 ।
त्रिवत्सरादस्य निजस्य लोकस्याऽप्तिं सभार्यस्य जगाद तत्र ।
च्द्लि.ब्रह्माङ्कजस्तेन भृशं प्रतीतो व्यासोपदिष्टं व्यचरत् तपोऽग्र्यम् । 31.53 ।
सक्षत्तृगॣअन्धारिपृथे ससञ्जये तपोभिराराधयति प्रभुं हरिम् ।
वैचित्रवीर्येऽत्र सदारबन्धुभृत्यास्तु पार्था दृशये समाययुः । 31.54 ।
क्षत्तैकतामत्र युधिष्ठिरेण प्राप्तोऽथ भार्यासहितं ससञ्जयम् ।
उपासमानेषु विचित्रवीर्यपुत्रं पृथां चैव पृथासुतेषु । 31.55 ।
प्रादुर्बभूवामितशक्तितेजोज्ञॣअनाद्भुतैश्वर्यसुखादिर् ऊपः ।
व्यासो हरिस्तत्र समीक्ष्य सर्वे सम्पूजयामासुरुदग्रभक्त्या । 31.56 ।
तैः पूजितस्तत्र निषण्ण आह यद्यद् यदिष्टं प्रवदन्तु तत्तत् ।
दॣअस्यामि तस्याद्य तदित्यमुष्मिन् भक्त्युच्छ्रयः पॣअण्डुसुतैः सदारैः ।
वृतोऽत्र कुन्ती रविसूनुजन्ममृत्यूत्थदोषापगमं ययाचे । 31.57 ।
तेषां प्रदत्तेष्वभिवाञ्छितेषु वैचित्रवीर्यः सह भार्ययैव ।
सम्मन्त्र्य निः शेषरणेहतानां सन्दर्शनं प्रार्थितवां स्तमीशम् । 31.58 ।
ततस्तु ते सत्यवतीसुतस्य सर्वेश्वरस्याऽज् ञया सर्व एव ।
समागताः स्वर्गलोकात् क्षणेन दत्ता चदिव्या दृगमुष्य राज्ञः । 31.59 ।
ऊषुण्स्च रात्रिं परमाज्ञयैव सर्वे स्वभार्यासहिता यथा पुरा ।
तृप्तः सदारो नृपतिश्च तत्र सर्वेऽपि दृष्ट्वॣअ महदद्भुतं तत् । 31.60 ।
अथाऽज् ञयैवास्य परस्य सर्वाः स्त्रियो निजेशैः सहिता ययुः स्वम् ।
विनोत्तरां तां तु कथां निशम्य पारीक्षितोऽयाचत तातदृष्टिम् । 31.61 ।
तं चॣअऽनयामास तदैव कृष्णो ह्यचिन्त्यशक्तिः स विकुण्ठलोकात् ।
दृष्ट्वॣअ सपारीक्षित आप तुष्टिं स्वतातमीशेन समाहृतं पुनः । 31.62 ।
सम्पूज्य तं कृष्णमपीशवन्द्यं क्षमापयामास परीक्षिदात्मजः ।
चक्रे च विस्रम्भमतीव भारते पुनश्च तत्रत्यजनैः समेतः । 31.63 ।
पॣअर्थाः पुनः प्राप्य पुरं स्वकीयं धर्मेण पृथ्वीं परिपालयन्तः ।
भोगानरागा अजुषन्त योग्यान् युक्ता जगद्धातरि वासुदेवे । 31.64 ।
च्द्लिइ.वर्षत्रयान्ते त्मसमाहिताग्निं त्यक्ताग्निभिस्तैर्वनमालिहद्भिः ।
ते शुश्रुवुर्धृतराष्ट्रं सभार्यं सहैव कुन्त्या परिदग्धदेहम् । 31.65 ।
व्रील् . आमुखा ध्यानपरा निशम्य स्वर्यातमात्मीयपितृव्यमाण्सु ।
समेत्य भर्त्रा प्रतिपूज्यमानां कुन्तीं च तप्ता विदधुः क्रियाण्स्च । 31.66 ।
ते विष्णुभक्त्या परिपूतकर्मभिर्ज्ञॣअनेन चान्ते तमनुस्मरन्तः ।
पॣअर्थैः सुपुत्रैः सुकृतोर्ध्वकर्मभिर्वृद्धिं सुखस्याऽपुरनप्ययां शुभाम् । 31.67 ।
गॣअवद्गणिर्व्याससकाण्समेत्य शुश्रूषया तस्य पुनर्निजां गतिम् ।
प्रपेदिवान् पाण्डुसुताण्स्च कृष्णं प्रतीक्षमाणाः पृथिवीमशासन् । 31.68 ।
अष्टादशाब्दाः पृथिवीं समस्तां प्रशासतामेवमगुर्महात्मनाम् ।
अरिक्तधर्मार्थसुखोत्तमानामनुज्झितानन्तपदस्मृतीनाम् । 31.69 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
(धृतराष्ट्रादिस्वर्गप्राप्तिर्नाम) एकत्रिं शोऽध्यायः
च्द्लिइइ.(पाण्डवस्वर्गारोहणम्)
अथ द्वात्रिं शोऽध्यायः
ओं । ततः कुरुक्षेत्रमवाप्य कृष्णो दीक्षां प्रपेदे द्विषडब्दसत्रे ।
स एव च व्यासभृगूद्वहात्मा चक्रेऽत्र सादस्यमजोऽप्रमेयः । 32.1 ।
तत्रर्त्विजो दक्षभृगुप्रधानाः पॣअर्था यदूनां प्रवरैः समेताः ।
ब्रह्मेशशक्रप्रमुखाः सुराण्स्च चक्रुः सुसाचिव्यमनन्तदासाः । 32.2 ।
सर्वे च जीवा वसुधातल् . अस्था येऽन्येऽन्तरिक्षद्युमुखोत्तरेषु ।
वसन्ति नारायणपादसं श्रयास्ते चात्र सर्वे मुमुदुः सनागाः । 32.3 ।
सुनिर्णयस्तत्त्वविनिर्णयार्थिनां तत्त्वस्य चाभूदिह वादशीलिनाम् ।
मिथो विवादात् सुरभूसुराणां वॣअक्याद्धरेर्व्यासभृगूद्वहात्मनः । 32.4 ।
धर्मार्थकामानखिलानवापुस्तदर्थिनो मुक्तिमपीह कृष्णात् ।
यथेष्टपानाण्सनवाससो जना विचेरुरत्रामरमानवादयः । 32.5 ।
क्षेत्रं तदासीद्धरिलोकसम्मितं यदीयुरत्राखिलसज्जना युतिम् ।
नॣअनाप्तकामाण्स्च ततो बभूवुर्निर्यत्नदृश्यश्च यतोऽत्र केशवः । 32.6 ।
द्वादशाब्दं महासत्रमेवमेतादृशं हरिः ।
समाप्यावभृथस्नातः पूजयित्वाऽखिलान् जनान् । 32.7 ।
अनुजज्ञे क्रमेणैव वत्सरेण समागतान् ।
स्वकुलं सञ्जिहीर्षुः स विप्रशापमजीजनत् । 32.8 ।
उपदिश्य परं ज्ञॣअनमुद्धवायामुमाण्स्रमम् ।
बदर्याख्यं प्रापयित्वा सप्तमाब्दं शतोत्तरम् ।
प्रतीक्षन् पालयामास पार्थैः सह भुवं प्रभुः । 32.9 ।
समारब्धं कलियुगं यदा दुर्योधनोऽपतत् ।
षट्त्रिं शाब्दं पुनः कृष्णः कृतमेवान्ववर्तयत् । 32.10 ।
कृतादपि विशेषोऽयं यत् पुण्यस्याधिकं फलम् ।
च्द्लिव्.अल्पमेव च पापस्य कालात् कृष्णाज्ञया तथा । 32.11 ।
एवं सुधार्मिके लोके हरिभक्तिपरायणे ।
नष्टेषु कलिलि ङ्गेषु युगवृत्तिमभीप्सवः । 32.12 ।
ब्रह्मरुद्रादयो देवाः स्तुत्वा केशवमव्ययम् ।
व्यज्ञॣअपयन् स्वलोकाप्तिं ओं इत्याह स चाच्युतः । 32.13 ।
प्राचुर्ये सज्जनस्य स्यान्न कलेर्वृद्धिरञ्जसा ।
इति स्वकुलसं हृत्यै प्रभासमनयत् प्रभुः । 32.14 ।
पुण्यक्षेत्रेऽपि न मृतिः स्वगृहे त्वतिधर्मदा ।
गत्यैवाल्पमपि क्षेत्रं स्यान्महत्फलमित्यजः । 32.15 ।
प्रकाण्सयितुमेवैनान् प्रभासाय कुशस्थलात् ।
नीत्वा दानादिसद्धर्मां स्तैरकारयदच्युतः । 32.16 ।
ते ततः शापदोषेण कृष्णेनैव विमोहिताः ।
मैरेयमत्ता अन्योन्यं निपात्य स्वां तनुं गताः ।
तद् दृष्ट्वॣअ बलदेवोऽपि योगेन स्वतनुं ययौ । 32.17 ।
ततः परेशोऽगणितानुभावः स्वसारथिं पॣअण्डवानां सकाण्सम् ।
स्वलोकयानप्रतिवेदनाय स्वस्यानु चैषां त्वरयाऽभ्ययातयत् । 32.18 ।
अथाऽसतः पिप्पलमूल ईशितुरूरुस्थितं पॣअदतल् . अं सुताम्रम् ।
दृष्ट्वॣअ जरा नाम ससर्ज शल्यं भक्तोऽप्यलं रोहितं शङ्कमानः । 32.19 ।
अच्छेद्याभेद्यदेहस्य शल्ये पादमुपस्थिते ।
समीपमागतो व्याधो दृष्ट्वॣअ भीतोऽपतद् भुवि । 32.20 ।
विप्रवाक्यं मॣअनयानः कॣअरयित्वाऽमुना हरिः ।
पॣअपं मॣअं जहि देवेति याचन्तमनयद् दिवम् । 32.21 ।
पॣअदप्रहारदोषेण तं भृगुं व्याधतां गतम् ।
पश्चात्तापेन भक्त्या च सुप्रीतस्तच्छरीरिणम् ।
च्द्ल्व्.स्वाज्ञॣअप्राप्तविमानेन दिवं निन्ये जनार्दनः । 32.22 ।
नीचा योनिर्नीचनीच कर्माऽप्तं नीचकर्मतः ।
अदुष्टत्वात्तु मनसो भक्तिलोपो नचाप्यभूत् ।
भृगोरत्राबुद्धिपूर्वं नॣअतिदोषकृदप्यभूत् । 32.23 ।
ततो विरि ञ्चेशपुरन्दराद्याः पुनः स्तुवन्तोऽभिययुः प्रणम्य ।
कृष्णं स चाऽश्वेव ययौ स्वलोकं स्वतेजसा सर्वमिदं प्रकाण्सयन् । 32.24 ।
गोपालमन्त्रं भजतां फलप्रद एकेन र् ऊपेण स भुव्यदृश्यः ।
तस्थौ द्वितीयेन च सूर्यमण्डले तृतीयमासीच्छिवपूजितं वपुः । 32.25 ।
सम्पूजितं ब्रह्मलोके चतुर्थं कञ्जोद्भवेनाथ परं स्वधाम ।
समाप्नुवानं वपुरस्य पञ्चमं भक्त्याऽन्वयुर्देववराः स्वशक्त्या । 32.26 ।
तत्तेजसा ते प्रतिमुष्टदृष्टयः पुरुष्टुताद्या अमितोरुदीधितेः ।
यॣअवत् स्वगम्यं त्वनुगम्य तस्थुर्निमीलिताक्षा विहतोर्ध्वचाराः । 32.27 ।
वीन्द्रेशशेषानुगतः स्वयम्भूर्धाम प्रविष्टं तमजं प्रणम्य ।
वीन्द्रादिकैरप्ययुतः स्वपित्राऽश्लिष्टो रहश्चाकथयत् तथाऽस्तौत् । 32.28 ।
स पूर्वरूपेण समाप्य चैक्यं विभज्य चेच्छानुसृतोऽथ रेमे ।
हरिः श्रिया ब्रह्ममुखैश्च मुक्तैः सम्पूज्यमानोऽमितसद्गुणात्मा । 32.29 ।
ब्रह्माऽपि शर्वादियुतः स्वलोकं प्राप्तः पुनस्तत्र गतं च कृष्णम् ।
रेमेऽभिपश्यन् प्रतिपूजयं स्तं सुराण्स्च सर्वे रविबिम्बसं स्थम् । 32.30 ।
यतो न दर्शिता भ्रान्तिः प्रादुर्भावेष्वपि क्वचित् ।
देहत्यागानुकारेण हरिणा तदिहाच्युतः । 32.31 ।
मोहयित्वाऽसुरानन्धं तमः प्रापयितुं प्रभुः ।
चिदानन्दैकदेहोऽपि त्यक्तं देहमिवापरम् ।
सृष्ट्वॣअ स्वदेहोपमितं शयानं भुव्यगाद् दिवम् । 32.32 ।
दॣअरुकोक्त्या समायातः पॣअर्थस्तमदहत् तदा ।
च्द्ल्वि.रौहिणेयादिकानां च शरीराणि प्रधानतः ।
दॣअरुको विष्णुलोकं तु पुनराप यथागतम् । 32.33 ।
तथैव जनमोहाय प्राप्य वह्नावदृश्यताम् ।
रुग्मिण्यगाद्धरेः पॣअर्श्वं सत्या कृत्वा तपस्तथा । 32.34 ।
चिदानन्दैकदेहे हि द्विरूपे इव ते यतः ।
एकैवातः कृष्णवत् ते दुष्टान् मोहयतस्तथा । 32.35 ।
अन्या महामहिष्यस्तु त्यक्त्वा देहं हुताण्सने ।
कॣअण्स्चित् काण्स्चित्तु तपसा त्यक्तदेहा हरिं ययुः । 32.36 ।
रौहिणेयादिकानां च भार्या वह्निमुखे तनुम् ।
त्यक्त्वा स्वभर्तॣऋनेवाऽपुः सर्वा एव पतिव्रताः । 32.37 ।
वसुदेवः पॣअर्थमुखाच्छ्रुत्वैतद् योगमास्थितः ।
त्यक्त्वा देहं कश्यपत्वं प्राप कृष्णानुरागतः । 32.38 ।
तस्यार्जुनोऽश्वमेधाग्नावन्त्यकर्माकरोत् तदा ।
त्यक्तदेहास्तस्य भार्या वह्नौ प्रापुस्तमेव च । 32.39 ।
स्त्रियो बालां स्तथाऽदाय धनं चैव धनञ्जयः ।
विनिर्ययौ द्वारवत्यास्तां जग्रास च सागरः । 32.40 ।
स्त्रीबालसहिते पार्थ एकस्मिन् पथि गच्छति ।
शापात् सुपापा ॡअभीराः स्त्रीजनान् जह्रुरुद्धताः । 32.41 ।
यॣअस्ताः षोडण्ससाहस्रवनिताः शतसं युताः ।
कृष्णण्सापान्म्लेच्छवशं ययुर्दर्पनिमित्ततः । 32.42 ।
ह्रियमाणे धने चैव वनितासु च वासविः ।
युयुत्सुर्गाण्डिवं सज्यं कृच्छ्रेणैव चकार ह । 32.43 ।
क्षीणास्तस्य शरा दैवान्नास्त्राणि स्मृतिमाययुः ।
स तद् दैवकृतं ज्ञॣअत्वा सं स्मरन् पुरुषोत्तमम् ।
च्द्ल्विइ.निघ्नञ्छत्रून् गाण्डिवेन शेषं रक्षन् कुरूनगात् । 32.44 ।
तदा कुरुक्षेत्रगतं जगद्गुरुं सुपूर्णविज्ञॣअनबलर्द्धिसत्सुखम् ।
तमेव वासिष्ठकुलोद्वहं हरिं निरीक्ष्य दुःखेन पपात पादयोः । 32.45 ।
स तेन पुं सां प्रवरेण हेतुभिः सम्बोधितोऽज्ञॣअनतमों शुमालिना ।
सं स्थाप्य चेतः पुनरेव तस्मिन् जहौ शुचः प्रायश एव धैर्यात् । 32.46 ।
स्त्रियो म्लेच्छहृताः कृष्णप्रेषिताद् दाल्भ्यतः पुनः ।
गोविन्दैकादशीं श्रुत्वा कृत्वा सारस्वते जले ।
निमज्ज्य वायोर्वचनात् त्यक्तदेहा दिवं ययुः । 32.47 ।
अर्जुनस्तु कुरुक्षेत्रे हार्दिक्ययुयुधानयोः ।
सुतौ सारस्वते चैव देशे राज्येऽभ्यषेचयत् । 32.48 ।
अनिरुद्धसुतं वज्रं प्रियं कृष्णस्य सद्गुणम् ।
सशूरसेनेन्द्रप्रस्थराजानमकरोद् वशी । 32.49 ।
स्त्रीबालां श्च धनं चैव तस्मिन् सं स्थाप्य फल्गुनः ।
ययौ भ्रातॣऋनशेषं च वृत्तं तेषामवर्णयत् । 32.50 ।
ते चावियोगसमयं स्मरन्तो मुरवैरिणा ।
अभ्यषिञ्चन् भागवतं मॣअहाराज्ये परीक्षितम् । 32.51 ।
स्त्रीहारिणां च म्लेच्छानां वधायैनमयोजयन् ।
कृतं च तेन तत् कर्म वोढ्रा पैतामहं धुरम् ।
समयं परिरक्षद्भिर्न पार्थैरेव यत् कृतम् । 32.52 ।
वॣअसुदेवपदा स्पृष्टभूकण्टकसमुद्धृतिः ।
समयः पॣअण्डवानां हि तस्यैवानुगतिः परम् । 32.53 ।
अनुव्रजद्भिर्विश्वेशं नॣअस्माभिर्भूस्तदुज्झिता ।
भोज्या रक्ष्यॣअऽपि वा तेषामित्येव समयः पुरा । 32.54 ।
तत्र काल् . ई भीमभार्या वैष्णवं योगमास्थिता ।
च्द्ल्विइइ.कृष्णयैकत्वमापन्ना त्यक्त्वा देहं तु मानुषम् । 32.55 ।
सुभद्राद्यास्तु या भार्याः पॣअर्थानां तु तदाज्ञया ।
युयुत्सुश्चात्र शिक्षार्थं पौत्रस्यैवावसन् पुरे । 32.56 ।
सन्त्यज्य राज्यचिह्नानि वैष्णवं योगमास्थिताः ।
वीराध्वानं ययुः सर्वे कृष्णया सह पाण्डवाः । 32.57 ।
प्रागुदीचीं दिशं पूर्वं ययुस्तत्रार्जुनो धनुः ।
नॣअत्यजल्लोभतस्तं तु समुद्रमुप पावकः ।
दृष्ट्वॣअ ययाचे राजानं तदुक्तः प्रास्यदम्बुधौ । 32.58 ।
प्रातिभाव्यं तु वरुणे निस्तीर्याग्निरदृश्यताम् ।
ययौ तेऽपि ययुः क्षिप्रं प्लवन्तः सप्तवारिधीन् । 32.59 ।
अहोभिः सप्तभिर्योगं समारूढॣअः प्रदक्षिणम् ।
कृत्वा क्वचिदसज्जन्त आसेदुर्गन्धमादनम् ।
अत्र नारायणक्षेत्रे तेषां तन्वोऽपतन् क्रमात् । 32.60 ।
द्रौपदीसहदेवादिपञ्चानां तत्र मारुतिः ।
सदेहनाकानिच्छुत्वाद् देहप्रपतनं हि तत् । 32.61 ।
तेषामिहेति याथार्थ्यं जानन् पप्रच्छ धर्मजम् ।
केनकेनापतद् देहो दोषेण न इति क्रमात् । 32.62 ।
मृतिकाले हि यो यस्य दोषं वक्त्यृणमोचनम् ।
तस्मात् स्यादुक्तदोषस्येत्याह यच्छ्रुतिरेव तत् ।
ऋणमोक्षाय सर्वेषां भीमो दोषानवादयत् । 32.63 ।
सोऽपीच्छापतितान् देहानजानञ्छुद्धकर्मणाम् ।
अपश्यन् कारणं प्राह दोषान् स्यादेवमित्यपि ।
राजा सम्भावनामात्रं नहि कार्यमकारणम् । 32.64 ।
"स्वच्छन्दमृत्यवो योगाद् देहानुत्सृज्य पाण्डवाः ।
कृष्णा चाऽपुः परं स्थानं यन्न यान्त्यपि देवताः " ।
च्द्लिx.इति श्रुतेर्न ते पापाद् देहां स्तत्यजुरूर्जिताः । 32.65 ।
"ऋणान्युन्मुच्य दोषोक्त्या स्वानां भीमः स्वकां तनुम् ।
तत्याज परमं ध्यायन्नाप च स्थानमुत्तमम्" ।
इति स्कान्दपुराणोक्तं व्यासवाक्यमृषीन् प्रति । 32.66 ।
भीमादृते हि चतुर्षु पक्षपातस्तु वासवौ ।
योग्य एवेति कृष्णाया न दोषः स्यात् कथञ्चन । 32.67 ।
नीतिर् ऊपे वीर्यबले महान्त्येषां यतः क्रमात् ।
प्राणत्वाद् भोगशक्तिश्च नहि दोषाय मारुतेः । 32.68 ।
"यथास्वरूपविज्ञॣअनमात्मन्यपि न दोषकृत्" ।
इति व्यासस्मृतेरेषामुक्तदोषोद्भवः कथम् । 32.69 ।
कदाचिदतिमानोऽपि त्रयाणामेषु जायते ।
तथाऽपि तत्फलं नैतत् तारतम्यं हि मुक्तिगम् ।
गुणदोषाधिकाल्पत्वादत्रस्थमपि हि श्रुतम् । 32.70 ।
आरब्धकर्मनाण्से हि पतेद् देहोऽप्यपापिनः ।
युधिष्ठिरोऽपि हि स्वर्गं बुभुजे नैव तत्तनुः । 32.71 ।
अतिमानादयो दोषाः कुत एव हि मारुतेः ।
अनादिकालतः सर्वदोषहीना गुणाधिकाः । 32.72 ।
सर्वजीवगणेभ्यो ये ते हि वायुत्वमाप्नुयुः ।
ऋजवो नाम ये देवा देवानामपि देवताः । 32.73 ।
अभावं ह्यतिमानादेर्भीमस्याऽह च केशवः ।
"यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव ।
सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्" । 32.74 ।
इति तस्माद् यथा युद्धे धर्महानिममन्यत ।
एवमत्राप्यधर्मेण देहपातं नृपोऽब्रवीत् । 32.75 ।
च्द्ल्x.पूज्येभ्यः पूर्वमेवैषां देहपातमभीप्सताम् ।
तत्कामाद् देहपातोऽभून्न पापान्मुच्यतां यथा । 32.76 ।
नहि पापफलान्मुक्तौ देहपातः कथञ्चन ।
किन्तु कर्मक्षयादेव तथा सर्वत्र निश्चितः । 32.77 ।
तेषु स्वलोकान् प्राप्तेषु धर्मजश्चाऽत्मना सह ।
ययौ पुरो देवरथस्तदाऽस्यावततार ह । 32.78 ।
रथमारुहेति कथितो रथिना पुरतः शुनः ।
आरोहमब्रवीन्नैतद् युक्तमित्याह सोऽपि तु । 32.79 ।
नॣअऽरुहेयं विना ण्स्वानमिति तेन स्थिरोदिते ।
स्वरूपं दर्शयामास धर्मो ह्याप्तः श्वरूपताम् । 32.80 ।
आनृशं स्यपरत्वेन कीर्तिमेवाऽत्मनो वृषः ।
ख्यापयामास कौन्तेयरूपिणो धर्मसूक्तिभिः । 32.81 ।
ततः स रथमारुह्य लोकानामुत्तरोत्तरम् ।
अतिक्रम्याखिलान् राज्ञो जगाम श्रीपतिप्रियः । 32.82 ।
सर्वेषामुत्तरं लोकमैन्द्रं प्राप्येदमेव ते ।
स्थानमित्युदितो देवैर्दुर्योधनमवैक्षत ।
सभ्रातृकं ज्वलन्तं च सर्वेषामुपरि स्थितम् । 32.83 ।
तं दृष्ट्वॣअ परमक्रुद्धो निमील्य नयने शुभे ।
भ्रातरो मे क्व कृष्णा च सकर्णाः क्व च बान्धवाः ।
धृष्टद्युम्नादयः पुत्रा हैडिम्बाद्याण्स्च सर्वशः । 32.84 ।
यॣअदवश्चेति पप्रच्छ देवां स्ते च तमब्रुवन् ।
किं ते तैः स्वकृतं कर्म भुज्यतेऽत्र नचापरैः । 32.85 ।
इत्युक्त आह पापोऽयं पृथिवीक्षयकारकः ।
सर्वातिशङ्की मित्रध्रुङ् नारायणपराङ्मुखः । 32.86 ।
च्द्ल्xइ.नॣअस्तिकोऽतिशठः क्रूरो द्वेष्टा विष्णोण्स्च तद्भुवाम् ।
कथं दुर्योधनः स्थानं सर्वोत्तममवाप्तवान् । 32.87 ।
कथं च सर्वधर्मज्ञॣअ नारायणपरायणाः ।
सं स्थिताः परमे धर्मे दृश्यन्तेऽत्र न मत्प्रियाः । 32.88 ।
यत्र सन्तस्तु ते सन्ति तत्र स्थातव्यमेव मे ।
निरयेऽपि नचात्रापि नानेन सह पापिना ।
अस्य वीरतमस्येदं धार्तराष्ट्रस्य युज्यते । 32.89 ।
इत्युक्ता देवत् आ दूतं स्वानां सन्दर्शनार्थिनः ।
राज्ञः सम्प्रेषयामासुस्तत्सन्दर्शितवर्त्मना । 32.90 ।
दुर्गन्धेन सुकृच्छ्रेण तमसा प्रावृतेन च ।
गत्वैव कियतीं भूमिं तद्दुर्गन्धासहो नृपः ।
इच्छन् निवर्तनं तत्र स्वानां वॣअच इवाण्सृणोत् । 32.91 ।
क्षणं तिष्ठ महाराज सन्निधानबलात् तव ।
वेदना नो न महतीत्येच्छ्रुत्वा युधिष्ठिरः । 32.92 ।
के यूयमिति पप्रच्छ दीनध्वनिविशङ्कितः ।
भीमोऽहमर्जुनः कर्ण इत्याद्युक्तमिवाण्सृणोत् । 32.93 ।
श्रुत्वा तत् कृपयाऽविष्टः शोकामर्षसमन्वितः ।
आह दूतं यथेष्टं त्वं गच्छ नाहमितो व्रजे । 32.94 ।
नच स्वर्गेण मे कार्यं त्यक्त्वा स्वजनमीदृशम् ।
इत्युक्तः प्रययौ दूतस्तस्थावेव युधिष्ठिरः । 32.95 ।
ततोऽत्र देवाः पुरुहूतपूर्वकाः समाययुः स्नेहवशाद् युधिष्ठिरे ।
तेष्वॣअगतेष्वेव न तत्र वाचो दीना न दुर्गन्धतमोऽप्यपश्यत् ।
स्वर्गोत्तमं देशमपश्यदेतमभ्रान्तचेताः स युधिष्ठिरस्तदा । 32.96 ।
आहात्र धर्मः पुनरात्मसद्यशः प्रकाण्सयन् पाण्डुसुताभिधं स्वम् ।
धर्माद् विशिष्टा हि सदाऽनृशं सता दृष्टा चसा त्वय्यधिका त्रिशो मया । 32.97 ।
च्द्ल्xइइ.शक्रोऽप्युवाचैनमिदं मृषा ते प्रदर्शितं द्रोणकृते मृषागिरः ।
कृच्छ्रादिदं ते कथितं नचातिविस्रम्भ आसीत् तव कृष्णवाक्ये । 32.98 ।
नह्याज्ञया वासुदेवस्य किञ्चित् पापं भवेत् सर्वविधर्मिणोऽपि ।
ब्रह्मापराक्ष्येऽपि विकर्म सूचकं प्रारब्धपापस्य विषाण्सनं यथा । 32.99 ।
पश्यात्र भीमप्रमुखान् सुखस्थान् सम्पूज्यमानां स्त्रिदशैः सुरूपान् ।
कुतः परब्रह्मदृशां सुशुद्धसत्कर्मणां कृष्णपरायणानाम् ।
परेण योगेन विसृष्टतन्वां दुःखं भवेद् देववराधिपानाम् । 32.100 ।
एते हि देवप्रवराः पृथिव्यां जाता भुवो भारजिहीर्षुमीशम् ।
प्रतोष्य तद्भावितबुद्धिकर्मभिः पुनश्च तेनैव सहाऽपिरे दिवम् । 32.101 ।
न ते नृपॣअद्यापि हि मानुषो गतो भावस्ततो द्वेष्टि सुयोधनादीन् ।
निमज्ज्य तद् विष्णुपदोदकेऽत्र विसृज्य देहं भज देवभावम् । 32.102 ।
सुयोधनाद्या यदिमे सुपापा ॡअरब्धकर्मक्षयमाप्य नित्ये ।
निः शेषसौख्योज्झितनित्यदुःखेऽवशाः पतिष्यन्त्यपुनर्निवृत्ताः । 32.103 ।
देवां शजा ये तु समस्तशस्ते स्वमूलरूपं समवाप्य काले ।
स्वतारतम्यानुसृतां विमुक्तिं प्राप्स्यन्ति नात्रापि विचार्यमस्ति । 32.104 ।
इत्युक्त आण्स्वेव निमज्ज्य गङ्गां धर्मात्मजस्तं प्रविसृज्य देहम् ।
सद्यो बभौ दैवमवाप्य कायं विसृष्टरोषादिसमस्तदोषः । 32.105 ।
स तु प्रपश्यन् स्वजनं समस्तं स्वमूलरूपातिसमीपसं स्थम् ।
ददर्श भीमं च मरुत्समीपे मध्ये ज्वलन्तं मरुतां गणस्य । 32.106 ।
ददर्श कृष्णामपि तत्समीपे श्रिया ज्वलन्तीं समतीत्य चान्याः ।
स्प्रष्टुं च सं स्कारवशादियेष निषिध्य तं प्राह सुराधिराजः । 32.107 ।
एषा हि साक्षाज्जगतां प्रियस्य प्राणात्मनो जीववरेश्वरस्य ।
प्राणप्रिया ण्स्रीरिति नाम यस्याः शमात्मकेऽस्मिन् रमते यदेषा । 32.108 ।
च्द्ल्xइइइ.युष्मच्चतुर्देहगतस्य वायोर्वायुप्रिया भीमतनोस्तथैव ।
भोगाय सृष्टा पुरुषोत्तमेन युष्मत्प्रियार्थं भवत् आं च दारैः । 32.109 ।
प्रीतिस्ततो ह्यभ्यधिका बभूव भीमस्य चास्यास्तदनु स्म पार्थे ।
ततो भवत्स्वेव यथाक्रमेण गुणानुसारेण समीरणस्य । 32.110 ।
इदा हिसा ण्सुद्धतनुः प्रजाता ण्सच्यादियोगापगताग्र्यदेहा ।
यूयं च सर्वे मरुतो विशेषसं योगहीनाः स्वशरीरसं स्थाः । 32.111 ।
स्पर्शेऽपि नास्याः पवमानपत्न्याः सुपूतताऽलं भवत् आमिदानीम् ।
नचोत्तरत्रापि भवेत् कथञ्चिद् दिवौकसां मॣअनुषदेहिनो यथा । 32.112 ।
इतीरितं तं प्रतिसन्निवृत्तं विनाण्सयन् मानुषवासनां स्वयम् ।
समाण्स्लिषच्छुद्धतनुः स्तनोत्थो धर्मो हरेः सोऽभवदाण्सु तत्समः । 32.113 ।
ततस्तु पार्था अखिलाः स्वमूलरूपैः सहैवाऽविविशुर्मुदाऽन्विताः ।
स्वीयानि धामानि ततोऽप्यनूनभोगाः सदा सन्न्यवसं श्च तत्र । 32.114 ।
तत्रापि कृष्णेन समागमोऽभूत् पुरेव तेषामतितत्पराणाम् ।
चिक्रीड एभिः सहितस्तथैव कृष्णोऽपि तद्वत् सरथोऽर्जुनेन । 32.115 ।
अन्ये च देवां शभवाः समस्ताः स्वमूलरूपैक्यमवापुराण्सु ।
कर्मक्षयादेव सुरेतरास्तु पुण्यक्षयं प्राप्य भुवि प्रजाताः । 32.116 ।
चतुः सहस्रं त्रिशतोत्तरं ते सं वत्सराणामनुभूय दिव्यान् ।
भोगान् नरत्वेऽपि सदेश्वरोऽहमसज्जगच्चेति धियाऽप्नुवं स्तमः । 32.117 ।
दुःखेऽपि तेषामिह तारतम्यं कलेः परं दुःखमिहाखिलाच्च ।
यथा विरि ञ्चस्य सुखं परं स्यान्मुक्तौ हरिद्वेषकृतो विशेषः । 32.118 ।
केचित् पिशाचासुरराक्षसत्वमवाप्य विष्णोरपि तत्पराणाम् ।
द्वेषात् तमोऽन्धं त्वरया समाप्नुयुर्देवाः स्वकाले निजयोग्यमुक्तिम् । 32.119 ।
चतुः सहस्रे त्रिशतोत्तरे गते सं वत्सराणां तु कलौ पृथिव्याम् ।
जातः पुनर्विप्रतनुः स भीमो दैत्यैर्निगूढं हरितत्त्वमाह । 32.120 ।
च्द्ल्xइव्.तदैव कृष्णाऽपि भुवि प्रजाता प्रीत्यै हरेरन्धतमस्यपातयत् ।
महासुरान् विष्णुपरार्जुनाद्या कृते प्रजाता हरितोषणाय ।
पुनश्च ते स्थानमवाप्य सर्वे स्वीयं परान्ते तु विमुक्तिमाप्नुयुः । 32.121 ।
वॣअयुत्वमाप्तः स हनूमदं शो ब्राह्मं पदं प्राप्य वृकोदरश्च ।
वॣअगीश्वरत्वं गतयैव कृष्णया सहैव मुक्तिं गमिताऽखिलोत्तमाम् । 32.122 ।
भुवि द्युलोके च विरि ञ्चतायां मुक्तौ च ताभ्यामधिकं समस्तात् ।
सन्तोष्यते पूर्णगुणो रमेशः सदैव नित्योर्जिततद्रतिभ्याम् । 32.123 ।
"भूषन् न योऽधि बभ्रूषु नम्नते" "बल् . इत्था तद् वपुषे धायि दर्शतम्" ।
"तां सु ते कीर्तिम् मघवन् महित्वा" 84 इत्यादिसूक्तानि च तत्प्रमाणम् । 32.124 ।
अन्यानि वाक्यानि च वैदिकानि सपञ्चरात्रोक्तिपुराणकानि ।
पृष्टण्स्च भीष्मोऽत्र युधिष्ठिरेणैतन्मोक्षधर्मेष्वपि किञ्चिदाह । 32.125 ।
एवं प्रयातेषु सुकेशवेषु स्वानेव लोकान् यदुपाण्डवेषु ।
परीक्षिदाद्यास्तु तदन्वयोत्था व्यासानुशिष्टाः पृथिवीमरक्षन् । 32.126 ।
तै क्षेमकान्तैरिह भारतादिशास्त्राणि शृण्वद्भिरशेषविद्भिः ।
व्यासप्रभावाच्च कलौ च धर्मो ज् ञॣअनं च सुत्रातमगान्न नाण्सम् । 32.127 ।
सं वत्सराणां तु सहस्रके गते प्राप्तेषु चद्यामखिलेषु सत्सु ।
दग्धा पुरा ये त्रिपुरं घ्नतैव रुद्रेण जाताः पृथिवीतल् . ए ते। 32.128 ।
अदर्शनं सर्वमुनीन्द्रवृन्दैः सहैव सज्ज् ञॣअनमहानिदाने ।
व्यासे प्रयातेऽपि सुतत्त्वविद्या तत्सम्प्रदायादपि तैरवाप्ता । 32.129 ।
उत्सादितत्वात्तु दुरागमानां तत्सम्प्रदायस्य च नाण्सितत्वात् ।
प्रसारितत्वाच्च सदागमानां पॣअपा अपि ज् ञॣअनमवापुरेतत् । 32.130 ।
शुना पुरोडाण्समिवावलीढं वेदश्रुतिं वॣअऽन्त्यजनैरवाप्ताम् ।
84 ऋग्वेद 1.140.6, 1.141.1, 10.54.1
च्द्ल्xव्.अनन्तदुःखाप्तिसुयोग्यदैत्यैर्विद्यामवाप्तां तु न सेहिरे सुराः । 32.131 ।
नॣअवाग्गतिः क्वापि सुवेदिनां भवेत् प्राप्यं सुखं नित्यमवश्यमेभिः ।
प्राप्यं तमोऽन्धं त्वसुरैर्न मुक्तिः कदाचिदाप्या तदचिन्तयन् सुराः । 32.132 ।
ज्ञॣअनप्रदानाय सतां तदन्यज्ञॣअनप्रणाण्साय च विष्णुनैते ।
क्लृप्तास्ततस्ते सविरि ञ्चशर्वा विज्ञॣअपयामासुरुपेत्य विष्णुम् । 32.133 ।
क्षीरोदधेरुत्तरतीरविष्ठितैरभिष्टुतः सुष्टुतिभिः पुरुष्टुतः ।
प्रदाय तेषामभयं रमापतिः क्षणादभूच्चारुतमाकृतिः शिशुः । 32.134 ।
यस्त्रैपुराणां प्रथमोऽत्र जातः शुद्धोदनेत्येव जिनेति चोक्तः ।
क्षेत्रे गयाख्येऽस्य शिशुं प्रजातं सम्प्रास्य दूरेऽत्र बभूव विष्णुः ।
अजानमानाः स्वशिशुं गतं तं शिशुं हरिं वीक्ष्य निजं स्म मेनिरे । 32.135 ।
तेषां तदा वैदिककर्म वीक्ष्य सम्प्राहसत् तद्वपुषैव केशवः ।
तं जातमात्रं प्रहसन्तमीक्ष्य सुविस्मितैः पृष्ट उवाच विष्णुः ।
बुद्धोऽहमित्येव सुनित्यबोधाज्जगाद चैषामथ बुद्धदर्शनम् । 32.136 ।
तथाऽप्यविश्वासमवेक्ष्य तेषां सस्मार देवानखिलान् जनार्दनः ।
विज्ञॣअय ते तस्य मनोगतं निजान् प्रचिक्षिपुर्हेतिगणानमुष्मिन् । 32.137 ।
स जातमात्रः शिवपूर्वकाणां शूलादिहेतीरखिला निगीर्य ।
दैत्यातिमोहाय निजं च चक्रं स्वमुक्तमाण्स्वेव वशी समग्रहीत् । 32.138 ।
तदासनत्वेन विधाय तस्मिन् समास्थितं देवगणाः प्रणम्य ।
जग्मुः स्वधामानि वचां सि चास्य स्वीचक्रुराण्स्वेव जिनादिदैत्याः । 32.139 ।
ते ज् ञॣअनधर्मावपहाय पापा विमोहिता देववरेण सर्वे ।
जग्मुस्तमोऽन्धं क्षणिकं समस्तं ज्ञॣअनं नसच्चेति दृढं स्मरन्तः । 32.140 ।
नॣअरायणोऽप्याप्य सुरेन्द्रवृन्दं वृत्तं च तेषामखिलं निगद्य ।
पृष्टण्स्च तैराह निजं हृदिस्थं बौद्धागमार्थं सृतिबन्धमोचनम् । 32.141 ।
क्षणादयं क्षणिकास्तद्विशेषा यतः प्रयान्त्येव निसर्गतोऽखिलाः ।
च्द्ल्xवि.ततः स्थिरत्वेऽपि विशेषसं श्रयादुक्तं क्षणस्थायि मया समस्तम् । 32.142 ।
तद्वान् विशेषण्स्च यतो न भिन्नो सदा स्वनिर्वाहकशक्तियुक्तौ ।
अतः क्षणस्थायि समस्तमेतत् स्थिरात्मकं चेति हि नास्ति भेदः । 32.143 ।
ज्ञोऽहं सदैकः परमो मयैतत् सदाऽननीयं हि यतोऽस्वतन्त्रम् ।
ज्ञॣअनात्मकं विश्वमतो मयोक्तं जडस्वरूपं च किमु स्म चेतनम् । 32.144 ।
शं शीलकोऽहं यत एव चोच्चः शूनामकस्तद्धि मया निधेयम् ।
शून्याभिधं दोषविरुद्धरूपो दोषोज्झितोऽन्यस्त्वखिलादनामा ।
एनैव साद्यं त्वसदेव नामतस्त्वभाव एनैव भवेद् यतस्तत् । 32.145 ।
इत्यादि बोद्धव्यमिदं समस्तं मयोदितं क्वापि न हेयमस्ति ।
इत्यादि देवान् प्रतिबोधयं श्च देवैः सहोवास स बुद्धदेवः ।
गत्वा स्वधामाप्यपरेण रूपेणाऽस्ते पृथक् चैकतनुर्यथेष्टम् । 32.146 ।
ततस्तु बुद्धोदितपक्षसं स्थो जिनोऽपि चक्रे मतमन्यदेव ।
बौद्धेन जैनेन मतेन चैव दैत्यां शकाः प्रीतिमगुः समस्ताः । 32.147 ।
प्रशान्तविद्येत्यभिधं तथाऽन्यद् बुद्धोक्तशास्त्रं त्रिदशा अवाप्य ।
तोषं ययुर्वेदसमस्तसारं यॣअमास्थितानामचिरेण मुक्तिः । 32.148 ।
अन्ये मनुष्यॣअ अपि भारताद्यं सत्सम्प्रदायं परिगृह्य विष्णुम् ।
यजन्त आपुः परमां गतिं तन्न सेहिरे क्रोधवशादिदैत्याः । 32.149 ।
शैवं तपस्ते विपुलं विधाय जगद्विमोहोर्जितशक्तिमस्मात् ।
प्राप्य प्रजाता भुवि मोहनं च चक्रुः कुतर्कैरभिदां वदन्तः । 32.150 ।
तेषां प्रपाताय सतां च मुक्त्यै जन्माऽस भीमस्य यदुक्तमत्र ।
दुर्गा पुनर्विप्रकुलेऽवतीर्णा हनिष्यति व्रातमथासुराणाम् । 32.151 ।
ततः कलेरन्तमवाप्य धर्मज्ञॣअनादिकल्याणगुणप्रहीने ।
लोके विरि ञ्चत्रिपुरघ्नशक्रपूर्वाः पयोब्धिं त्रिदशाः प्रजग्मुः । 32.152 ।
नॣअरायणस्तैः स्तुतिपूर्वमर्थितो भवाय लोकस्य स शम्भल् . आख्ये ।
च्द्ल्xविइ.ग्रामे मुनेर्विष्णुयशोऽभिधस्य गृहे बभूवाऽविरचिन्त्यशक्तिः । 32.153 ।
कलेस्तु कात्कारत एष कल्की ज्ञॣअनं कलं कं सुखमेव तद्वान् ।
कल्कीति वा तेन समस्तदस्युविनाण्सनं तेन दिनाद् व्यधायि । 32.154 ।
अधर्मवृत्तं विमुखं हरेश्च निहत्य निः शेषजनं तुरङ्गी ।
सं स्थापयामास स धर्मसेतुं ज्ञॣअनं स्वभक्तिं च निजप्रजासु । 32.155 ।
इत्याद्यनन्तानि हरेरुदारकर्माणि रूपाणि च सद्गुणाण्स्च ।
नित्यव्यपेताखिलदोषकस्य ब्रह्मेत्यनन्तेति च नाम येन । 32.156 ।
आनन्दतीर्थाख्यमुनिः सुपूर्णप्रज्ञॣअभिधो ग्रन्थमिमं चकार ।
नॣअरायणेनाभिहितो बदर्यां तस्यैव शिष्यो जगदेकभर्तुः । 32.157 ।
यस्तत्प्रसादादखिलां श्च वेदान् सपञ्चरात्रान् सरहस्यसङ्ग्रहान् ।
वेदेतिहासां श्च पुराणयुक्तान् यथावदन्या अपि सर्वविद्याः । 32.158 ।
समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारी ।
ग्रन्थः कृतोऽयं जगतां जनित्रं हरिं गुरुं प्रीणयताऽमुनैव ।
विनिर्णयो नास्त्यमुना विना यद् विप्रस्थितानामिव सर्ववाचाम् । 32.159 ।
तद् ब्रह्मसूत्राणि चकार कृष्णो व्याख्याऽथ तेषामयथा कृताऽन्यैः ।
निगूहितं यत् पुरुषोत्तमत्वं सूत्रोक्तमप्यत्र महासुरेन्द्रैः ।
जीवेश्वरैक्यं प्रवदद्भिरुग्रैर्व्याख्याय सूत्राणि चकार चाऽविः । 32.160 ।
व्यासाज्ञया भाष्यवरं विधाय पृथक्पृथक् चोपनिषत्सुभाष्यम् ।
कृत्वाऽखिलान्यं पुरुषोत्तमं च हरिं वदन्तीति समर्थयित्वा । 32.161 ।
तनुस्तृतीया पवनस्य सेयं सद्भारतार्थप्रतिदीपनाय ।
ग्रन्थं चकारेममुदीर्णविद्या यस्मिन् रमन्ते हरिपादभक्ताः । 32.162 ।
"तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ।
निर्यदीं बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
च्द्ल्xविइइ.यदीं अनु प्रदिवो मध्व आधवे गुहासन्तं मॣअतरिश्वा मथायति"85 । 32.163 ।
इत्यादिवाक्योक्तमिदं समस्तं तथा पुराणेषु च पञ्चरात्रे ।
अत्रोदिता याण्स्च कथाः समस्ता वेदेतिहासादिविनिर्णयोक्ताः । 32.164 ।
तस्मादयं ग्रन्थवरोऽखिलोरुधर्मादिमोक्षान्तपुमर्थहेतुः ।
किं वोदितैरस्य गुणैस्ततोऽन्यैर्नारायणः प्रीतिमुपैत्यतोऽलम् । 32.165 ।
यस्य त्रीण्युदितानि वेदवचने र् ऊपाणि दिव्यान्यलं
बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वॣअयो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः
मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे । 32.166 ।
यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः ।
प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत् । 32.167 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
(पाण्डवस्वर्गारोहणं नाम) द्वात्रिं शोऽध्यायः
समाप्तोऽयं ग्रन्थः
85 ऋग्वेद 1.141.2-3
च्द्ल्xइx.ओं श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितम्
श्री यमकभारतम्
(महाभारत-तात्पर्यम्)
ओं ध्यायेत् परमानन्दं यन्माता पतिमयदपरमानन्दम् ।
उज्झितपरमानं दम्पत्याद्याद्याण्स्रमैः सदैव परमानन्दम् । 1 ।
यस्य कराल् . ओल् . अं चक्रं कॣअल् . अः परः स हि कराल् . ओल् . अम् ।
यस्य गदा पवमानः सन् यो व्यासोऽभवत् सदापवमानः । 2 ।
यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न मनोऽगम् ।
यस्य पुमानानन्दं भुङ्क्ते यद् धाम कपतिमानानन्दम् । 3 ।
परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः ।
मॣअनधि बिभ्रत्सु मनो माऽनधिमाऽसीन्न वासुदेवो जः । 4 ।
सोऽजनि देवक्यन्ते यस्मादनुकम्पनावदेव क्यन्ते ।
अवदन् देवक्यं ते भुवनं हि सुराः सदैवदेऽव क्यन्ते । 5 ।
नीतो वसुदेवेन स्वततेन स गोकुल् . अं सुवसुदेऽवे न ।
तत्र यशोदा तनयं मेने कृष्णं स्वकीयमवदातनयम् । 6 ।
ववृधे गोकुल् . अमध्याद्यो देवो विश्वमद्भुताकुलमध्यात् ।
तत्र च पूतनिकाया वधमकरोद् यन्निजाः सुपूतनिकायाः । 7 ।
अधुनोच्छकटं ल् . ओ ल् . ई पादाङ्गुष्ठेन वातपेशशकटं ल् . ओल् . ई ।
अतनोद् रक्षामस्य स्वाज्ञॣअनाद् गोपिका सदेरक्षामस्य । 8 ।
मुखलाल् . अनलोल् . आ तन्मुखगं जगदचष्ट साल् . अनलोल् . आतत् ।
नॣअध्यैन्मायामस्य जगत्प्रभोः स्वधिकतततमायामस्य । 9 ।
तस्य सुशर्माण्यकरो दरिणो गर्गः सदुक्तिकर्माण्यकरोत् ।
अवदन्नामानमयं जगदादिं वॣअसुदेवनामानमयम् । 10 ।
तस्य सखा बलनामा ज्येष्ठो भ्राताऽथ यन्निजाबलना मा ।
च्द्ल्xx.यस्य च पर्यङ्कोऽयं पूर्वतनो विष्णुमजसपर्यं कोऽयम् । 11 ।
तेन हतो वातरयस्तृणचक्रो नाम दितिसुतोऽवातरयः ।
हरमाणो वालतमं स्वात्मानं कण्ठरोधिनाऽवालतमम् । 12 ।
सोऽवनिमध्ये रङ्गन् अरिदरयुग् बालरूपमध्येरं गन् ।
अमुषन्नवनीतमदः स्वगोकुल् . ए गोपिकासु नवनीतमदः । 13 ।
तन्माता कोपमिता तमनुससाराऽत्मवादवाकोपमिता ।
जगृहे सा नमनं तं देवं तच्चिन्तयैव सानमनन्तम् । 14 ।
अथ साऽन्तरिताऽमानं विष्णुं विश्वोद्भवं तदाऽन्तरितामानम् ।
अनयद् दामोदरतां योऽरमयत् सुन्दरीं निजामोदरताम् । 15 ।
चक्रे सोऽर्जुननाण्सं प्राप्नोति च यत्स्मृतिः सदाऽर्जुनना ण्सम् ।
तौ च गतौ निजमोकस्तेनैव नुतेन यन्निजो निजमोकः । 16 ।
अथ वृन्दावनवासं गोपाण्स्चक्रुर्जगत्क्षिताऽवनवासम् ।
तत्र बकासुरमारः शौरिरभून्नित्यसं श्रितासुरमारः । 17 ।
अहनद् वत्सतनूकं योऽपाल्लोकं स्वयत्नवत्सतनूकम् ।
सोऽपाद् वत्सानमरः सहाग्रजो गोपवत्सवत्सानमरः । 18 ।
स विभुः श्रीमानहिके ननर्त यस्य श्रमानमा मा न हिके।
अकरोन्नद्युदकान्तं कॣअन्तं नीत्वोरगं स नाऽद्युदकान्तम् । 19 ।
हत्वा धेनुकमूढं बलात् प्रलम्बं च खेट्सधेनुकमूढम् ।
व्रजमावीदमृताण्सः पीत्वा वह्निं चरस्थिरादमृताण्सः । 20 ।
गिरिणा रक्षाऽपि कृता व्रजस्य तेन स्वरक्षरक्षाऽपि कृता ।
शक्राय व्यञ्जयता स्वां शक्तिं विश्वमात्मनाऽव्यं जयता । 21 ।
रेमे गोपीष्वरिहा स मन्मथाक्रान्तसुन्दरीपीष्वरिहा ।
पूर्णाऽनन्दैकतनुः स विश्वरुक्पावनोऽप्यनन्दैकतनुः । 22 ।
च्द्ल्xxइ.अथ हतयोर्गल् . इकेश्योः श्वफल्कजप्रापितः पुरीं गल् . इकेश्योः ।
भङ्क्त्वा धनुराजवरं जघान तेनैव च स्वयं राजवरम् । 23 ।
मृद्गन् गजमुग्रबलं सबलो रङ्गं विवेश सृतिमुग्रबलम् ।
हत्वा मल्लौ बलिनौ कं सं च विमोक्षितौ ततौ लौ बलिनौ । 24 ।
प्रादात् सान्दीपनये मृतपुत्रं ज्ञॣअनदीपसन्दीपनये ।
गुर्वर्थेऽज्ञॣअनतमः प्रभेदिता नित्यसम्भृताज्ञॣअनतमः । 25 ।
जित्वा मागधराजं तोषितमकरोत् सदाऽत्मयोगधराजम् ।
अनु कुर्वन् निजसदनं चक्रे रम्यां पुरं सुबोधनुजसदनम् । 26 ।
प्रसभं सगजबलस्य क्षत्रस्योच्चैः समबधराजबलस्य ।
मॣअनं शिशुपालवरं हत्वा भैष्मीमवाप शिशुपालवरम् । 27 ।
हं सो डिभकश्चपलावमुना सं सूदितौ यवनकश्च पला ।
कीर्तिर्विमला विरता प्रतता विश्वधिपावनीलाविरता । 28 ।
सत्याजाम्बवतीर्या भार्या विन्दाद्या भानुसाम्बवतीर्याः ।
प्रद्युम्नं मोदरतः प्राप ज्येष्ठं हरिः सुतं मोदरतः । 29 ।
यत्परिवारतयेशा जाता देवा नृपॣअत्मना रतयेशाः ।
यद्भरितं विषसर्पप्रभृति ध्वान्तं न मारुतिं विषसर्प । 30 ।
येन हिडिम्बबकाद्या रक्षोधीशा निपातिता बबकाद्याः ।
भीमे प्रीतिममेयां व्यञ्जयता तेन शेषपाति ममे याम् । 31 ।
अथ कृष्णावरणे तान् प्राप्तान् राज्ञोऽशृणोत् सदावरणेतान् ।
द्रष्टुं यॣअतः सबलस्तां चॣअनैषीत् पृथासुतां स्ततः सबलः । 32 ।
तानिन्द्रस्थल् . अवासां श्चक्रे कृष्णः परो निजस्थल् . अवासान् ।
स्वबलोद्रेचितमानैर्जुगोप धर्मं च तैः पराचितमानैः । 33 ।
वॣअलिवधानुनयाय प्रणयी सख्यं सुसन्दधे नु नयाय ।
वॣअसवजेन विशेषात् तेनैव पुनर्नृजन्मजेन विशेषात् । 34 ।
च्द्ल्xxइइ.मॣअतुः परिभवहान्यै राज्ञॣअ द्युसदामितश्च परिभवहाऽन्यैः ।
अभवन्नरकमुरारिर्योऽवासीदत् समस्तनरकमुरारिः । 35 ।
नीतो दिवि देववरै रेमे सत्यासमन्वितोऽदेववरैः ।
सर्वर्तुवने शशिना निशि सत्यां वॣअसरे वनेऽशशिना । 36 ।
सुरतरुमापाऽल् . इमतात् प्रकाण्सयच्छक्तिमात्मनः पॣअल् . इमतात् ।
सुरवरवीरेषु दरी प्रधानजीवेश्वरः परेषुदरी । 37 ।
पुरमभियायारिदरी दत्वा भद्रां पृथासुतायारिदरी ।
शक्रपुरीमभियातः प्रादाद् वह्नेर्वनं सतामभियाऽतः । 38 ।
शिवभक्तप्रवराद्यं पुमान् न सेहे गिरीश विप्रवराद्यम् ।
तं स्वात्मेन्द्रवरेण व्यधुनोद् भीमेन धूतरुद्रवरेण । 39 ।
यस्याऽज् ञॣअबलसारैः पॣअर्थैर्दिग्भ्यो हृतं धनं बलसारैः ।
जित्वा क्ष्मॣअमविशेषां प्रसह्य भूपान् समस्तकामविशेषाम् । 40 ।
अथ पार्थान् क्रतुराजं प्रापयदमरेट्सरुद्रशक्रतुराजम् ।
पूजा तेनावापि च्छिन्नश्चैद्यः सृतिं गते नावाऽपि । 41 ।
निहतौ सौभकरूण्सौ शीतो भातश्च येन तौ भकरूण्सौ ।
अजयद् रुद्रं च रणे बाणार्थेऽवनतिपतितकचन्द्रं चरणे । 42 ।
असृजज्ज्वरमुग्रतमः क्षयप्रदो लीलयाऽधिवरमुग्रतमः ।
क्रीडामात्रं विश्वं प्रकाण्सयन्नात्मनः स विहरकमात्रं विश्वम् । 43 ।
यस्याऽवेशोरुबलान्न्यहनत् पार्थोऽसुरान् प्रजेशोरुबलात् ।
वरदानादस्यैव जगत्प्रभोरीरणात् समनुगतनादस्यैव । 44 ।
यस्याऽवेशात् स बलः प्रचकर्ष पुरं प्रसह्य वेशात् सबलः ।
कुरुपतिनाम नु यमुना कृष्णा येनाऽहुरर्ह्यमतनु यमुना । 45 ।
यद्बलवान् क्रोधवशान्निनाय नाण्सं वृकोदरः क्रोधवशान् ।
च्द्ल्xxइइइ.लेभेऽचान्या गम्यं स्थानं पुष्पॣअणि धाम चान्यागम्यम् । 46 ।
यद्बलभारवहत्वान्नाचलदुरगादिभिः सुभारवहत्वात् ।
धर्मादरिहाऽपि पदं भीमो येनैव साहसं लिहाऽपि पदम् । 47 ।
न हि नहुषोऽलं नहितुं धर्मो द्रौणिस्तथेतरेऽलं नहितुम् ।
नो राट्कर्णौ ब्रह्मवरी येन ध्वस्तोऽस्त्रमग्रहीत् सुब्रह्म वरी । 48 ।
क्षात्रं धर्मं स्ववत् आ गुरुवृत्त्यै केशवाज्ञया च मं स्ववत् आ ।
सर्वं सेहे मनसा भीमेनेशैकमानिना हेमनसा । 49 ।
यद्भक्तप्रवरेण प्रोतः स्वस्मिन् स कीचकः प्रवरेण ।
पतितास्तस्य सहायाः कृष्णार्थे मानिनः समस्य सहायाः । 50 ।
यद्भक्त्याऽनुगृहीतौ पार्थो भीमश्च गोनृपौ नु गृहीतौ ।
ऋणमुक्त्यै सुव्यत्यस्त्यै क्रमशो वीरावमुञ्चतां सुव्यत्यस्त्यै । 51 ।
यद्भक्त्याऽमितयाऽलं कृष्णा कार्ये विवेश कृष्णाकार्ये ।
यॣअमीरार्द्धतनुत्वान्नाऽपाऽद् भीमादृतेऽपि नाऽपाद् भीमात् । 52 ।
यॣअं स्प्रष्टुमिच्छन्तमजातशत्रुं न्यवारयत् स्वस्थमजातशत्रुम् ।
शं रूपाने नित्यरतेरियं श्रीरिति स्म देवेड्यदितेरियं श्रीः । 53 ।
मनसामनसाऽमनसा मनसा यमनन्तमजस्रवेदनुया ।
विलयं विलयं विलयं विलयन्निखिलं त्वशुभं प्रचकार च यः । 54 ।
सोऽगाद् दूतमुखेन प्रभुणेदं वर्तते यदूतमुखेन ।
पॣअर्थार्थे बहुतनुतां यत्र प्राकाण्सयत् स्वयं सवहुतनुताम् । 55 ।
गुरुकर्णनदीजादीनवधीच्चक्षुर्बलेन जनदीजादी ।
शक्त्या निजया परवान् स्वजनानुद्रेचयन्ननन्तयाऽपरवान् । 56 ।
यस्य सुनीत सहायान्न रिपून् मेनेऽर्जुनः समेतसहा यान् ।
अकरोच्चाऽसु परासुप्रततिं सेनासु धावनासुपरासु । 57 ।
च्द्ल्xxइव्.येन जयद्रथमारः पॣअर्थः शत्रूनवापतद्रथमारः ।
यद्विरहादपि देहे स रथः शश्वत् स्थितेः सदादपि देहे । 58 ।
यद्भरितो भरताभः प्रभुरम्भाभावितोऽभिभरताभः ।
भीमो रभसाऽभिभवी प्रसभं भा भाभिभूर्भसा भिभवी । 59 ।
यदनुग्रहि पूर्णत्वाद् भीमः सर्वानरीननहिपूर्णत्वाऽत् ।
अदहद् बाहुबलेन क्रोधाग्नावाहितान् निजाहुबलेन । 60 ।
कृष्णाभीमाप्ततमः शीर्णं येन स्वकीयहृदयमाप्ततमः ।
धृतराष्ट्रसुतानवधीद् भीमेन स्थापितो मनसि सुसुतानवधीत् । 61 ।
भीमविपाटित देहानदर्शयत् स्वानरीन् विपाटितदेहान् ।
कृष्णाया हितकारी सम्यग्धीरप्रियः सदाऽहितकारी । 62 ।
अथ हरिणा पीतबलं द्रौणेरस्त्रं महारिणाऽपीतबलम् ।
दधता वासोमरणं नीतं चक्रेऽभिमन्युजं सोमरणम् । 63 ।
तस्य च रक्षा सुकृता जनार्दनेनेशशेषकेक्षासुकृता ।
पॣअर्थेषु प्रेमवता नित्यं भर्त्राऽसुतासुविप्रेमवता । 64 ।
ज्ञॣअनं परमं प्रादाद् भीष्मगतः सृतिविमोक्षचरमं प्रादात् ।
पॣअण्डुसुतानामधिकं चक्रे वेदं गुणोत्तरं स्वनामधिकम् । 65 ।
तेनावापि सुजातैर्हरिमेधस्तुरगवर्तनेऽपि सुजातैः ।
पॣअण्डुसुतैः सवस् ऊकैराप्तैर्व्यासाऽत्मना च सुसवसूकैः । 66 ।
तदनु स पाण्डुतनूजै रेमे क्ष्मॣअं पॣअलयन् सुपाण्डुतनुजैः ।
अनुपमसुखरूपोऽजः परमः श्रीवल्लभः सति खरूपो जः । 67 ।
सुगतिं चरमामददान्निजयोग्यां ज्ञॣअनिसुतति परमामददात् ।
पॣअर्थानां सददूनां स पितृप्रेष्यॣअदिनामिनां सयदूनाम् । 68 ।
रेमे तत्राऽपिसुखी परमोऽनन्तो ननन्द तत्राऽपि सुखी ।
प्राणेनेन्दिरया च प्रयुतो नित्यं महागुणेन्दिरया च। 69 ।
एवं सर्वाणि हरे र् ऊपाणि श्रीपतेः सुपर्वाणिहरेः ।
पूर्णसुखानि सुभान्ति प्रततानि निरन्तराणि निसुभान्ति । 70 ।
राम राम महाबाहो माया ते सुदुरासदा ।
वॣअद सादद को लोके पादावेव तवाऽसजेत् । 71 ।
(जेत् सवातव वेदापाऽके लोकोदद सादवा ।
दॣअसरादुसुतेयामाहोवाहा मम राम रा ।)
देवानां पतयो नित्यं नो मतं यस्य जानते ।
तस्मै देव नमस्येऽहं भवतेऽसुरमारये । 72 ।
समस्तदेवजनकवासुदेवपरामृत ।
वॣअसुदेव परामृत ज् ञॣअनमूर्ते नमोऽस्तु ते । 73 ।
देवादे देवलोकप पूर्णानन्दमहोदधे ।
सर्वज्ञेश रमानाथ देवाऽदेऽदेऽव लोकप । 74 ।
यो निर्ममेऽशेषपुराणविद्याम् ।
यो निर्ममेशे षपुराणविद्याम् ।
योनिर्ममेशेषपुराऽणविद् याम् ।
योऽनिर्ममेऽशेषपुराणविद् याम् । 75 ।
अनन्तपारामितविक्रमेश प्रभो रमापारमनन्तपार ।
महागुणाढ्यापरिमेयसत्त्व रमालयाण्सेषमहाऽगुणाढ्य । 76 ।
भा भा भा भा भा भा भा
भा भा भा भा भा भा भा
भा भा भा भा भा भा भा
भा भा भा भा भा भा भा । 77 ।
नैव परः केशवतः परमादस्मात् समश्च सुखकेशवतः ।
सोऽयं शपथवरो नः शश्वत् सन्धारितः सुशपथवरोऽनः । 78 ।
कृष्णकथेयं यमिता सुशतीर्थेनोदिताऽनने यं यमिता ।
भक्तिमता परमेशे सर्वोद्रेका सदानुताऽप रमेशे । 79 ।
इति नारायणनामाऽव कतीर्थे पूजितः सुरायणना मा ।
पूर्ण गुणैर्धिक पूर्णज्ञॣअनेच्छाभक्तिभिः स्वधिकपूर्णः । 80 ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्
श्रीमद्यमकभारतं सम्पूर्णम्
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु
मूल पाठ: Mahābhāratatātparyanirṇaya · Data entry Dvaita.net · GRETIL (Göttingen) · CC BY-NC-SA 4.0