भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.8

9.8.1

ततः प्रववृते युद्धं कुरूणां भयवर्धनम् ।
सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ॥

9.8.2

नरा रथा गजौघाश्च वाजिनश्च सहस्रशः ।
वाजिनश्च पराक्रान्ताः समाजग्मुः परस्परम् ॥

9.8.3

गजानां भीमरूपाणां द्रवतां निःस्वनो महान् ।
अश्रूयत यथा काले जलदानां नभस्तले ॥

9.8.4

नागैरभ्याहताः केचित्सरथा रथिनोऽपतन् ।
व्यद्रवन्त रणे भीता द्राव्यमाणा मदोत्कटैः ॥

9.8.5

हयौघान्पादरक्षांश्च रथिनस्तत्र शिक्षिताः ।
शरैः सम्प्रेषयामासुः परलोकाय भारत ॥

9.8.6

सादिनः शिक्षिता राजन्परिवार्य महारथान् ।
विचरन्तो रणेऽभ्यघ्नन्प्रासशक्त्यृष्टिभिस्तथा ॥

9.8.7

धन्विनः पुरुषाः केचित्परिवार्य महारथान् ।
एकं बहव आसाद्य प्रैषयन्यमसादनम् ॥

9.8.8

नागान्रथवरांश्चान्ये परिवार्य महारथाः ।
सोत्तरा युधि निर्जघ्नुर्द्रवमाणं महारथम् ॥

9.8.9

तथा च रथिनं क्रुद्धं विकिरन्तं शरान्बहून् ।
नागा जघ्नुर्महाराज परिवार्य समन्ततः ॥

9.8.10

नागा नागमभिद्रुत्य रथी च रथिनं रणे ।
शक्तितोमरनाराचैर्निजघ्नुस्तत्र भारत ॥

9.8.11

पादातानवमृद्गन्तो रथवारणवाजिनः ।
रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ॥

9.8.12

हयाश्च पर्यधावन्त चामरैरुपशोभिताः ।
हंसा हिमवतः प्रस्थे पिबन्त इव मेदिनीम् ॥

9.8.13

तेषां तु वाजिनां भूमिः खुरैश्चित्रा विशाम्पते ।
अशोभत यथा नारी करजैः क्षतविक्षता ॥

9.8.14

वाजिनां खुरशब्देन रथनेमिस्वनेन च ।
पत्तीनां चापि शब्देन नागानां बृंहितेन च ॥

9.8.15

वादित्राणां च घोषेण शङ्खानां निनदेन च ।
अभवन्नादिता भूमिर्निर्घातैरिव भारत ॥

9.8.16

धनुषां कूजमानानां शस्त्रौघानां च पात्यताम् ।
कवचानां प्रभाभिश्च न प्राज्ञायत किञ्चन ॥

9.8.17

बहवो बाहवश्छिन्ना नागराजकरोपमाः ।
उद्वेष्टन्ते विचेष्टन्ते वेगं कुर्वन्ति दारुणम् ॥

9.8.18

शिरसां च महाराज पततां धरणीतले ।
च्युतानामिव तालेभ्यः फलानां श्रूयते स्वनः ॥

9.8.19

शिरोभिः पतितैर्भाति रुधिरार्द्रैर्वसुन्धरा ।
तपनीयनिभैः काले नलिनैरिव भारत ॥

9.8.20

उद्वृत्तनयनैस्तैस्तु गतसत्वैः सुविक्षतैः ।
व्यभ्राजत मही राजन्पुण्डरीकैरिवावृता ॥

9.8.21

बाहुभिश्चन्दनादिग्धैः सकेयूरैर्महारधनैः ।
पतितैर्भाति राजेन्द्र महाशक्रध्वजैरिव ॥

9.8.22

ऊरुभिश्च नरेन्द्राणां विनिकृत्तैर्महाहवे ।
हस्तिहस्तोपमैर्जज्ञे संवृतं तद्रणाङ्कणम् ॥

9.8.23

कबन्धंशतसङ्कीर्णं छत्रचामरसङ्कुलम् ।
सेनावनं तच्छुशुभे वनं पुष्पाचितं यथा ॥

9.8.24

तत्र योधा महाराज विचरन्तो ह्यभीतवत् ।
दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः ॥

9.8.25

मातङ्गाश्चाप्यदृश्यन्त शरतोमरपीडिताः ।
पतन्तस्तत्र तवैव छिन्नाभ्रासदृशा रणे ॥

9.8.26

गजानीकं महाराज वध्यमानं महात्मभिः ।
व्यदीर्यत दिशः सर्वा वातनुन्ना धना इव ॥

9.8.27

ते गजा धनसङ्काशाः पेतुरुर्व्यां समन्ततः ।
वज्रनुन्ना इव बभुः पर्वता युगसङ्क्षये ॥

9.8.28

हयानां सादिभिः सार्धं पतितानां महीतले ।
राशयः स्म प्रदृश्यन्ते गिरिमात्रांस्ततस्ततः ॥

9.8.29

सञ्जज्ञे रणभूमौ तु परलोकवहा नदी ।
शोणितोदा रथावर्ता ध्वजवृक्षास्थिशर्करा ॥

9.8.30

भुजनक्रा धनुःस्रोता हस्तिशैला हयोपला ।
मेदोमज्जाकर्दमिनी छत्रहंसा गदोडुपा ॥

9.8.31

कवचोष्णीषसञ्छन्ना पताकारुचिरद्रुमा ।
चक्रचक्रावलीजुष्टा त्रिवेणूरगसंवृता ॥

9.8.32

शूराणां हर्षजननी भीरूणां भयवर्धनी ।
प्रावर्तत नदी रौद्रा कुरुसृञ्जयसङ्गमे ॥

9.8.33

तां नदीं परलोकाय वहन्तीमतिभैरवाम् ।
तेरुर्वाहननौभिस्ते शूराः परिघबाहवः ॥

9.8.34

वर्तमाने तदा युद्धे निर्मर्यादे विशाम्पते ।
चतुरङ्गक्षये घोरे युद्धे देवासुरोपमे ॥

9.8.35

व्याक्रोशन्बान्धवानन्ये तत्र तत्र परन्तप ।
क्रोशद्भिर्दयितैरन्ये भयार्ता न निवर्तिरे ॥

9.8.36

निर्मर्यादे तथा युद्धे वर्तमाने भयानके ।
अर्जुनो भीमसेनश्च मोहयाञ्चक्रतुः परान् ॥

9.8.37

सा वध्यमाना महती सेना तव नराधिप ।
अमुह्यत्तत्र तत्रैव योषिन्मदवशादिव ॥

9.8.38

मोहयित्वा च तां सेनां भीमसेनधनञ्जयौ ।
दध्मतुर्वारिजौ तत्र सिंहनादांश्च चक्रतुः ॥

9.8.39

श्रुत्वैव तु महाशब्दं धृष्टद्युम्नशिखण्डिनौ ।
धर्मराजं पुरस्कृत्य मद्रराजमभिद्रुतौ ॥

9.8.40

तत्राश्चर्यमपश्याम घोररूपं महद्भयम् ।
शल्येन सङ्गताः शूरा यदयुध्यन्त भागशः ॥

9.8.41

माद्रीपुत्रौ तु रभसौ कृतास्त्रौ युद्धदुर्मदौ ।
अभ्ययातां त्वरायुक्तौ जिगीषन्तौ बलं तव ॥

9.8.42

ततोऽभ्यावर्तत बलं तावकं भरतर्षभ ।
शरैः प्रणुन्नं बहुधा पाण्डवैर्जितकाशिभिः ॥

9.8.43

वध्यमाना चमूः सा तु पुत्राणां प्रेक्षतां तव ।
भेजे दश दिशो राजन्प्रणुन्ना शरवृष्टिभिः ॥

9.8.44

हाहाकारो महाञ्जज्ञे योधानां तत्र भारत ।
तिष्ठतिष्ठेति चाप्यासीद्द्रावितानां महात्मनाम् ॥

9.8.45

क्षत्रियाणां तथाऽन्योन्यं संयुगे जयमिच्छताम् ।
प्राद्रवन्नेव सम्भग्नाः पाण्डवैस्तव सैनिकाः ॥

9.8.46

त्यक्त्वा युद्धे प्रियान्पुत्रान्भ्रातॄनथ पितामहान् ।
मातुलान्भागिनेयांश्च वयस्यानपि भारत ॥

9.8.47

हयान्द्विपांस्त्वरयन्तो योधा जग्मुः समन्ततः ।
आत्मत्राणकृतोत्साहास्तावका भरतर्षभ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc