भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.7

9.7.1

व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा ।
अब्रवीत्तावकान्सर्वान्सन्नह्यन्तां महारथाः ॥

9.7.2

राज्ञश्च मतमाज्ञाय समनह्यत सा चमूः ।
अयोजयन्रथांस्तूर्णं पर्यधावंस्तथा परे ॥

9.7.3

अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः ।
हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ॥

9.7.4

वादित्राणां च निनदः प्रादुरासीद्विशाम्पते ।
योधानां सैन्यमुख्यानामन्योन्यं प्रतिगर्जताम् ॥

9.7.5

ततो बलानि सर्वाणि हतशिष्टानि भारत ।
सन्नद्धानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम् ॥

9.7.6

शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः ।
प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥

9.7.7

ततः सर्वे समागम्य पुत्रेण तव सैनिकाः । कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः ।
अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः ॥

9.7.8

अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः ।
न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः ॥

9.7.9

यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् । स पञ्चभिर्भवेद्युक्तः पातकैश्चोपपातकैः ।
अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥

9.7.10

एवं ते समयं कृत्वा सर्वे तत्र महारथाः ।
मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ॥

9.7.11

तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे ।
अभ्ययुः कौरवान्युद्धे योत्स्यमानाः समन्ततः ॥

9.7.12

ततो बलं समभवत्क्षुब्धार्णवसमस्वनम् ।
समुद्भूतार्णवाकारमुदीर्णरथकुञ्जरम् ॥
धृतराष्ट्र उवाच ।

9.7.13

द्रोणस्य चैव भीष्मस्य राधेयस्य च मे श्रुतम् ।
पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥

9.7.14

कथं रणे हतः शल्यो धर्मराजेन सञ्जय ।
भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥
सञ्जय उवाच ।

9.7.15

क्षयं मनुष्यदेहानां तथा नागाश्वसङ्क्षयम् ।
शृणु राजन्स्थिरो भूत्वा सङ्ग्रामं शंसतो मम ॥

9.7.16

आशा बलवती राजन्पुत्राणां तेऽभवत्तदा ॥

9.7.17

हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते ।
शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥

9.7.18

तामाशां हृदये कृत्वा समाश्वस्य च भारत । मद्रराजं च समरे समाश्रित्य महारथम् ।
नाथवन्तं तदाऽत्मानममन्यत सुतस्तव ॥

9.7.19

यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे ।
तदा राजन्धार्तराष्ट्रान्प्रविवेश महद्भयम् ॥

9.7.20

तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् ।
व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ॥

9.7.21

प्रत्युद्ययौ रणे पार्थान्मद्रराजः प्रतापवान् । विधून्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ।
रथप्रवरमास्थाय सैन्धवाश्वं महारथः ॥

9.7.22

तस्य सूतो महाराज रथस्थोऽशोभयद्रथम् । स तेन संवृतो वीरो रथेनामित्रकर्शनः ।
तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥

9.7.23

प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः ।
मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥

9.7.24

सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः ।
गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ॥

9.7.25

अश्वत्थामा पृष्ठतोऽभूत्काम्भोजैः परिवारितः ।
दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः ॥

9.7.26

हयानीकेन महता सौबलश्चापि संवृतः ।
प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥

9.7.27

पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः ।
त्रिधाभूता महाराज तव सैन्यमुपाद्रवन् ॥

9.7.28

धृष्टद्युम्नः शिखण्डी च सात्यकिस्च महारथः ।
शल्यस्य वाहिनीं हन्तुमभिदुद्रुवुराहवे ॥

9.7.29

ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः ।
शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः ॥

9.7.30

हार्दिक्यं च महेष्वासमर्जुनः शत्रुपूगहा ।
संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे ॥

9.7.31

गौतमं भीमसेनो वै सोमकाश्च महारथाः ।
अभ्यद्रवन्त राजेनद््र जिघांसन्तः परान्युधि ॥

9.7.32

माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम् ।
ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे ॥

9.7.33

तथैवायुतशो योधास्तावकाः पाण्डवान्रणे ।
अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः ॥
धृतराष्ट्र उवाच ।

9.7.34

हते भीष्मे हमेष्वासे द्रोणे कर्णे जयद्रथे ।
कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥

9.7.35

संरब्धेषु च पार्थेषु पराक्रान्तेषु सञ्जय ।
मामकानां परेषां च किं शिष्टमभवद्बलम् ॥
सञ्जय उवाच ।

9.7.36

यथा वयं परे राजन्युद्धाय समुपस्थिताः ।
यावच्चासीद्बलं शिष्टं सङ्ग्रामे तन्निबोध मे ॥

9.7.37

एकादश सहस्राणि रथानां भरतर्षभ ।
दश दन्तिसहस्राणि सप्त चैव शतानि च ॥

9.7.38

पूर्णे शतसहस्रे द्वे हयानां तत्र भारत ।
पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ॥

9.7.39

रथानां षट््सहस्राणि षट्सहस्राश्च कुञ्जराः ।
दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥

9.7.40

एतद्बलं पाण्डवानामभवच्छेषमाहवे ।
एत एव समाजग्मुर्युद्वाय भरतर्षभ ॥

9.7.41

एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः ।
पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ॥

9.7.42

तथैव पाण़्डवाः शूराः समरे जितकाशिनः ।
उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥

9.7.43

एवमेते बलौघेन परस्परवधैषिणः ।
उपयाता नरव्याघ्राः पूर्वां सन्ध्यां प्रति प्रभो ॥

9.7.44

ततः प्रववृते युद्धं घोररूपं भयानकम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc