भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.64

9.64.1

किमर्थं द्विजशार्दूल धर्मराजो युधिष्ठिरः ।
गान्धार्याः प्रेषयामास वासुदेवं परन्तपम् ॥

9.64.2

यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति ।
न च तं लब्धवान्कामं ततो युद्धमभूदिदम् ॥

9.64.3

निहतेषु तु योधेषु हते दुर्योधने तदा ।
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥

9.64.4

विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे ।
किं तु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः ॥

9.64.5

न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे ।
यत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥

9.64.6

तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम ।
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥
वैशम्पायन उवाच ।

9.64.7

त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव ।
तत्तेऽहं सम्प्रवक्ष्यामि यथावद्भरतर्षभ ॥

9.64.8

हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम् ॥

9.64.9

अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत ।
युधिष्ठिरं महाराज महद्भयमथाविशत् ॥

9.64.10

सोऽचिन्तयन्महाभागां गान्धारीं तपसान्विताम् ।
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत् ॥

9.64.11

तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा ।
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत् ॥

9.64.12

सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम् ।
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति ॥

9.64.13

कथं दुःखमिदं तीव्रं गान्धारी सम्प्रशक्ष्यति ।
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम् ॥

9.64.14

एवं विचिन्त्य बहुधा भयशोकसमन्वितः ।
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत ॥

9.64.15

तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम् ।
अप्राप्यं मनसाऽपीदं प्राप्तमस्माभिरच्युत ॥

9.64.16

प्रत्यक्षं मे महाबाहो सङ्ग्रामे रोमहर्षणे ।
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन ॥

9.64.17

त्वया देवासुरे युद्धे वधार्थममरद्विषाम् ।
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः ॥

9.64.18

साह्यं तथा महाबाहो दत्तमस्माकमच्युत ।
सारथ्येन च वार्ष्णेय भवता हि धृता वयम् ॥

9.64.19

यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे ।
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः ॥

9.64.20

गदाप्रहारा विपुलाः परिघैश्चापि ताडनम् ।
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वथैः ॥

9.64.21

अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः ।
शस्त्राणां च निपाता वै वज्रस्पर्शोपमा रणे ॥

9.64.22

ते च ते सफला जाता हते दुर्योधनेऽच्युत ।
तत्सर्वं न यथा नश्येत्पुनः कृष्ण तथा कुरु ॥

9.64.23

सन्देहडोलां प्राप्तं नश्चेतः कृष्ण जये सति ।
गान्धार्या हि महाबाहो क्रोधं शमय माधव ॥

9.64.24

सा हि नित्यं महाभागा तपसोग्रेण कर्शिता । पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति ।
तस्या प्रसादनं वीर प्राप्तकालं मतं मम ॥

9.64.25

कश्च तां क्रोधसन्दीप्तां पुत्रव्यसनकर्शिताम् ।
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम ॥

9.64.26

तत्र मे गमनं प्राप्तं रोचते तव माधव ।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ॥

9.64.27

त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः ।
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः ॥

9.64.28

क्षिप्रमेव महाबाहो गान्धारीं शमयिष्यसि ।
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति ॥

9.64.29

सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् ।
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना ॥

9.64.30

धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः ।
आमन्त्र्य दारुकं प्राह रथः सञ्जो विधीयताम् ॥

9.64.31

केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः ।
न्यवेदयद्रथं सज्जं केशवाय महात्मने ॥

9.64.32

तं रथं यादवश्रेष्ठः समारुह्य परन्तपः ।
जगाम हास्तिनपुरं त्वरितः केशवो विभुः ॥

9.64.33

ततः प्रायान्महाराज माधवो भगवान्रथी ।
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान् ॥

9.64.34

प्रविश्य नगरं वीरो रथघोषेण नादयन् । विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ।
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् ॥

9.64.35

पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥

9.64.36

पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः ।
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥

9.64.37

ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः ।
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह ॥

9.64.38

स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम् । प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि ।
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिन्दमः ॥

9.64.39

न तेऽस्त्यविदितं किञ्चिद्भूतं भव्यं च भारत ।
कालस्य च यथावृत्तं तत्ते सुविदितं प्रभो ॥

9.64.40

यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः ।
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥

9.64.41

भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः ।
द्यूतच्छलजितैः शुद्वैर्वनवासो ह्युपागतः ॥

9.64.42

अज्ञातवासचर्या च नानावेषसमावृतैः ।
अन्ये च बहवः क्लेशास्त्वशक्तैरिव सर्वदा ॥

9.64.43

मया च स्वयमागम्य युद्धकाल उपस्थिते ।
सर्वलोकस्य सान्निध्येग्रामांस्त्वं पञ्चयाचितः ॥

9.64.44

त्वया कालोपसृष्टेन लोभतो नापवर्जिताः ।
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥

9.64.45

भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च । द्रोणेन च सपुत्रेण विदुरेण च धीमता ।
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥

9.64.46

कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत ।
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते ॥

9.64.47

किमन्यत्कालयोगाद्धि द्विष्टमेव परायणम् ।
मा च दोषान्महाप्राज्ञ पाण्डवेषु निवेशय ॥

9.64.48

अल्पोप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम् ।
धर्मतो न्यायतश्चैव स्नेहतश्च परन्तप ॥

9.64.49

एतत्सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम् ।
तन्मन्युं पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥

9.64.50

कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृत फलम् ।
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम् ॥

9.64.51

त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी ।
मा शुचो नरशार्दूल पाण्डवान्प्रतिकिल्बिम् ॥

9.64.52

एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम् ।
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥

9.64.53

जानासि च महाबाहो धर्मराजस्य या त्वयि ।
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥

9.64.54

एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् ।
दह्यते स दिवारात्रौ न च शर्माधिगच्छति ॥

9.64.55

त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् ।
स शोचन्नरशार्दूलः शान्तिं नैवाधिगच्छति ॥

9.64.56

हिया च परयाऽविष्टो भवन्तं नाधिगच्छति ।
पुत्रशोकाभिसन्तप्तं बुद्धिव्याकुलितेन्द्रियम् ॥

9.64.57

एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः ।
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम् ॥

9.64.58

सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते ।
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥

9.64.59

जानासि च यथा राज्ञि सभायां मम सन्निधौ ।
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ॥

9.64.60

उक्तवत्यसि कल्याणि न च ते तनयैः कृतम् ।
दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः ॥

9.64.62

एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः ।
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥

9.64.63

शक्ता चासि महाभागे पृथिवीं सचराचराम् ।
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात् ॥

9.64.64

वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् ।
एवमेतन्महाबाहो यथा वदसि केशव ॥

9.64.65

आधिभिर्दह्यमानाया मतिः सञ्चलिता मम ।
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥

9.64.66

राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव ।
त्वं गतिः सहितैर्वीरैः पाण्डवैर्दिपदा वर ॥

9.64.67

एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा ।
पुत्रशोकाभिसन्तप्ता गान्धारी प्ररुरोद ह ॥

9.64.68

तत एनां महाबाहुः केश्वः शोककर्शिताम् ।
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः ॥

9.64.69

समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः ।
द्रौणिसङ्कल्पितं भावमन्वबुध्यत केशवः ॥

9.64.70

ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च ।
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥

9.64.71

आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः ।
द्रौणेः पापोस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ॥

9.64.72

पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥

9.64.73

एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् ।
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥

9.64.74

शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय ।
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ॥

9.64.75

प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥

9.64.76

वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम् ।
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः ॥

9.64.77

वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह ।
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप ॥

9.64.78

आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् ।
तच्च तेभ्यः समाख्याय सहितस्तैः समाहितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc