भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.63

9.63.1

ततस्ते प्रययुः सर्वे निवासाय महीक्षितः ।
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ॥

9.63.2

पाण्डवान्गच्छतश्चापि शिबिरं नो विशाम्पते ।
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ॥

9.63.3

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः ।
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ॥

9.63.4

ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् ।
दुर्योधनस्य शिबिरं रङ्गवन्निःसृते जने ॥

9.63.5

गतोत्सवं पुरमिव हृतनागमिव हदम् ।
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ॥

9.63.6

तत्रैतान्पर्युपातिष्ठन्दुर्योधन पुरःसराः ।
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ॥

9.63.7

शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः ।
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ॥

9.63.8

ततो गाण्डीवधन्वानमभ्यभाषत केशवः ।
स्थितः प्रियहिते नित्यमतीव भरतर्षभ ॥

9.63.9

अवरोपय गाण्डीवमक्षयौ च महेषुधी । अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम ।
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ ॥

9.63.10

तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनञ्जयः ॥

9.63.11

अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् ।
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ॥

9.63.12

अथावतीर्णे भूतानामीश्वरे सुमहात्मनि ।
कपिरप्याश्वपाक्रामत्सहदेवैर्ध्वजालयैः ॥

9.63.13

स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः ।
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ॥

9.63.14

सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धनः ।
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ॥

9.63.15

तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो ।
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ॥

9.63.16

कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह ।
गोवन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ॥

9.63.17

किमेतन्महदाश्चर्यमभवद्यदुनन्दन ।
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ॥
वासुदेव उवाच ।

9.63.18

द्रोणकर्णास्त्रनिर्दग्धः पूर्वमेवायमर्जुन ।
मदास्थितत्वात्समरे न विशीर्णः परन्तप ॥

9.63.19

इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा ।
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ॥
सञ्जय उवाच ।

9.63.20

ईषदुत्स्मयमानस्तु भगवान्केशवोऽरिहा ।
परिष्वज्य च राजानं युधिष्ठिरमभाषत ॥

9.63.21

दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः ।
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ॥

9.63.22

त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ । मुक्ता वीरक्षयादिस्मात्सङ्ग्रामान्निहतद्विषः ।
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ॥

9.63.23

उपयातमुपप्लाव्यं सह गाण्डीवधन्वना ।
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ॥

9.63.24

एष भ्राता सखा चैव तव कृष्ण धनञ्जयः ।
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ॥

9.63.25

तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम् ॥

9.63.26

स सव्यसाची गुप्तस्ते विजयी च जनेश्वर ।

9.63.26

भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः ।
मुक्तो वीरक्षयादस्मात्सङ्ग्रामाद्रोमहर्षणात् ॥

9.63.27

एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः ।
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ॥
युधिष्ठिर उवाच ।

9.63.28

प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन ।
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरन्दरः ॥

9.63.29

भवतस्तु प्रसादेन सन्ग्रामे बहवो हताः ।
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ॥

9.63.30

तथा तव महाबाहो पर्यायैर्बहुभिर्मया ।
कर्मणआमनुसन्धानात्तेजस्वी जगति श्रुता ॥

9.63.31

उपप्लाव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् ।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥

9.63.32

एवमुक्तस्ततः कृष्णः प्रत्युवाच युधिष्ठिरम् ।
न तुल्याश्चार्जुनस्येह बलेन कुरुनन्दन ॥

9.63.33

स एष सर्वाण्यस्त्राणि दिव्यानि प्राप्य शङ्करात् । सत्समो वा विशिष्टो वा रणे त्वमिति पाण्डवः ।
अनुज्ञातः पाण्डुसुतः पुनः प्रत्यागमन्महीम् ॥

9.63.34

भूतं भव्यं भविष्यच्च अनुज्ञातस्त्वया विभो ।
निमेषार्धान्नरव्याघ्रो नयेदिति मतिर्मम ॥

9.63.35

द्रोणं भीष्मं कृपं कर्णं द्रोणपुत्रं जयद्रथम् ।
निहन्तुं शक्नुयात्क्रुद्धो निमेषार्धाद्धनञ्जयः ॥

9.63.36

सदेवासुरगन्धर्वान्सयक्षोरगराक्षसान् ।
त्रीन्वा लोकान्विजेतुं स शक्तः किमिह मानुषान् ॥

9.63.37

विधिना विहितं चासौ मया सञ्चोदितोऽपि सन् ।
न चकार मतिं हन्तुं ततस्ते बलवत्तराः ॥

9.63.38

अत्र गीता मया सुष्ठु गिरः सत्या महीपते ।
दर्सितं मयि सर्वं च तेनासौ जितवान्रिपून् ॥

9.63.39

अर्जुनोऽपि महाबाहुर्मया तुल्यो महीपते । स महेश्वरलब्धास्त्रः किं न कुर्याद्विभुः प्रभो ॥

9.63.40

इत्येवमुक्ते ते वीराः शिबिरं तव भारत ।
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसञ्चयान् ॥

9.63.41

रजतं जातरूपं च मणीनथ च मौक्तिकान् ।
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ॥

9.63.42

गजानश्वान्रथांश्चैव महान्ति शयनानि च ।
दासीदासमसंख्येयं राज्योपकरणानि च ॥

9.63.43

ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ ।
उदक्रोशन्महाभागा नरेन्द्र विजितारयः ॥

9.63.44

ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च ।
अतिष्ठन्त मुहुः सर्वे पाण्डवा विगतज्वराः ॥

9.63.45

अथाब्रवीन्महाराज वासुदेवो महायशाः ।
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ॥

9.63.46

तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा ।
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः ॥

9.63.47

ते समासाद्य सरितं पुण्यामोघवतीं नृप ।
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ॥

9.63.48

युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयन् ॥

9.63.49

तत्र ते गमनं माप्तं रोचते तव माधव ।
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिन्दम ॥

9.63.50

हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः । क्षिप्रमेव महाभाग गान्धारीं प्रशमिष्यसि ।
पितामहश्च भगवान्व्यासस्तत्र भविष्यति ॥

9.63.51

ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम् ॥

9.63.52

स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् ।
दारुकं रथमारोप्य येन राजाऽम्बिकासुतः ॥

9.63.53

तमूचुः सम्प्रयास्यन्तं शैब्यसुग्रीववाहनम् ।
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ॥

9.63.54

स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः ।
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc