भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.56

9.56.1

रामसान्निध्यमागम्य पुत्रो दुर्योधनस्तव ।
योद्धुकामो महाबाहुः समहृष्यत वीर्यवान् ॥

9.56.2

दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत ।
प्रीत्या* परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥
दुर्योधन उवाच ।

9.56.3

समन्तपञ्चकं पुण्यमितो याम विशाम्पते ।
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥

9.56.4

तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने ।
सङ्ग्रामे निधनं प्राप्य ध्रुवं स्वर्गं गमिष्यसि ॥

9.56.5

तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥

9.56.6

ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् ।
पद्ध्याममर्षी द्युतिमानगच्छत्पाण्डवैः सह ॥

9.56.7

तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् ।
अन्तरिक्षचरा देवाः साधुसाध्वित्यपूजयन् ॥

9.56.8

वादकाश्च नरास्तत्र दृष्ट्वा ते हर्षमागताः ॥

9.56.9

स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः ।
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥

9.56.10

ततः शङ्खनिनादैश्च भेरीणां च महास्वनैः ।
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥

9.56.11

ततस्ते तु कुरुक्षेत्रं प्राप्ता नरवरोत्तमाः । प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते ।
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् ॥

9.56.12

तस्मिन्देशे त्वनिरिणे ते तु युद्धमरोचयन् ॥

9.56.13

ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् ।
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥

9.56.14

अवबद्धशिरस्त्राणः शुद्धकाञ्चनवर्मभृत् ।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥

9.56.15

तौ तथा सङ्गतौ वीरौ भीमदुर्योधनावुभौ ।
संयुगे सम्प्रकाशेते संरब्धाविव कुञ्जरौ ॥

9.56.16

रथमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ ।
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥

9.56.17

तावन्योन्यं निरीक्षेतां क्रुद्धाविव महोरगौ ।
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥

9.56.18

सम्प्रहृष्टमना राजन्गदामादाय कौरवः ।
सृक्विणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥

9.56.19

ततो दुर्योधनो राजन्गदामादाय वीर्यवान् ।
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥

9.56.20

अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् ।
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥

9.56.21

तावुद्यतगदापाणी दुर्योधनवृकोदरौ ।
संयुगे सम्प्रकाशेतां गिरी सशिखराविव ॥

9.56.22

तावुभौ समतिक्रुद्धावुभौ भीमपराक्रमौ ।
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥

9.56.23

उभौ सदृशकर्माणौ वरुणस्य महाबलौ ।
वासुदेवस्य रामस्य तथा वैश्रवणस्य च ॥

9.56.24

सदृशौ तौ महाराज मधुकैटभयोरपि ।
उभौ सदृशकर्माणौ तथा सुन्दोपसुन्दयोः ॥

9.56.25

[रामरावणयोश्चैव वालिसुग्रीवयोस्तथा] ।
तथैव कालस्य समौ मृत्योश्चैव परन्तपौ ॥

9.56.26

अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ ।
वासितासङ्गमे दृप्तौ शरदीव मदोत्कटौ ॥

9.56.27

उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ।
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिन्दमौ ॥

9.56.28

उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ।
सिंहाविव दुराधर्षौ गदायुद्धविशारदौ ॥

9.56.29

नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ।
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ ॥

9.56.30

लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ।
[पूर्वपश्चिमजौ मेघौ प्रेक्षमाणावरिन्दमौ ॥

9.56.31

गर्जमानौ सुविषमं क्षरन्तौ प्रावृषीव हि ।
रश्मियुक्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ॥

9.56.32

ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ।
व्याघ्राविव सुसंरब्धौ गर्जन्ताविवतोयदौ ॥

9.56.33

जहृषाते महाबाहु सिंहकेसरिणाविव ।
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ॥

9.56.34

ददृशाते महात्मानौ सशृङ्गाविव पर्वतौ ।
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ॥

9.56.35

तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ.] उभौ परमसंहृष्टावुभौ परमसम्मतौ ॥

9.56.36

सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ । वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ ।
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥

9.56.37

ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥

9.56.38

इदं व्यवसितं युद्धं मम भीमस्य चोभयोः ।
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥

9.56.39

ततः समुपविष्टं तत्सुमहद्राजमण्डलम् ।
विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥

9.56.40

तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
उपविष्टो महाराज पूज्यमानः समन्ततः ॥

9.56.41

शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः ।
नक्षत्रैरिव सम्पूर्णो वृतो निशि निशाकरः ॥

9.56.42

तौ तथा तु महाराज गदाहस्तौ सुदुःसहौ ।
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥

9.56.43

अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुसत्तमौ ।
उदीक्षन्तौ स्थितौ तत्र वृत्रशक्रौ यथाऽहवे ॥

9.56.1

प्रीत्या परमया युक्ताः समभ्यर्च्य यथाविधि ।
आसनं च ददौ तस्मै पर्यपृच्छदनामयम् ॥

9.56.2

ततो युधिष्ठिरं रामो वाक्यमेतदुवाच ह ।
मधुरं धर्मसंयुक्तं शूराणां हितमेव च ॥

9.56.3

मया श्रुतं कथयतामृषीणां राजसत्तम ।
कुरुक्षेत्रं परं पुण्यं पावनं स्वर्ग्यमेव च ॥

9.56.4

देवतैरृषिभिर्जुष्टं ब्राह्मणैश्च महात्मभिः ।
तत्र वै योत्स्यमाना ये देहं त्यक्ष्यन्ति मानवाः ॥

9.56.5

तेषां स्वर्गे ध्रुवो वासः शक्रेण सह मारिष ।
तस्मात्समन्तपञ्चकमितो याम द्रुतं नृप ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc