भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.55

9.55.1

कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा देयांश्च सात्वतः ।
आश्रमं सुमहत्पुण्यमगमज्जनमेजय ॥

9.55.2

मधूकाम्रवणोपेतं प्लुक्षन्यग्रोधसङ्कुलम् ।
चिरबिल्वयुतं पुण्यं पनसार्जुनसङ्कुलम् ॥

9.55.3

तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् ।
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ॥

9.55.4

ते तु सर्वे महात्मानमूचू राजन्हलायुधम् ।
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः ॥

9.55.5

अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् ।
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ॥

9.55.6

अत्रैव ब्राह्मणी वृद्वा कौमारब्रह्मचारिणी ।
योगयुक्ता दिवं याता तपोयुक्ता विशाम्पते ॥

9.55.7

बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः ।
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी ॥

9.55.8

साऽपि प्राप्य परं योगं गता स्वर्गमनुत्तमम् ।
भुक्त्वाऽश्रमेऽश्वमेधस्य फलं फलवतः शुभम् ॥

9.55.9

गता स्वर्गं महाराज पूजिता च महात्मभिः ।
अभिगम्याश्रमं पुण्यं स दृष्ट्वा यदुनन्दनः ॥

9.55.10

ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः ।
सन्ध्याकार्याणि सर्वाणि निर्वर्त्यारुरुहेऽचलम् ॥

9.55.11

नातिदूरं ततो गत्वा नगं तालध्वजो बली ।
पुण्ये तीर्थवरे स्नात्वा विस्मयं परमं गतः ॥

9.55.12

प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः ।
सम्प्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ॥

9.55.13

हलायुधस्तु तत्रापि दत्त्वा दानं महाबलः । आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ ।
सन्तर्पयामास पितॄन्देवांश्च रणदुर्मदः ॥

9.55.14

तत्रोष्यैकां तु रजनीं यतिभिर्ब्राह्मणैः सह ।
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः ॥

9.55.15

इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवम् ।
तं देशं कारपचनात्स तस्मादाजगामह ॥

9.55.16

स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च । ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः ।
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः ॥

9.55.17

तथा तु तिष्ठतां तेषां नारदो भगवानृषिः ।
आजगामाथ तं देशं यत्र रामो व्यवस्थितः ॥

9.55.18

जटामण्डलसंवीतः कुशचीरी महातपाः ।
हेमदण्डधरो राजन्कमण्डलुधरस्तथा ॥

9.55.19

महतीं सुखशब्दां तां गृह्य वीणां मनोरमाम् ।
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ॥

9.55.20

प्रभवः कलहानं च नित्यं च कलहप्रियः ।
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ॥

9.55.21

प्रत्युत्थाय च तं रामः पूजयित्वा यतव्रतम् ।
देवर्षिं पर्यपृच्छत्स यथावृत्तं कुरून्प्रति ॥

9.55.22

तदाऽस्याकथयद्राजन्नारदः सर्ववेदवित् ।
सर्वमेतद्यथावृत्तमतीतं कुरुसन्क्षयम् ॥

9.55.23

ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा ।
किमवस्थं तु तत्क्षत्रं ये तु तत्राभवन्नृपाः ॥

9.55.24

श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन ।
विस्तरश्रवणे जातं कौतूहलमतीव मे ॥
नारद उवाच ।

9.55.25

पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा ।
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ॥

9.55.26

भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् ।
एते चान्ये च बहवो हतास्तत्र महाबलाः ॥

9.55.27

प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै ।
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ॥

9.55.28

अहतांस्तु महाबाहो शृणु मे तत्र माधव ॥

9.55.29

धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः । कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान् ।
तेऽपि वै विद्रुता राम दिशो दश भयात्तदा ॥

9.55.30

दुर्योधनो हते सैन्ये विद्रुतेषु पदातिषु ।
हदं द्वैपायनं नाम विवेश भृशदुःखितः ॥

9.55.31

शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा ।
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ॥

9.55.32

स तुद्यमानो बलवान्वाग्भी राम समन्ततः ।
उत्थितः स हदाद्वीरः प्रगृह्य महतीं गदाम् ॥

9.55.33

स चाप्युपागतो योद्धुं भीमेन सह साम्प्रतम् ।
भविष्यति तयोरद्य युद्धं राम सुदारुणम् ॥

9.55.34

यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् ।
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ॥
वैशम्पायन उवाच ।

9.55.35

नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् । सर्वान्विसर्जयामास ये तेनाभ्यागताः सह ।
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ॥

9.55.36

सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् । ततः प्रीतमनाः रामः श्रुता तीर्थफलं महत् ।
विप्राणां सन्निधौ श्लोकमगायदिममच्युतः ॥

9.55.37

सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः ।
सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम् ॥

9.55.38

सरस्वती सर्वनदीषु पुण्या सरस्वती लोकशुभावहा सदा ।
सरस्वतीं प्राप्य जनाः सुदुष्कृतं सदा न शोचन्ति परत्र चेह च ॥

9.55.39

ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् ।
हयैर्युक्तं रथं शुभ्रमारुरोह परन्तपः ॥

9.55.40

स शीघ्रगामिना तेन रथेन यदुपुङ्गवः ।
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्वमुपस्थितम् ॥

9.55.41

एवं तदभवद्युद्वं तुमुलं जनमेजयं ।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥
धृतराष्ट्र उवाच ।

9.55.42

राम सन्निहितं श्रुत्वा गदायुद्ध उपस्थिते ।
मम पुत्रः कथं भीमं प्रत्ययुध्यत सञ्जय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc