भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.39

9.39.1

सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः ।
कथं सिद्धः स भगवान्कश्चास्य नियमोऽभवत् ॥

9.39.2

कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम ।
एतन्मे सर्वमाचक्ष्व यथातत्त्वं महामुने ॥
वैशम्पायन उवाच ।

9.39.3

सप्तनद्यः सरस्वत्या याभिर्व्याप्तमिदं जगत् ।
आहूता बलवद्भिर्हि तत्रतत्र सरस्वती ॥

9.39.4

सुप्रभा काञ्चनाक्षी च विशाला च मनोरमा ।
सरस्वती चौघवती सुरेणुर्विमलोदका ॥

9.39.5

पितामहस्य महतो वर्तमाने महामखे ।
वितते यज्ञवाटे च संसिद्धेषु द्विजातिषु ॥

9.39.6

पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा ।
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥

9.39.7

तत्र चैव महाराज दीक्षिते प्रपितामहे ।
यजतस्तस्य सत्रेण सर्वकामसमृद्विना ॥

9.39.8

मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा ।
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्रतत्र ह ॥

9.39.9

जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः ।
वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥

9.39.10

तस्य यज्ञस्य सम्पत्त्या तुतुषुर्देवतागणाः ।
विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥

9.39.11

वर्तमाने यथा यज्ञे पुष्करस्थे पितामहे ।
अब्रुवन्नृषयो राजन्नायं यज्ञो महागुणः ॥

9.39.12

न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ।
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् ॥

9.39.13

पितामहेन यजता आहूता पुष्करेषु वै ।
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥

9.39.14

तां दृष्ट्वा मुनयस्तुष्टास्त्वरायुक्तां सरस्वतीम् ।
पितामहं मानयन्तीं क्रतुं ते बहुमेनिरे ॥

9.39.15

एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती ।
पितामहार्थं सम्भूता तुष्ट्यर्थं च मनीषिणाम् ॥

9.39.16

नैमिषे मुनयो राजन्समागम्य समासते ।
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥

9.39.17

यत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः ।
ते समागम्य मुनयः सस्मारुर्वै सरस्वतीम् ॥

9.39.18

सा तु ध्याता महाराज मुनिभिः सत्रयाजिभिः । समागतानां राजेन्द्र साहाय्यार्थं महात्मनाम् ।
आजगाम महाभागा तत्र पुण्या सरस्वती ॥

9.39.19

नैमिषे काञ्चनाक्षी तु मुनीनां सत्रायाजिxxxम् ।
आगता सरितां श्रेष्ठा तत्र भारत पूजित ॥

9.39.20

गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥

9.39.21

गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।
विशालां तु गयस्याहुरृषयः संशितव्रता ॥

9.39.22

सरित्सा हिमवत्पार्श्वात्प्रस्रुता शीघ्रगामिनी ।
औद्दालकेस्तथा यज्ञे यजतस्तस्य भारत ॥

9.39.23

समेते सर्वतः स्फीते मुनीनां मण्डले तदा ।
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः ॥

9.39.24

औद्दालकेन यजता पूर्वं ध्याता सरस्वती ।
आजगाम सरिच्छेष्ठा तं देशं मुनिकारणात् ॥

9.39.25

पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ।
मनोहरेति विख्याता सा हि तैर्मनसा वृता ॥

9.39.26

[सुरणुऋषभे द्वीपे पुण्ये राजर्षिसेविते.] कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः ।
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥

9.39.27

ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना ।
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥

9.39.28

दक्षेण यजता चापि गङ्गाद्वारे सरस्वती ।
सुवेणिरिति विख्याता प्रस्रुता शीघ्रगामिनी ॥

9.39.29

विमलोदा भगवती ब्रह्मणा यजता पुनः ।
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥

9.39.30

एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः ।
सप्तसारस्वतं तीर्थं ततस्तु प्रथितं भुवि ॥

9.39.31

इति सप्तसरस्वत्यो नामतः परिकीर्तिताः ।
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥

9.39.32

शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः ।
आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥

9.39.33

दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत । स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् ।

9.39.34

सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥ तद्रेतः स तु जग्राह कलशे वै महातपाः ।

9.39.35

ऋषिः परमधर्मात्मा तदा पुरुषसत्तम ॥ सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।

9.39.36

तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥ वायुवेगो वायुबलो वायुहा वायुमण्डलः ।

9.39.37

वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ।
महर्षेश्चरितं यादृक् त्रिषु लोकेषु विश्रुतम् ॥

9.39.38

पुरा मङ्कणकः सिद्भः कुशाग्रेणेति नः श्रुतम् ।
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ॥

9.39.39

स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥

9.39.40

ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् ।
प्रनृत्तमुभयं वीर सेजसा तस्य मोहितम् ॥

9.39.41

ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः । विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥

9.39.42

ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह ।
सुगणां हितकामार्थं महादेवोऽभ्यभाषत ॥

9.39.43

भोभो ब्राह्मण धर्मज्ञ किमर्थं नृत्यते भवान् । हर्षस्थानं किमर्थं च तवेदमधिकं मुने ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥
ऋषिरुवाच ।

9.39.44

किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ।
यं दृष्ट्वा सम्प्रनृत्तो वै हर्षेण महता विभो ॥

9.39.45

तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् ।
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥

9.39.46

एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता ।
अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितोऽभवत् ॥

9.39.47

ततो भस्म क्षताद्राजन्निर्गतं हिमसन्निभम् ॥

9.39.48

तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ।
मेने देवं महादेवमिदं चोवाच विस्मितः ॥

9.39.49

नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥

9.39.50

त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः ।
त्वामेव सर्वं विशति पुनरेव युगक्षये ॥

9.39.51

देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।
त्वयि सर्वे स्म दृश्यन्ते भावा ये जगति स्थिताः ॥

9.39.52

त्वामुपासन्त वरदं देवा ब्रह्मादयोऽनघ ।
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ॥

9.39.53

त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ।
त्वं प्रभुः परमैश्वर्यादधिकं भासि शङ्करः ॥

9.39.54

त्वयि ब्रह्मा च विष्णुश्च लोकान्सन्धाय तिष्ठतः ।
त्वन्मूलं च जगत्सर्वं भूतस्थावरजङ्गमम् ॥

9.39.55

स्वर्गं च परमं स्थानं नृणामभ्युदयार्थिनाम् ।
ददासि च प्रसन्नस्त्वं भक्तानां परमेश्वर ॥

9.39.56

अनावृत्तिपदं नॄणां नित्यं निश्रेयसार्थिनाम् ।
ददासि कर्मिणां कर्म भावयन्ध्यानयोगतः ॥

9.39.57

न वृथाऽस्ति महादेव प्रसादस्ते महेश्वर ।
यस्मात्त्वयोपकरणात्करोमि कमलेक्षण ॥

9.39.58

प्रपद्ये शरणं शम्भुं सर्वदा सर्वतः स्थितम् ।
कर्मणा मनसा वाचा तमेवाभिभजाम्यहम् ॥
जनमेजय उवाच ।

9.39.59

एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽभवत् ॥

9.39.60

यदिदं चापलं देव कृतमेतत्स्मयादिकम् ।
ततः प्रसादयमि त्वां तपो मे न क्षरेदिति ॥

9.39.61

ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् ।
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ॥

9.39.62

आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ।
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः ॥

9.39.63

न तस्य दुर्लभं किञ्चिद्धवितेह परत्र वा ।
सारस्वतं च ते लोकं गमिष्यन्ति न संशयः ॥

9.39.64

एतन्मङ्कणकस्यापि चरितं भूरितेजसः ।
स हि पुत्रः सुकन्यायामुत्पन्नो मातरिश्वना ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc