भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.38

9.38.1

ततो विनशनं राजन्नाजगाम हलायुधः । शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती ।
तस्मात्तामृषयो नित्यं प्राहुर्विनशनेति च ॥

9.38.2

तत्राप्युपस्पृश्य बलः सरस्वत्यां महाबलः ।
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ॥

9.38.3

तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः ।
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ॥

9.38.4

तत्र देवाः सगन्धर्वा मासिमासि जनेश्वर ।
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ॥

9.38.5

तत्र नृत्यन्ति गन्धर्वास्तथैवाप्सरसां गणाः ।
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ॥

9.38.6

तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः ।
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ॥

9.38.7

आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा ।
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ॥

9.38.8

तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः ।
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ॥

9.38.9

शय्याश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् ।
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ॥

9.38.10

विश्वावसुमुखास्तत्र गन्धर्वाप्सरसां गणाः ।
नृत्तवादित्रगीतं च कुर्न्वति सुमनोरमम् ॥

9.38.11

तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु ।
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ॥

9.38.12

भोजयित्वा द्विजान्कामैः सन्तर्प्य च महाधनैः ।
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः ॥

9.38.13

तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिन्दमः ।
गर्गस्रोतो महातीर्थमाजगामैककुण्डली ॥

9.38.14

तत्र गर्गेण वृद्धेन तपसा भावितात्मना ।
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ॥

9.38.15

उत्पाता दारुणाश्चैक शुभाश्च जनमेजय ।
सरस्वत्याः शुभे तीर्थे विदिता वै महात्मना ॥

9.38.16

तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ॥

9.38.17

तत्र गर्गं महाभागमृषयः सुव्रता नृप ।
उपासाञ्चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ॥

9.38.18

तत्र गत्वा महाराज बलः श्वेतानुलेपनः ।
विधिवद्वि धनं दत्त्वा मुनीनां भावितात्मनाम् ॥

9.38.19

उच्चावचांस्तथा भक्ष्यान्विप्रेभ्यो विप्रदाय सः ।
नीलवासास्तदाऽगच्छच्छङ्घतीर्थं महायशाः ॥

9.38.20

तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् । श्वेतपर्वतसङ्काशमृषिसङ्घैर्निषेवितम् ।
सरस्वत्यास्तटे जातं नगं तालध्वजो बली ॥

9.38.21

यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः ।
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ॥

9.38.22

ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः ।
व्रतैश्च नियमैश्चैव कालेकाले स्म भुञ्जते ॥

9.38.23

प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् ।
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ॥

9.38.24

एवं ख्यातो नरव्याघ्र लोकेऽस्मिन्स वनस्पतिः ।
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ॥

9.38.25

तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः ।
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ॥

9.38.26

पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः ।
पुण्यं नैसर्गिकं राजन्नाजगाम हलायुधः ॥

9.38.27

तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः ।
आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ॥

9.38.28

तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् ।
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ॥

9.38.29

गत्वा चैवं महाबाहुर्नातिदूरे महायशाः ।
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ॥

9.38.30

यत्र पन्नगराजस्य वासुकेः सन्निवेशनम् ।
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ॥

9.38.31

ऋषिणां हि सहस्राणि तत्र नित्यं चतुर्दश । यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् ।
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ॥

9.38.32

पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव ॥

9.38.33

तत्रापि विधिवद्दत्वा विप्रेभ्यो रत्नसञ्चयान् ।
प्रायात्प्राचीं दिशं राजंस्तत्र तीर्थान्यनेकशः ॥

9.38.34

सहस्रशतसङ्ख्यानि प्रथितानि पदेपदे ।
आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः ॥

9.38.35

दत्त्वा वसु द्विजाग्र्येभ्यो निर्जगाम महाबलः ।
तत्रस्थानृषिसङ्घांस्तानभिवाद्य हलायुधः ॥

9.38.36

ततो रामोऽगमत्तीर्थमृषिभिः सेक्तिं महत् ।
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती ॥

9.38.37

ऋषीणां नैमिषेयाणावमेक्षार्थं महात्मनाम् । निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली ।
वभूव विस्मितो राजन्बलः श्वेतानुलेपनः ॥
जनमेजय उवाच ।

9.38.38

कस्मात्सरस्वती ब्रह्मन्निवृत्ता कप्राङ्मुखी भवत् ।
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम ॥

9.38.39

कस्मिंश्चित्कारणे तत्र विस्मितो यदुनन्दनः ।
निवृत्ता हेतुना केन कथमेव सरिद्वरा ॥
वैशम्पायन उवाच ।

9.38.40

पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः ।
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके ॥

9.38.41

ऋषयो बहवो राजंस्तत्सत्रमभिपेदिरे ।
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि ॥

9.38.42

निवृत्ते नैमिषे ये वै सत्रे द्वादशवार्षिके ।
आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् ॥

9.38.43

ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते ।
तीर्थानि नगरायन्ते कूले वै दक्षिणोत्तरे ॥

9.38.44

समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः ।
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ॥

9.38.45

जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् ।
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः ॥

9.38.46

अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् ।
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ॥

9.38.47

वालखिल्या महाराज अश्मकुट्टाश्च तापसाः ।
दन्तोलूखलिनश्चान्ये सम्प्रक्षालास्तथा परे ॥

9.38.48

वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः ।
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ॥

9.38.49

आसन्वै मुनयस्तवत्र सरस्वत्याः समीपतः ।
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ॥

9.38.50

शतशश्च समापेतुरृषयः सत्रयाजिनः । तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः ।
तेऽवकाशं च ददृशुः कुरुक्षेत्रं महाव्रताः ॥

9.38.51

ततो यज्ञोपवीतैः स्वैस्तत्र कृत्वा सरस्वतीम् ।
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः ॥

9.38.52

ततस्तमृपिसङ्घातं निराशं चिन्तयान्वितम् ।
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ॥

9.38.53

ततः कुञ्जान्बहून्कृत्वा सन्निवृत्ता सरस्वती ।
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ॥

9.38.54

ततो निवृत्त्य राजेन्द्र तेषामर्थे सरस्वती ।
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा ॥

9.38.55

अमोघा गमनं कृत्वा तेषां भूयो जगाम ह ।
अत्यद्भुतं महच्चक्रे तदा राजन्महानदी ॥

9.38.56

एवं स कुञ्जो राजन्वै नैमिषीय इति स्मृतः ।
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम् ॥

9.38.57

तत्र कुञ्जान्बहून्दृष्ट्वा निवृत्तां च सरस्वतीम् ।
बभूव विस्मयस्तत्र रामस्याथ महात्मनः ॥

9.38.58

उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः ।
दत्त्वा देयान्द्विजातिभ्यो भाण्डानि विविधानि च ॥

9.38.59

भक्ष्यं भोज्यं कच विविधं ब्राह्मणेभ्यः प्रदाय च ।
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः ॥

9.38.60

सरस्वतीतीर्थवरं नानाद्विजगणायुतम् ।
बदरेङ्गुदश्यामाकाप्लुक्षाश्वत्थबिभीतकैः ॥

9.38.61

कङ्कोलैश्च पलाश्चैश्च करीरैः पीलुभिस्तथा ।
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा ॥

9.38.62

करुषकवरैश्चैव बिल्वैराम्रातकैस्तथा ।
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् ॥

9.38.63

कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम् ।
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि ॥

9.38.64

तथाऽश्मकुट्टैर्वातेयैर्मुनिभिर्बहुभिर्वृतम् ।
स्वाध्यायघोषसङ्घुष्टं मृगयूथशताकुलम् ॥

9.38.65

अहिंस्रैर्धर्मपरमैर्नृभिरत्यर्थरोवितम् । सप्तसारस्वतं तीर्थमाजगाम हलायुधः ।
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc