भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.33

9.33.1

एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः ।
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽब्रवीदिदम् ॥

9.33.2

यदी नाम ह्ययं यूद्धे वरयेत्त्वां युधिष्ठिर ।
अर्जुनं नकुलं चैव सहदेवमथापि वा ॥

9.33.3

किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् ।
एकमेव निहत्याजौ भव राजा कुरुष्विति ॥

9.33.4

एतेन हि कृता योग्या वर्षाणीह त्रयोदश ।
आयसे पुरुषे राजन्भीमसेनजिघांसया ॥

9.33.5

कथं नाम भवेत्कार्यमस्माद्वि भरतर्षभ ।
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥

9.33.6

नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे ।
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥

9.33.7

तदिदं द्यूतमारब्धं पुनरेव यथा पुरा ।
विषमं शकुनेश्चैव तव चैव विशेषतः ॥

9.33.8

बली भीमः समर्थश्च कृती राजा सुयोधनः ।
बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥

9.33.9

सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः ।
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥

9.33.10

कोऽनु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा । [कृच्छ्रप्राप्तेन च तथा हारयेद्राज्यमागतम्.]
पातितश्चैकबाणेन शोचयेदेवमाहवे ॥

9.33.11

न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे ।
गदाहस्तं विजेतुं वै शक्तः स्यादमरोपि हि ॥

9.33.12

फल्गुनो वा भवान्वाथ माद्रीपुत्रावथापि वा ।
न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥

9.33.13

न त्वं भीमो न नकुलः सहदेवोऽथ फल्गुनः ।
जेतुं न्यायेन शक्तो वै कृती राजा सुयोधनः ॥

9.33.14

स कथं वदसे शत्रुं युध्यस्व गदयेति हि ।
एकं च नो निहत्याजौ भव राजेति भारत ॥

9.33.15

वृकोदरं समासाद्य संशयो वै जये हि नः ।
न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥

9.33.16

[नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च सन्ततिः । अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः ॥ ]
भीमसेन उवाच ।

9.33.17

मधुसूदन माकार्षीविषादं यदुनन्दन ।
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥

9.33.18

अहं सुयोधनं सङ्ख्ये हनिष्यामि न संशयः ।
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते ॥

9.33.19

अध्यर्धेन गुणेनेयं गदा गुरुतरी मम ।
न तथा धार्तराष्ट्रस्य माकार्षीर्माधव व्यथाम् ॥

9.33.20

अनया गदयानाहं संयुगे योद्धुमुत्सहे ।
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन ॥

9.33.21

सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि ।
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम् ॥
सञ्जय उवाच ।

9.33.22

तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् ।
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत् ॥

9.33.23

त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः ।
निहतारिः स्वकां दीप्तां श्रियं प्राप्नोत्यसंशयम् ॥

9.33.24

त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे ।
राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥

9.33.25

कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा ।
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥

9.33.26

हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् ।
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥

9.33.27

त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति ।
त्वमस्य सक्थिनी भन्क्त्वा प्रतिज्ञां पालयिष्यसि ॥

9.33.28

यत्नेन ह त्वया पापो योद्धव्यो धृतराष्ट्रजः ।
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥

9.33.29

ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् ।
विविधाभिश्च तं वाग्भिर्भिमसेनं जनेश्वर ॥

9.33.30

पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः ।
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥

9.33.31

ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥

9.33.32

अहमेतेन सङ्गम्य संयुगे योद्धुमुत्सहे ।
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥

9.33.33

अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् ।
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥

9.33.34

शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।
निहते गदया पापे अद्य राजन्सुखी भव ॥

9.33.35

अद्य कीर्तिमयीं मालां प्रितमोक्ष्ये तवानघ ।
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥

9.33.36

राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् ।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥

9.33.37

इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् ।
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥

9.33.38

[तदाह्वानममृष्यन्वै तव पुत्रोऽतिवीर्यवान् ।
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम् ॥

9.33.39

गदाहस्तं तव सुतं युद्धाय समुपस्थितम् ।
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्] ॥

9.33.40

तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् ।
वियूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥

9.33.41

[न सम्भ्रमो न च भयं न च ग्लानिर्न च व्यथा ।
आसीद्दुर्योधनस्यापि स्थितः सिंह इवाहवे] ॥

9.33.42

समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गियाम् ।
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥

9.33.43

राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् । स्मर तद्दुष्कृतं कर्मं यद्भूतं वारणावते ।

9.33.44

द्रौपदी च परामृष्टा समामध्ये रजस्वला ।
द्यूते च वञ्चितो राजा शकूनेर्बुद्धिलाघवात् ॥

9.33.45

यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि ।
अनागासु च पार्थेषु तस्य पश्य महत्फलम् ॥

9.33.46

त्वत्कृते निहतः शेते शरतल्पे महायशाः ।
याङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥

9.33.47

हतो द्रोणश्च कर्णश्च इतः शल्यः प्रतापवान् ।
वैराग्नेरादिकर्ता च शकुनिर्निहतो रणे ॥

9.33.48

भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः ।
राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥

9.33.49

एते चान्ये च निहता बहवः क्षत्रियर्षभाः ।
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥

9.33.50

अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः ।
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥

9.33.51

अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप ।
राज्याशां विपुलां चापि पाण्डवेषु च दुष्कृतम् ॥
दुर्योधन उवाच ।

9.33.52

किं कत्थितेन बहुना युध्यस्वाद्य मया सह ।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥

9.33.53

किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् ।
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥

9.33.54

गदिनं कोऽद्य मां पाप हन्तुमुत्सहते रिपुः ।
न्यायतो युध्यमानश्च देवेष्वपि पुरन्दरः ॥

9.33.55

मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् ।
दर्शयस्व बलं युद्धे यावन्नासून्निहन्मि ते ॥

9.33.56

तस्य तद्वचनं श्रुत्वा पाण्डवाः सहसृञ्जयाः ।
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः ॥

9.33.57

उन्मत्तमिव मातङ्गं तलशब्देन मानवाः ।
भूयः संहर्षयामासू राजन्दुर्योधनं द्विषः ॥

9.33.58

बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् ।
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc