भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 9.34

9.34.1

xxxxxxxxxxxसुसंवृत्ते सुदारुणे ।
xxxxxxxxxxx पाण्डवेषु महात्मसु ॥

9.34.2

ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते ।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः ॥

9.34.3

तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः ।
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन् ॥

9.34.4

पूजयित्वा ततः पश्चादिदं वचनमब्रुवन् ।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव ॥

9.34.5

अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम् ।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम् ॥
राम उवाच ।

9.34.6

चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै । पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः ।
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव ॥

9.34.7

ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् ।
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम् ॥

9.34.8

कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् ।
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ ॥

9.34.9

माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः ।
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम् ॥

9.34.10

भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप ।
तथैव चोद्यतगदौ पूजयामासतुर्बलम् ॥

9.34.11

स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः ।
पश्य युद्धं महाबाहो इति ते राममब्रुवन् ॥

9.34.12

एवमुचुर्महात्मानं रौहिणेयं नराधिपाः ॥

9.34.13

परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान् । अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः ।
तथैव ते समासाद्य पप्रच्छुस्तमनामयम् ॥

9.34.14

प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः ।
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः ॥

9.34.15

जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे ।
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ॥

9.34.16

तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम् ।
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ ॥

9.34.17

ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम् ।
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत ॥

9.34.18

तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
न्यविशत्परमप्रीतः पूज्यमानो महारथैः ॥

9.34.19

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः ।
दिवीव नक्षत्रगणैः परिवीतो निशाकरः ॥

9.34.20

ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः ।
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc