भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.93

8.93.1

रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महास्वनौ । समास्थितौ लोकवीरौ शङ्खान्दध्मुः पृथक्पृथकम् ।
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥

8.93.2

तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा ।
अन्योन्यस्पान्धेनोरुग्रं शक्रशम्बरयोरिव ॥

8.93.3

तयोर्ध्वजौ हि विमलौ शुशुभाते रथे स्थितौ ।
राहुकेतू यथाऽकाशे उदितौ जगतः क्षये ॥

8.93.4

कर्णस्याशीविषनिभा रत्नसारमयी दृऋहा ।
पुरन्दरधनुः प्रख्या हस्तिकक्ष्या विराजते ॥

8.93.5

कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः ।
दंष्ट्राभिर्भीषयन्भाभिर्दुर्निरीक्ष्यो रविर्यथा ॥

8.93.6

युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः ।
कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान्कपिः ॥

8.93.7

उत्पत्य च महावेगः कक्ष्यामभ्याहनत्तदा ।
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥

8.93.8

सा किङ्किणीकाभरणा कालपाशोपमा तदा ।
अभ्यद्रवत्सुसंरब्धा हस्तिकक्ष्याऽथ तं कपिम् ॥

8.93.9

तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते ।
प्राकुर्वतां ध्वजौ युद्धं पूर्वं पूर्वतरं तदा ॥

8.93.10

हया हयानभ्यहेषन्स्पर्धमानाः परस्परम् । अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः ।
शल्यश्च पुण्डरीकाक्षं तथैवाभिसमैक्षत ॥

8.93.11

तत्राजयद्वासुदेवः शल्यं नयनसायकैः ।
कर्णं चाप्यजयदृष्ट्या कुन्तीपुत्रो धनञ्जयः ॥

8.93.12

अयाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् ॥

8.93.13

यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ।
किं करिष्यसि सङ्घामे शल्य सत्यमथोच्यताम् ॥
शल्य उवाच ।

8.93.14

यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः ।
उभावेकरयेनाहं हन्यां माधवपाण्डवौ ॥
सञ्जय उवाच ।

8.93.15

एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत ।
तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ॥

8.93.16

पतेद्दिवाकरः स्थानाच्छीर्येद्भूमिरनेकधा ।
शैल्यमग्निरियान्न त्वां हन्यात्कार्णो धनञ्जय ॥

8.93.17

यदि चैतत्कथञ्चित्स्याल्लोकपर्यसनं भवेत् ।
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ॥

8.93.18

इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः ।
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ॥

8.93.19

मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन ।
सपताकध्वजं कर्णं सशल्यरथवाजिनम् ॥

8.93.20

सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ।
द्रष्टाऽस्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा ॥

8.93.21

अद्यैव सरथं साश्वं सशक्तिकवचायुधम् ।
सञ्चूर्णितमिवारण्ये वृक्षं पश्याद्य दन्तिना ॥

8.93.22

अद्य राधेयभार्याणां वैधव्यं समुपस्थितम् ।
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव ॥

8.93.23

द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः ।
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम् ॥

8.93.24

कृष्णां सभागतां दृष्ट्वा मूढेनादीर्घदर्शिना ।
अस्मांस्तथाऽवहसता क्षिपता च पुनःपुनः ॥

8.93.25

अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया ।
वारणेनेव मत्तेन पुष्पितं गजतीरुहम् ॥

8.93.26

अद्य ता मधुरा वाचः श्रोतासि मधुसूदन ।
दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते ॥

8.93.27

अद्याभिमन्युजननीं प्रहृष्टः सान्त्वयिष्यसि ।
कुन्तीं पितृष्वसारं च प्रहृष्टः सन् जनार्दन ॥

8.93.28

अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव ।
वाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc