भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.92

8.92.1

प्रजापतिस्तु तं दृष्ट्वा देवभागं समागतम् ।
अब्रवीत्तु ततो राजन्पश्यतो वै स्वयम्भुवः ॥

8.92.2

उभावतिरथौ शूरावुभौ दृढपराक्रमौ ।
उभौ सदृशकर्माणौ वज्रिचक्रायुधौपमौ ॥

8.92.3

अहो बत महद्युद्धं कर्णार्जुनसमागमे ।
भविष्यति महाघोरं वृत्रवासवयोरिव ॥

8.92.4

प्रजापतिरथोक्त्वैवं स्वयम्भुवमचोदयत् ।
समोऽस्तु विजयः काममुभयोर्नरसिंहयोः ॥

8.92.5

कर्णार्जुनविवादेन मा नश्येदखिलं जगत् ।
स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः ॥

8.92.6

एवमुक्तस्तु भगवाञ्जये ताभ्यामनिश्चिते ।
इत्यब्रवीन्महाराज महाब्रह्मा प्रजापतिम् ॥

8.92.7

द्वावप्येतौ हि कृतिनौ द्वावप्यतिबलोत्कटौ ।
भविष्यत्यनयोर्युद्धं त्रैलोक्यस्य भयावहम् ॥

8.92.8

ततः प्रजापतिं तत्र सहस्राक्षोऽभ्यचोदयत् ।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः ॥

8.92.9

मनस्वी बलवाञ्शूरः कृतविद्यस्तपोधनः ।
विभर्ति च महातेजा धनुर्वेदमशेषतः ॥

8.92.10

पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः ।
क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशं ॥

8.92.11

सम्पन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः ।
अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन् ॥

8.92.12

अतिक्रमे च लोकानामभावो नियतो भवेत् ।
नावस्थानं च पश्यामि क्रुद्धयोः कृष्णयोः क्वचित् ॥

8.92.13

स्रष्टारौ जगतश्चैतौ ततश्च पुरुषर्षभौ ।
नरनारायणावेतौ पुराणावृषिसत्तमौ ॥

8.92.14

अनियम्यौ नियन्तारौ जगतः पुरुषर्षभौ ।
[नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा ॥

8.92.15

अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः । सर्वदेवगणाश्चापि सर्वभूतानि यानि च ।
अनयोस्तु प्रभावेन वर्तते निखिलं जगत् ॥ ]

8.92.16

कामं तु सुकृताँल्लोकानाप्नोतु पुरुषर्षभः ।
कर्णो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥

8.92.17

वसूनां समलोकत्वं मरुतां वासमाप्नुयात् ।
सहितो द्रोणभीष्माभ्यां नाकपृष्ठे महीयताम् ॥

8.92.18

क्लेशितो हि वने पार्थो दिर्घकालं पितामह ।
तस्मादेष जयेद्युद्धे तपसाऽभ्यधिकोऽर्जुनः ॥

8.92.19

पूर्वं भगवता प्रोक्तः कृष्णयोर्विजयो ध्रुवः ।
तत्तथास्तु नमस्तेऽस्तु प्रमो ब्रूहि पितामह ॥

8.92.20

तत्सहस्राक्षवचनं निशम्य भगवान्प्रभुः ।
नोवाच तज्जयं तुल्यं तयोः कर्णकिरीटिनोः ॥

8.92.21

तस्मादाशां गतः शक्रस्तूष्णीम्भूते पितामहे ।
विजयः पाण्डवेयस्य कर्णस्य च वधो भवेत् ॥

8.92.22

ब्रह्मेशानौ ततो वाक्यमूचतुर्भुवनेश्वरम् ।
विजयो ध्रुव एवास्तु पाण्डवस्य महात्मनः ॥

8.92.23

मनस्वी जयतां शूरः कृतविद्यस्तपोधनः ।
बिभर्ति च महातेजा धनुर्वेदमशेषतः ॥

8.92.24

अतिक्रामेच्च माहात्म्याद्दिष्टमप्यविचारयन् ।
अतिक्रमे च लोकानामभावो नियतो भवेत् ॥

8.92.25

न च विद्म ह्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित् ।
स्रष्टारौ जगतश्चैव सतश्च पुरुषर्षभौ ॥

8.92.26

कामं तु सुकृताँल्लोकान्प्राप्नोत्वेष परन्तपः ।
कर्णो वैकर्तनः शूरो विजयस्तु नरे ध्रुवः ॥

8.92.27

तथोक्ते देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः ।
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ॥

8.92.28

श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् ।
तत्तथा व्येतु ते रोगः शमाप्नुत विमन्यवः ॥

8.92.29

इति श्रुत्वेन्द्रवचनं सर्वभूतानि मानिष । विस्मितान्यभवन्राजन्पूजयाञ्चक्रिरे तदा ।
नोचुस्तदा जयं तुल्यं तयोः पुरुषसिंहयोः ॥

8.92.30

व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः ।
नानारूपाणि विबुधा देवतूर्याण्यवादयन् ॥

8.92.31

दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः ।
विस्मयोत्फुल्लनयना नान्या बुबुधिरे क्रियाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc