भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.9

8.9.1

ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे ।
बृहत्यौ सम्प्रजहाते देवासुरचमूसमे ॥

8.9.2

ततो नानारथाश्वेभाः पत्तयश्चोग्रविक्रमाः ।
सम्प्रहारान्भृशं चक्रुर्देहपाप्मविनाशनान् ॥

8.9.3

पूर्णचन्द्रार्कपद्मानां कान्तित्विङ्गन्धतः समैः ।
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥

8.9.4

अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टसैः ।
परश्वथैश्चापहृतान्युत्तमाङ्गानि युध्यताम् ॥

8.9.5

व्यायतायतबाहूनां व्यायतायतबाहुभिः ।
वाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदैः ॥

8.9.6

तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा ।
गरुडप्रहितैरुग्रैः पञ्चास्यैरुरगैरिव ॥

8.9.7

द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः ।
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गदस्तथा ॥

8.9.8

गदाभिरन्ये गुर्वीभिः परिधैर्मुसलैरपि ।
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ॥

8.9.9

रथा रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः ।
सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ॥

8.9.10

रथैर्नरा रथा नागैरश्वारोहाश्च पत्तिभिः ।
अश्वारोहैः पदाताश्च निहता युधि शेरते ॥

8.9.11

रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः ।
रथपत्तिद्विपाश्चाश्चै रथैश्चापि नरद्विपाः ॥

8.9.12

रथाश्वेभनराणां तु नराश्वेभरथैः कृतम् ।
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥

8.9.13

तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च ।
अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः ॥

8.9.14

वृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ।
सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह ॥

8.9.15

वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः ।
व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः ॥

8.9.16

आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः ।
नानाविरागवसाना गन्धचूर्णावचूर्णिताः ॥

8.9.17

बद्धासयः पाशहस्ता वारणप्रतिवारणाः ।
समानमृत्यवो राजन्नात्यजन्त परस्परम् ॥

8.9.18

कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः ।
पत्तयः सायकैर्विद्धा घोररूपपराक्रमाः ॥

8.9.19

अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः ।
कारूशाः कोसलाः काञ्च्या मागधाश्चापि दुद्रुवुः ॥

8.9.20

तेषां रथाश्वनागाश्च प्रवराश्चोग्रपत्तयः ।
नानाबाणरवैर्हृष्टा नृत्यन्ति च हसन्ति च ॥

8.9.21

तस्य सैन्यस्य महतो महामात्रवरैर्वृतः ।
मध्ये वृकोदरोऽभ्यायात्त्वदीयान्नागधूर्गतः ॥

8.9.22

स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ ।
उदयाग्राद्रिभवनं यथाऽभ्युदितभास्करम् ॥

8.9.23

तस्यायसं वर्मवरं वररत्नविभूषितम् ।
ताराव्याप्तस्य नभसः शारदस्य समं त्विषा ॥

8.9.24

स तोमरव्यग्रकरश्चारुमौलिः स्वलङ्कृतः ।
शरन्मध्यन्दिनार्काभस्तेजया प्रदाहद्रिपून् ॥

8.9.25

तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थित ।
आह्वयन्नभिदुद्राव प्रहसन्पृतनामुखे ॥

8.9.26

तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः ।
यदृच्छया द्रुतवतोर्महापर्वतयोरिव ॥

8.9.27

संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् ।
बलवत्सूर्यरश्म्याभैर्भित्त्वाऽन्योन्यं विनेदतुः ॥

8.9.28

व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः ।
प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम् ॥

8.9.29

क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः ।
तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः ॥

8.9.30

समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ ।
वातोद्वूतपताकाभ्यां युयुधाते महाबलौ ॥

8.9.31

तावन्योन्यस्य धनुषी छित्त्वाऽन्योन्यं विनेदतुः ।
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥

8.9.32

क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे ।
निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन् ॥

8.9.33

स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः ।
क्रोधदीप्तवपुर्मेधैः सप्तसप्तिरिवांशमान् ॥

8.9.34

ततो भास्करवर्णाभमञ्चोगतिमयस्मायम् ।
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥

8.9.35

ततः करूशाधिपतिश्चापमानम्य सायकैः ।
दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम् ॥

8.9.36

अथ कार्मुकमादाय भीमो जलदनिः स्वनम् ।
रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवाः शरैः ॥

8.9.37

स शरौघार्दितो नागो भीमसेनेन संयुगे ।
गृह्यमाणोऽपि नातिष्ठद्वातोद्धूत इवाम्बुदः ॥

8.9.38

तमभ्यधावद्द्विरदं भीमो भीमस्य नागराट् ।
महावातेरितं मेघं वातोद्धूत इवाम्बुदः ॥

8.9.39

सन्निवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान् ।
विव्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम् ॥

8.9.40

ततः साधुविसृष्टेन क्षुरेणानतपर्वणा ।
छित्त्वा शरासनं शत्रोर्नागं चापि प्रमार्दयत् ॥

8.9.41

ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत् ।
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥

8.9.42

स पपात महानागो भीमसेनस्य भारत ।
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् ॥

8.9.43

भीमसेनोऽपि तन्नागं गदया समपोथयत् ।
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिरवप्लुतः ॥

8.9.44

उद्धृत्य स्वङ्गं निशितमभ्यधावत्स पाण्डवम् ।
उद्यतायुधमायान्तं सदयाऽहन्वृकोदरः ॥

8.9.45

स पपात हतः सासिर्व्यसुस्तमभितो द्विपम् ।
वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा ॥

8.9.46

तं हतं नृपतिं दृष्ट्वा करूशानां यशस्करम् ।
प्राद्रावद्व्यथिता सेना त्वदीया भरतर्षभ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc