भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.8

8.8.1

सैनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा ।
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥

8.8.2

हितश्च प्रियकामश्च मम पुत्रस्य नित्यशः ।
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व स्̤अञ्जय ॥
सञ्जय उवाच ।

8.8.3

कर्णस्य मतमाज्ञाय पुत्रास्ते भरतर्षभ ।
योगमाज्ञापयामासुर्नन्दितूर्यपुरःसरम् ॥

8.8.4

महत्यपररात्रे च तव सैन्यस्य मारिष ।
योगो योग इति ह्याशु प्रादुरासीन्महास्वनः ॥

8.8.5

कल्पतां नागमुख्यानां रथानां च वरुथिनाम् ।
सन्नह्यतां नराणां च वाजिनां च विशाम्पते ॥

8.8.6

क्रोशतां चैव योधानां त्वरितानां परस्परम्् ।
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्ततः ॥

8.8.7

ततः श्वेतपताकेन बलाकावर्णवाजिना ।
हेमपृष्ठेन धनुषा नागकक्षेण केतुना ॥

8.8.8

तूणीरशतपूर्णेन सगदेन वरूथिना ।
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥

8.8.9

कार्मुकैरुपपन्नेन विमलादित्यवर्चसा ।
रथेनाभिपताकेन सुतपुत्रो ह्यदृश्यत ॥

8.8.10

ध्मापयन्वारिजं राजन्हेमजालविभूषिन्तम् ।
विध्रुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥

8.8.11

दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् ।
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं दुरासदम् ॥

8.8.12

न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष ।
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥

8.8.13

ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष ।
कर्णो निष्कर्षयामास कौरवाणां महद्बलम् ॥

8.8.14

व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः ।
प्रत्युद्ययौ तथा कर्णः पाण्डवान्विजिगीषया ॥

8.8.15

मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः ।
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥

8.8.16

द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः ।
मध्येदुर्योधनो राजा बलेन महता वृतः ॥

8.8.17

वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः ।
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदैः ॥

8.8.18

पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः ।
त्रिगर्तैः सुमहेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥

8.8.19

अनुपादे तु यो वामस्तत्र शल्यो व्यवस्थितः ।
महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥

8.8.20

दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः ।
वृतो रथमहस्रेण दन्तिनां च त्रिभिः शतैः ॥

8.8.21

पुच्छे ह्यास्तां महावीर्यौ भ्रातरौ पार्थिवौ तदा ।
चित्रश्च चित्रसेनश्च महत्या सेनया वृतौ ॥

8.8.22

तथा प्रयाते राजेन्द्र कर्णे नरवरोत्तमे ।
धनञ्जयमभिपेक्ष्य धर्मराजोऽब्रवीदिदम् ॥

8.8.23

पश्य पार्थ यथा सेना धार्तराष्ट्रीह संयुगे ।
कर्णेन विहिता वीर गुप्ता वीरैर्महारथैः ॥

8.8.24

हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः ।
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥

8.8.25

एको ह्यत्र महेष्वासः सूतपुत्रो विराजते । सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः ।
चराचरैस्त्रिभिर्लोकैरजेयो यो महारथः ॥

8.8.26

तं हत्वाऽद्य महाबाहो विजयस्तव फल्गुन ।
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ॥

8.8.27

एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥
सञ्जय उवाच ।

8.8.28

भ्रातुरेतद्वचः श्रुत्वा पाण्डवः श्वेतवाहनः ।
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥

8.8.29

वामपार्श्वे तु तस्याथ भीमसेनो व्यवस्थितः ।
दक्षिणे च महेष्वासो धृष्टद्युम्नो व्यवस्थितः ॥

8.8.30

मध्ये व्यूहस्य राजा तु पाण्डवश्च धनञ्जयः ।
नकुलः सहदेवश्च धर्मराजस्य पृष्ठतः ॥

8.8.31

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
पार्थं न जहतुर्युद्वे पाल्यमानौ किरीटिना ॥

8.8.32

शेषां नृपतयो वीराः स्थिता व्यूहस्य दंशिताः ।
यथाभागं यथोत्साहं यथायत्नं च भारत ॥

8.8.33

एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।
तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥

8.8.34

दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे ।
निहतान्पाण्डवान्मेने धार्तराष्ट्रः सबान्धवः ॥

8.8.35

तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः ।
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिपः ॥

8.8.36

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
डिण्डिमाश्चाप्यहन्यन्त झर्झराश्च समन्ततः ॥

8.8.37

सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः ।
सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ॥

8.8.38

हयहेषितशब्दाश्च वारणानां च बृंहिताः ।
रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप ॥

8.8.39

न द्रोणव्यसनं कश्चिज्जानीते तत्र भारत ।
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥

8.8.40

उभे सैन्ये महाराज प्रहृष्टनरसङ्कुले ।
योद्वुकामे स्थिते राजन्हन्तुमन्योन्यमोजसा ॥

8.8.41

विजये जातसंरम्भे दृष्ट्वाऽन्योन्यं व्यवस्थिते ।
अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ ॥

8.8.42

नृत्यन्त्याविव ते सेने समेयातां परस्परम् ।
तयोः पक्षप्रपक्षेभ्यो निर्ययुर्युद्वलिप्सवः ॥

8.8.43

ततः प्रववृते युद्धं नरवारणवाजिनाम् ।
रथानां च महाराज अन्योन्यमभिनिघ्नताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc