भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.6

8.6.1

श्रिया कुलेन यशसा तपसा च श्रुतेन च ।
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥

8.6.2

श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव ।
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥
धृतराष्ट्र उवाच ।

8.6.3

दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्र सालप्रतीकाशः कर्णोऽहन्यत संयुगे ॥

8.6.4

हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् ।
प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥

8.6.5

मोहियित्वा रणे पार्थान्वज्नहस्त इवासुरान् ।
स कथं निहतः शेते वायुरुग्ण इव द्रुमः ॥

8.6.6

शोकस्यान्तं न पश्यामि पारं जलनिधेरिव ।
चिन्ता मे वर्धतेऽतीव मुमूर्षा चापि जायते ॥

8.6.7

कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च ।
अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ॥

8.6.8

वज्रसारमिदं नूनं हृदयं दुर्भिदं मम ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥

8.6.9

आर्युर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा ।
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥

8.6.10

धिग्जीवितमिदं चैव सुहृद्वीनस्य सञ्जय । अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् ।
कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ॥

8.6.11

अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः ।
परिभूतः कथं सूत परैः शक्ष्यामि जीवितुम् ॥

8.6.12

दुःखाद्दुःखतरं भन्ये प्राप्तवानस्मि सञ्जय ।
भीष्मद्रोणवधेनैव कर्णस्य च महात्मनः ॥

8.6.13

नावशेषं प्रपश्यामि सूतपुत्रे हते युधि ।
सहि पारं महानासीत्पुत्राणां मम सञ्जय ॥

8.6.14

युद्धे हि निहतः शूरो विसृजन्सायकान्बहून् ।
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् ॥

8.6.15

रथादाधिरथिर्नूनं न्यपतत्सायकार्दितः ।
पर्वतस्येव शिखरं व ज्रपाताद्विदारितम् ॥

8.6.16

स शेते पृथिवीं नूनं शोभयन्रुधिरोक्षितः ।
मातङ्ग इव मत्तेन मताङ्गेन निपातितः ॥

8.6.17

यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् ।
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ॥

8.6.18

स हि वीरो महेष्वासो मित्राणामभयङ्करः ।
शेते विनिहतो वीरः शक्रेणेव पुरा बलः ॥

8.6.19

पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् ।
दुर्योधनस्य लोभश्च समान्येतानि सञ्जय ॥

8.6.20

अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते ।
अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ॥

8.6.21

पलायमानः कृपणो दीनात्मा दीनपौरुषः ।
कच्चिद्विनिहतः सूत पुत्रो दुःशासनो मम ॥

8.6.22

कच्चिन्न दीनाचरितं कृतवांस्तात संयुगे ।
कच्चिन्न निहतः शूरा यथाऽन्ये क्षत्रियर्षभाः ॥

8.6.23

युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा ।
दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ॥

8.6.24

शतल्पे शयानेन भीष्मेण सुमहात्मना ।
पानीयं याचितः पार्थः सोविध्यन्मेदिनीतलम् ॥

8.6.25

जलस्य धारां जनितां दृष्ट्वा पाण्डुसुतेन च ।
अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ॥

8.6.26

प्रशमाद्वि भवेच्छान्तिर्मदन्तं युद्धमस्तु वः ।
भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥

8.6.27

अकुर्वन्वचनं तस्य नूनं शोचति पुत्रकः ।
तदिदं समनुप्राप्त वचनं दीर्घदर्शिनः ॥

8.6.28

अहं तु निहतामात्यो हतपुत्रश्च सञ्जय ।
द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ॥

8.6.29

यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय ।
विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ॥

8.6.30

लूनपक्षतया तस्य गमनं नोपपद्यते ।
तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः ॥

8.6.31

क्षीणः सर्वार्थहीनश्च निर्ज्ञातिर्बन्धुवर्जितः ।
कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥
वैशम्पायन उवाच ।

8.6.32

इत्येवं धृतराष्ट्रोऽथ विलप्य बहुदुःखितः ।
प्रोवाच सञ्जयं भूयः सोकव्याकुलमानसः ॥
धृतराष्ट्र उवाच ।

8.6.33

योऽजयत्सर्वकाम्भोजानम्बष्ठान्कैकयैः सह ।
गान्धारांश्च विदेहांश्च जित्वा कार्यार्थमाहवे ॥

8.6.34

दुर्योधनस्य वृद्ध्यर्थं योऽजयत्पृथिवीं प्रभुः ।
स जितः पाण्डवैः शूरैः समरे वाहुशालिभिः ॥

8.6.35

तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना ।
के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व सञ्जय ॥

8.6.36

कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे ।
उक्तं त्वया पुरा तात यथा वीरो निपातितः ॥

8.6.37

भीष्ममप्रतियुध्यन्तं शिखम्डी सायकोत्तमैः ।
पातयामास समरे सर्वशस्त्रभृतां वरम् ॥

8.6.38

तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि ।
धर्मराजवचः श्रुत्वा अश्वत्थामा हतस्त्विति ॥

8.6.39

युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ।
निहतः खङ्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ॥

8.6.40

अन्तरेण हतावेतौ छलेन च विशेषतः ।
अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ॥

8.6.41

भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् ।
न्यायेन युध्यन्समरे तद्वै सत्यं ब्रवीमि ते ॥

8.6.42

कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च ।
कथमिन्द्रोपमं वीरं मृत्युर्युद्वे समस्पृशत् ॥

8.6.43

यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् ।
प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरन्दरः ॥

8.6.44

यस्य सर्पमुखो दिव्यः शरः काञ्चनभूषणः ।
अशेत निशितः पत्री समरेष्वरिसूदनः ॥

8.6.45

भीष्मद्रोणमुखान्वीरान्योऽवमत्य महारथान् ।
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ॥

8.6.46

यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः ।
सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शितैः ॥

8.6.47

यश्च नागायुतप्राणां वज्ररंहसमच्युतम् ।
विरथं सहसा कृत्वा भीमसेनमपाहसत् ॥

8.6.48

सहदेवं च निर्जित्य शरैः सन्नतपर्वभिः ।
कृपया विरथं कृत्वा नाहनद्धर्मचिन्तया ॥

8.6.49

यश्च मायासहस्राणि विकुर्वाणं जयैषिणम् ।
घटोत्कचं राक्षसेन्द्रं शक्रशक्त्या निजघ्निवान् ॥

8.6.50

एवांश्च दिवसान्यस्य युद्धे भीतो धनञ्जयः ।
नागमद्द्वैरथं वीरः स कथं निहतो रणे ॥

8.6.51

[संशप्तकानां योधा ये आह्वयन्त सदाऽन्यतः ।
एतान्हत्वा हनिष्यामि पश्चाद्वैकर्तनं रणे ॥

8.6.52

इति व्यपदिशन्पार्थो वर्जयन्सूतजं रणे । स कथं निहतो वीरः पार्थेन परवीरहा ॥ ]

8.6.53

रथभह्गो न चेत्तस्य धनुर्वा न व्यशीर्यत ।
न चेदस्त्राणि नष्टानि स कथं निहतः परैः ॥

8.6.54

को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः । विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे ।
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगिनम् ॥

8.6.55

ध्रवं तस्य धनुश्छिन्नं रथो वाऽपि महीं गतः । अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ।
न ह्यन्यदपि पश्यामि कारणं तस्य नाशने ॥

8.6.56

न हिन्मि फल्गुनं यावत्तावत्पादौ न धावये ।
इति यस्य महाघोरं व्रतमासीन्महात्मनः ॥

8.6.57

यस्य भीतो रमे निद्रां धर्मराजो युधिष्ठिरः ।
त्रयोदशसमा नित्यं नाभजत्पुरुषर्षभः ॥

8.6.58

यस्य वीर्यवतो वीर्यमुपाश्रित्य महात्मनः ।
मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ॥

8.6.59

तत्रापि च सभामध्ये पाण्डवानां च पश्यताम् ।
दासभार्येति पाञ्चालीमब्रवीत्कुरुसन्निधौ ॥

8.6.60

[न सन्ति तपयः कृष्णे सर्वे षण्डतिलैः समाः ।
उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि ॥

8.6.61

इत्येवं यः पुरा वाचो रूक्षाः संश्रावयन्रुषा ।
सभायां सूतजः कृष्णां स कथं निहतः परैः ॥

8.6.62

यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः । न हनिष्यति कौन्तेयान्पक्षपातात्सुयोधन ।
सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः ॥

8.6.63

किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी । स्निग्धचन्दनदिग्धस्य मच्छरस्याभिधावतः ।
स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः ॥ ]

8.6.64

यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् ।
अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ॥

8.6.65

यस्य नासीद्भयं पार्थात्सपुत्रात्सजनार्दनात् ।
स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ॥

8.6.66

तस्य नाऽहं वधं मन्ये देवैरपि सवासवैः ।
प्रतीपमभिघावद्भिः किं पुनस्तात पाण्डवैः ॥

8.6.67

न हि ज्यां संसम्पृशानस्य तलत्रे वाऽपि गृह्णतः ।
पुमानाधिरथेः स्थातुं कश्चित्प्रमुखतोऽर्हति ॥

8.6.68

अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः ।
न वध- पुरुषेन्द्रस्य संयुगेष्वपलायिनः ॥

8.6.69

येन मन्दः सहायेन भ्रात्रा दुःशासनेन च ।
वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचत ॥

8.6.70

स नूनं वृषभस्कन्धं कर्णं दृष्ट्वा निपातितम् ।
दुःशासनं च निहतं मन्ये शोचति पुत्रकः ॥

8.6.71

हतं वैकर्तनं दृष्ट्वा द्वैरथे सव्यसाचिना ।
जयतः पाण्डवान्दृष्ट्वा किंस्विद्दुर्योधनोऽब्रवीत् ॥

8.6.72

[दुर्मर्षणं हतं दृष्ट्वा वृषसेनं च संयुगे ।
प्रभग्रं च बलं दृष्ट्वा वध्यमानं महारथैः ॥

8.6.73

पराङ्मुखांश्च राज्ञस्तु पलायनपरायणान् ।
विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ॥

8.6.74

अनेयश्चाभिमानी च दुर्बुद्धिरजितेन्द्रियः ।
हतोत्साहं बलं दृष्ट्वा किंस्विदुर्योधनोऽब्रवीत् ॥

8.6.75

स्वयं वैरं महत्कृत्वा वार्यमाणः सुहृद्गणैः ।
प्रधने हतभूयिष्ठैः किंस्विद्दुर्योधनोऽब्रवीत् ॥

8.6.76

भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे । रुधिरे पीयमाने च किंस्विद्द्रुर्योधनोऽब्रवीत् ॥ ]

8.6.77

सह गान्धारराजेन सभायां यदभाषत ।
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ॥

8.6.78

द्यूतं कृत्वा पुरा हृष्ठो वञ्चयित्वा च पाण़्डवान् ।
शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ॥

8.6.79

कृतवर्मा महेष्वासः सात्वतानां महारथः ।
हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत ॥

8.6.80

ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते ।
धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ॥

8.6.81

युवा रूपेण सम्पन्नो दर्शनीयो महायशाः ।
अश्वत्थामा हते कर्णे किमभाषत सञ्जय ॥

8.6.82

आचार्यो यो धनुर्वेदे गौतमो रथसत्तमः ।
कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ॥

8.6.83

मद्रराजो महेष्वासः शल्यः समितिशोभनः । दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः ।
किमभाषत सौवीरो मद्राणामधिपो बली ॥

8.6.84

दृष्ट्वा विनिहतं सर्वे योधा वारणदुर्जयाः । ये च केन राजानः पृथिव्यां योद्वुमागताः ।
वैकर्तनं हतं दृष्टवा कान्यभाषन्त सञ्जय ॥

8.6.85

द्रोणे तु निहते वीरे रथव्याघ्रे नरर्षभे ।
के वा मुखमनीकानामासन्सञ्जय भागशः ॥

8.6.86

मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः ।
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ॥

8.6.87

केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य युध्यतः ।
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥

8.6.88

के कर्णं न जहुः शूराः के क्षुद्राः प्राद्रवंस्ततः ।
कथं च वः समेतानां हतः कर्णो महारथः ॥

8.6.89

पाण्डवाश्च स्वयं शूराः प्रत्युदीयुर्महारथाः ।
सृजन्तः शरवर्षाणि वारिधारा इवाम्बुदाः ॥

8.6.90

स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा ।
व्यर्थः कथं समभवत्तन्ममाचक्ष्व स्̤अञ्जय ॥

8.6.91

मामकस्यास्य सैन्यस्य हतोत्सेधस्य सञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति ॥

8.6.92

तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवीतौ ।
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ॥

8.6.93

पुनः पुनर्न मृष्यामि वधं कर्णस्य पाण्डवैः ।
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥

8.6.94

द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह ।
सङ्घामे नरवीराणां तन्ममाचक्ष्व सञ्जय ॥

8.6.95

यथा कर्णश्च कौन्तेयैः सह युद्धमयोजयत् ।
तथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc