भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.5

8.5.1

श्रुत्वा कर्णं हतं युद्वे पुत्रांश्चैव पलायिनः ।
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥

8.5.2

प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् ।
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ॥
वैशम्पायन उवाच ।

8.5.3

श्रुत्वा कर्णस्य निधनमश्रद्वेयमिवाद्भुतम् ।
भूतसम्मोहनं भीमं मेरोः संसर्पणं यथा ॥

8.5.4

चित्तमोहमिवायुक्तं भार्गवस्य महामतेः ।
पराजयमिवेन्द्रस्य द्विषद्ध्यो भीमकर्मणः ॥

8.5.5

दिवः प्रपतनं भानोरुरव्यामिव महाद्युतेः ।
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ॥

8.5.6

महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम् ।
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ॥

8.5.7

सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः ।
नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम् ॥

8.5.8

प्राणिनामेवमात्मत्वात्स्यादपीति विचार्य च ।
शोकाग्निना दह्यमानो धम्यमान इवाशये ॥

8.5.9

विस्रस्ताङ्गः श्वसन्दीनो हाहेत्युक्त्वा सुदुःखितः ।
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥
धृतराष्ट्र उवाच ।

8.5.10

सञ्जयाधिरथिर्वीरः सिंहद्विरदविक्रमः ।
वृषभप्रतिमस्कन्धो वृषभाक्षगतिस्वरः ॥

8.5.11

वृषभो वृषभस्येव यो युद्धे न निवर्तते ।
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥

8.5.12

यस्य ज्यातलशब्देन शरवृष्टिरवेण च ।
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥

8.5.13

यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम् ।
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महारथैः ॥

8.5.14

स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे ।
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥

8.5.15

यो नामन्यत वै नित्यमच्युतं च धनञ्जयम् ।
न वृष्मीन्सहितानन्यान्स्वबाहुबलदर्पितः ॥

8.5.16

शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ ।
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥

8.5.17

इति यः सततं मन्दमवोचल्लोभमोहितम् ।
दुर्योधनमवाचीनं राज्यकामुकमातुरम् ॥

8.5.18

योऽजयत्सर्वकाम्भोजानावन्त्यान्केकयैः सह । गान्धारान्मद्रकान्मात्स्यांस्त्रिगर्तांस्तङ्कणाञ्शकान् ।

8.5.19

पाञ्चालांश्च विदेहांश्च कुलिन्दान्काशिकोसलान् सूह्मानङ्गांश्च वङ्गांश्च निषादान्पुण्ड्रकीकटान् ॥

8.5.20

वत्सान्कलिङ्गान्दरदानश्मकानृषिकानपि ।
शबरान्हारहूणांश्च प्रघूणान्सरलानपि ॥

8.5.21

म्लेच्छराष्ट्राधिपांश्चैव दुर्गानाटविकांस्तथा ।
जित्वैतान्समरे वीरः प्रदीप्तैः कङ्कपत्रिभिः ॥

8.5.22

करमाहारयामास जित्वा सर्वानरींस्तथा । दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः ।
दिव्यास्त्रविमन्हातेजाः कर्णो वैकर्तनो वृषः ॥

8.5.23

सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित् ।
घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः ॥

8.5.24

वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि ।
तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम ॥

8.5.25

उच्चैः श्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः ।
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ॥

8.5.26

योऽजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः ।
दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत् ॥

8.5.27

यं लब्ध्वा मागधो राजा सान्त्वमानोऽथ सौहृदैः ।
अरौत्सीत्पार्थिवं क्षत्रमृते यादवकौरवान् ॥

8.5.28

तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना ।
शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे ॥

8.5.29

तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम् ।
शोकार्णवे निमग्नोऽहमप्लुवः सागरे यथा ॥

8.5.30

ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय ।
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ॥

8.5.31

ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराभवम् ।
को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ॥

8.5.32

विषमग्निं प्रपातं च पर्वताग्रादहं वृणे । महाप्रस्थानगमनं जलं प्रायोपवेशनम् ।
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc