भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.55

8.55.1

प्रत्येत्याथ पुनर्जिष्णुर्जित्वा संशप्तकान्बभौ ।
वक्रानुवक्रगमनादङ्गारक इव ग्रहः ॥

8.55.2

पार्थबाणहता राजन्नराश्वरथकुञ्जराः ।
विचेलुर्बभ्रमुर्नेशुः पेतुर्मम्लुश्च भारत ॥

8.55.3

धुर्यान्धुर्येतरान्सूतान्ध्वजांश्चपासिसायकान् ।
पाणीन्पाणिगताञ्शस्त्रान्बाहूनपि शिरांसि च ॥

8.55.4

भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः ।
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ॥

8.55.5

तं प्रवीरास्त्वदीयानां नर्दमानाऽभिदुद्रुवुः । वासितार्थे युयुत्सन्तो वृषभा वृषभं यथा ।
निपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ॥

8.55.6

तेषां तस्य च तद्युद्धमभवद्रोमहर्षणम् ।
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥

8.55.7

तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः ।
उग्रायुधस्य तस्याशु शिरः कायादपाहरत् ॥

8.55.8

तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् ।
मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे ॥

8.55.9

अस्त्रैरस्त्राणिं संवार्य द्विषतां सर्वतोऽर्जुनः ।
सम्यगस्तैः शरैः सर्वानहितानहनद्बहून् ॥

8.55.10

छिन्नत्रिवेणुजङ्घेषान्हताश्वान्हतसारथीन् ।
विस्रस्तहस्ततूणीरान्विचक्रथकेतनान् ॥

8.55.11

सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् ।
विध्वस्तसर्वसन्नाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ॥

8.55.12

ते रथास्तत्र विध्वस्ताः परार्द्व्या भान्त्यनेकशः ।
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ॥

8.55.13

द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः ।
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ॥

8.55.14

अनेकैश्च शिलाधौतैर्वज्रानलविषोपमैः ।
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ॥

8.55.15

सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः ।
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥

8.55.16

नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना ।
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ॥

8.55.17

महार्हवर्माभरणा नानारूपाम्बरायुधाः ।
सरथाश्वद्विपा वीरा हताः पार्थेन शेरते ॥

8.55.18

निर्भयाः पुण्यकर्माणो विशिष्टाभिजनश्रुताः ।
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ॥

8.55.19

अथार्जुनरथं वीरास्त्वदीयाः समभिद्रवन् ।
नानाजनपदाध्यक्षाः सगणा जातमन्यवः ॥

8.55.20

उह्यमना रथाश्वेभैः पत्तयश्च जिघांसवः ।
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ॥

8.55.21

तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः ।
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ॥

8.55.22

साश्वपत्तिद्विपरथं महाशस्त्रौघसम्प्लवम् ॥
सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥

8.55.23

अथाब्रवीद्वासुदेवः पार्थ किं क्रीडसेऽनघ ।
संशप्तकान्प्रमथ्यैनांस्ततः कर्णवधे त्वर ॥

8.55.24

तथेत्युक्त्वाऽर्जुनः कृष्णं शिष्टान्संशप्तकांस्तदा ।
क्षपयिष्यंस्तदा बाणैर्दैत्यानिन्द्र इवावधीत् ॥

8.55.25

आददत्सन्दधन्नेषृन्दृष्टः कैश्चिद्रणेऽर्जुनः ।
विमुञ्चन्वा शराञ्शीघ्रं दृश्यन्ते वै नरा हताः ॥

8.55.26

आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् ।
हंसांशुगौरास्ते सेनां हंसाः सर इवाविशन् ॥

8.55.27

ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये ।
अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ॥

8.55.28

एष पार्थ महारौद्रो वर्तते भरतक्षयः ।
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥

8.55.29

पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् ।
हतानामपविद्धानि कलापानिषुधींस्तथा ॥

8.55.30

जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः ।
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ॥

8.55.31

आकीर्णांस्तोमरान्वाहांश्छत्रान्हेमविभूषितान् ।
चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत ॥

8.55.32

सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ।
जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः ॥

8.55.33

जातरूपमयीश्चर्ष्टीः पट्टसान्हेमभूषितान् ।
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वथान् ॥

8.55.34

परिघान्भिण्डिपालांश्च भुशुण्डीः कणपानपि ।
अयस्कुन्तांश्च पतितान्मुसलानि गुरूणि च ॥

8.55.35

नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः ।
जीवन्त इव दृश्यन्ते गतसत्वास्तरस्विनः ॥

8.55.36

गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् ।
गजवाजिरथैः क्षुण्णान्पश्य योधान्सहस्रशः ॥

8.55.37

मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः ।
निस्त्रिंशैः पट्टसैः प्रासैर्नखरैर्लगुडैरपि ॥

8.55.38

शरीरैर्बहुघा छिन्नैः शोणितौघपरिप्लुतैः ।
गतासुभिरमित्रघ्न संवृता रणभूमयः ॥

8.55.39

बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः ।
सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ॥

8.55.40

साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्वैरलङ्कृतैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥

8.55.41

बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः ।
निकृत्तैर्वृषभाक्षाणां शरीरैश्चापि सङ्घशः ॥

8.55.42

गजवाजिमनुष्याणां शरशक्त्यृष्टितोमरैः । कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः ।
भूर्भाति भरतश्रेष्ठ शान्ताग्निभिरिवाध्वरे ॥

8.55.43

रथांश्च बहुधा भग्नान्हेमकिङ्किणिनः शुभान् ।
अश्वांश्च बुहधा पश्य शोणितेन परिप्लुतान् ॥

8.55.44

अनुकर्षानुपासङ्गान्पताका विविधान्ध्वजान् । योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् ।
निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ॥

8.55.45

वैजयन्तीर्विचित्राश्च हतांश्च गजयोधिनः ।
वारणानां परिस्तोमान्संयुक्तानेककम्बलान् ॥

8.55.46

विपाटितविचित्राश्च रूपचित्राः कुथास्तथा ।
भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ॥

8.55.47

वैदूर्यमणिदण्डांश्च पतितांश्चाङ्कुशान्भुवि ।
अश्वानां च युगापीडान्रत्नचित्रानुरश्छदान् ॥

8.55.48

विद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कुथाः ।
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् ॥

8.55.49

अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि । चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः ।
छत्राणि चापविद्धानि चामरव्यजनानि च ॥

8.55.50

चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः । क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ।
वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् ॥

8.55.51

सजीवांश्च नरान्पश्य कूजमानान्समन्ततः । उपास्यमानांश्च बहून्न्यस्तशस्त्रैश्च भूपते ।
ज्ञातिभिश्च जलक्लिन्नान्रोदमानैर्मुहुर्मुहुः ॥

8.55.52

उत्क्रान्तानपरान्योधाञ्छादयित्वा तरस्विनः ।
पुनर्युद्धाय गच्छन्ति जये लुब्धाः प्रमन्यवः ॥

8.55.53

अपरे तत्रतत्रैव परिधावन्ति मानवाः ।
सन्निवृत्ताश्च ते शूरा दृष्टा चैतान्विचेतसः ॥

8.55.54

जलं त्यक्त्वा प्रधावन्ति क्रोशमानाः परस्परम् ।
जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ॥

8.55.55

परिष्वज्य प्रियानन्ये बान्धवान्बन्धुवत्सलाः ।
विसञ्ज्ञान्समरे योधांस्तत्रतत्र महारणे ॥

8.55.56

पश्यापरान्नरश्रेष्ठ सन्दष्टोष्ठपुटान्पुनः ।
भृकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्महारणम् ॥

8.55.57

एतत्तवैवानुरूपं कर्मार्जुन महाहवे ।
दिवि वा देवराजस्य त्वया यत्कृतमाहवे ॥
सञ्जय उवाच ।

8.55.58

एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने ।
गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ॥

8.55.59

शङ्खदुन्दुभिनिर्घोषं भेरीपणवनिःस्वनम् ।
रथाश्वनरनागानां पादशब्दांश्च दारुणान् ॥

8.55.60

प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगितैः ।
पाण्ड्येनाभ्यर्दितं सैन्यं त्वदीयं वीक्ष्य विस्मितः ॥

8.55.61

स हि नानाविधैर्बाणैरिष्वस्त्रप्रवरो युधि ।
न्यहनद्द्विषतां पूगान्गतासूनन्तको यथा ॥

8.55.62

गजवाजिमनुष्याणां शरीराणि शितैः शरैः ।
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूनपातयत् ॥

8.55.63

शत्रुप्रवीरैरस्त्राणि नानाशस्त्राणि सायकैः ।
छित्त्वा तानवधीच्छत्रून्पाण्ड्यः शक्र इवासुरान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc