भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.54

8.54.1

अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः ।
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥

8.54.2

निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् ।
वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥

8.54.3

मागधोऽसावतिक्रान्तो द्विरदेन प्रमाथिना ।
भगदत्तादनवमः शिक्षया च बलेन च ॥

8.54.4

एनं हत्वा निहन्ताऽसि पुनः संशप्तकानिति ।
वाक्यान्ते प्रापयत्पार्थं दण्डधारगजं प्रति ॥

8.54.5

स मागधानां प्रवरो महाबलो-- शुभग्रहो योधगणैः समन्वितः ।
सपत्नसेनां प्रममाथ दारुणो भीमं समग्रां बलवानिव ग्रहम् ॥

8.54.6

सुकल्पितं दानवनागसन्निभं महाभ्रनिर्हादसमस्वनं रणे ।
समास्थितो नागवरं नरेश्वरो रथाश्वमातङ्गनरप्रमाथिनम् ॥

8.54.7

स नागयन्तॄन्समरे महारथा-- न्सपत्तिसङ्घांस्तुरगान्ससादिनः ।
द्विपांश्च बाणैर्निजघान वीर्यवा-- न्समन्ततो घ्नन्निव कालचक्रवत् ॥

8.54.8

नरांस्तु कांस्यायसवर्मभूषणा-- न्निपात्य साश्वानपि पत्तिभिः सह ।
व्यपोथयद्दन्तिवरेण शुष्मिणा सशब्दवत्स्थूलनलं यथा तथा ॥

8.54.9

अथार्जुनो ज्यातलनेमिनिःस्वने मृदङ्गभेरीबहुशङ्खनादिते ।
रथाश्वमातङ्गसहस्रनादिते रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥

8.54.10

ततोऽर्जुनं द्वादशभिः शरोत्तमै-- र्जनार्दनं षोडशभिः समार्पयत् ।
स दण़्डधारस्तुरगांस्त्रिभिस्त्रिभि--- स्ततो ननाद प्रजहास चासकृत् ॥

8.54.11

ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलङ्कृतम् ।
पुनर्नियन्तॄन्सहपादगोप्तृभि-- स्ततः स चुक्रोध गिरिव्रजेश्वरः ॥

8.54.12

ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यरंहसा ।
अतीव चुक्रोधयिषुर्जनार्दनं घनञ्जयं चाभिजघान तोमरैः ॥

8.54.13

अथास्य बाहू द्विपहस्तसन्निभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः ।
क्षुरैः प्रचिच्छेद सहैव पाण्डव-- स्ततो द्विपं बाणशतैः समर्पयत् ॥

8.54.14

स पार्थबाणैस्तपनीयभूषणैः समावृतः काञ्चनवर्मभृद्द्विपः ।
भृशं चकाशे निशि पर्वतो यथा दावाग्निना प्रज्वलितौषधिद्रुमः ॥

8.54.15

स वेदनार्तोऽम्बुदनिस्वनो नदं-- श्चरन्भ्रमन्प्रस्स्वलितान्तरोऽद्रवत् ।
पपात रुग्णः सनियन्तृकस्तथा ॥ यथा गिरिर्वज्रविदारितस्तथा ॥

8.54.16

हिमावदानेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना ।
हते रणे भ्रातरि दण्ड आव्रज-- ज्जिघांसुरिन्द्रावरजं धनञ्जयम् ॥

8.54.17

सतोमरैरर्करप्रभैस्त्रिभि-- र्जनार्दनं पञ्चभिरर्जुनं शितैः ।
समर्पयित्वा विननाद चार्दयं-- स्ततोऽस्य बाहू निचकर्त पाण्डवः ॥

8.54.18

क्षुरप्रकृत्तौ विपुलौ सतोमरौ शुभाङ्गदौ चन्दनरूषितौ भुजौ ।
गजात्पतन्तौ युगपद्विरेजतु-- र्यथोरगौ पर्वतशृङ्गवन्महीम् ॥

8.54.19

अथाऽर्धचन्द्रेण हतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात् ।
स शोणितार्द्रो निपतन्विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥

8.54.20

अथ द्विपं श्वेतनगाग्रसन्निभं दिवाकरांशुप्रतिमैः शरोत्तमैः ।
बिभेद पार्थः स पपात नादयन् हिमाद्रिकूटं कुलिशाहतं यथा ॥

8.54.21

ततोऽपरं तत्प्रतिमा गजोत्तमा जिगीषवः संयति सव्यसाचिना ।
तथा कृतास्तेऽपि यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥

8.54.22

गजा रथाश्वाः पुरुषाश्च सङ्घशः परस्परघ्नाः परिपेतुराहवे ।
परस्परं प्रस्खलिताः समाहता भृशं च तत्तद्बहुभाषिणो हताः ॥

8.54.23

अथार्जुनं स्वे परिवार्य सैनिकाः पुरन्दरं देवगणा इवाब्रुवन् ।
अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वया रिपुः ॥

8.54.24

न चेत्परित्रास्यदिमाञ्जनान्भया-- द्द्विषद्भिरेवं बलिभिः प्रपीडितान् ।
तथाऽभविष्यद्द्विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिसूदन ॥

8.54.25

इतीव भूयश्च सुहृद्भिरीडिता निशम्य वाचः सुमनास्तदाऽर्जुनः ।
यथाऽनुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसङ्घहा पुनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc