भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.31

8.31.1

दृष्ट्वा कर्णं महावीर्यं युयुत्सं समवस्थितम् ।
चुक्रुशुः कुरवः सर्वे हृष्टरूपाः समन्ततः ॥

8.31.2

ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च । कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।
निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम् ॥

8.31.3

प्रयाते तु ततः कर्णे रथेषु मदितेषु च ।
चचाल च मही सर्वा ररास च सुविस्वरम् ॥

8.31.4

निःसरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः ॥

8.31.5

उल्कापाताश्च सञ्जज्ञुर्दिग्दाहाश्चैव दारुणाः ।
तथाऽशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः ॥

8.31.6

मृगपक्षिगणाश्चैव पृतनां बहुशस्तव ।
अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम् ॥

8.31.7

प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।
अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ॥

8.31.8

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।
अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते ॥

8.31.9

एते चान्ये च बहव उत्पातास्तत्र मारिष ।
समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ॥

8.31.10

न च तान्गणयामासुः सर्वे दैवेन मोहिताः ।
प्रस्थितं सूतपुत्रं च जयेत्सूचुर्नराधिपाः ॥

8.31.11

शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम् ।
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥

8.31.12

ततो रथस्थः परवीरहन्ता भीष्मद्रोणवतिवीर्यौ समीक्ष्य ।
समुज्ज्वलन्भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषा ॥

8.31.20

अलं मनुष्यस्य सुखाय वर्तितुं तथाहि युद्वे निहतः परैर्गुरुः ॥

8.31.21

हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरन्दरोपमम् ॥
नये ब-हस्पत्युशनःसमं सदा न चैनमस्त्रं तदुपास्त दुःसहम् ॥

8.31.22

सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।
कृत्यं मया नाद्य जानामि शल्य प्रयाहि तस्माद्द्विषतामनीकम् ॥

8.31.23

स यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च ।
स वासुदेवः सात्यकिः सृञ्जयाश्च यमौ च कस्तान्विषहेन्मदन्यः ॥

8.31.24

तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।
तान्वा हनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय ॥

8.31.25

न त्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति शल्याद्य विद्वि ।
मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥

8.31.26

प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसन्निभस्य ।
अतो विद्वन्नभियोत्स्यामि पार्थं दिष्टं न शक्यं व्यतिवर्तितुं वै ॥

8.31.27

कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत् ।
तस्यार्थसिद्व्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च ॥

8.31.28

वैयाघ्रचर्माणमकूजनाक्षं हैमं त्रिकोशं रजतत्रिवेणुम् ।
रथप्रबर्हं तुरगप्रबार्है-- र्युक्तं प्रादान्मह्यमिमं हि रामः ॥

8.31.29

धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजान्गदाः सायकांश्चोग्ररूपान् ।
असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥

8.31.30

पताकिनं वज्रनिपातनिः स्वनं सिताश्वयुक्तं शुभतूणशोभितम् ।
इमं समास्थाय रथर्षभं रणे दृढं हनिष्याम्यहमर्जुनं बलात् ॥

8.31.31

तं चेन्मृत्युः सर्वहरोऽभिरक्षे-- त्सदाऽप्रमत्तः समरे पाण्डुपुत्रम् ।
तं वा हनिष्यामि रणे समेत्य यास्यामि वा द्रोणमुखो यमाय ॥

8.31.32

यमवरुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे ।
जुगुपुरिह समेत्य फल्गुनं किमु बहुना सह तैर्जयामि तम् ॥
सञ्जय उवाच ।

8.31.33

इति रणरभसस्य कत्थत-- स्तदुपनिशम्य वचः स मद्रराट् ।
अवहसदवमन्य वीर्यवान् प्रतिषिषिधे च जगाद चोत्तरम् ॥
शल्य उवाच ।

8.31.34

विरम विरम कर्ण कत्थना-- दतिरभसोऽप्यतिवाचमुक्तवान् ।
क्व च हि नरवरो धनञ्जयः क्व पुनरिह त्वमहो नराधमः ॥

8.31.35

यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम् ।
प्रसभमतिविलोड्य को हरे-- त्पुरुषवरावरजामृतेऽर्जुनात् ॥

8.31.36

त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि ।
मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः ॥

8.31.37

असुरसुरमहोरगान्नरान् गरुडपिशाचसयक्षराक्षसान् ।
इषुभिरजयदग्निगौरवात् स्वभिलषितं च हविर्ददौ जयः ॥

8.31.38

स्मरसि ननु यदा परैर्हृतः सहधृतराष्ट्रसुतो विमोक्षितः ।
अधिरथज नरोत्तमैर्युतान् कुरुषु बहून्विनिहत्य तानरीन् ॥

8.31.39

प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः ।
स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥

8.31.40

समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे ।
सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः ॥

8.31.41

इदमपरमुपस्थितं पुन-- स्तव निधनाय सुयुद्वमद्य वै ।
यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज ॥
सञ्जय उवाच ।

8.31.42

इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् ।
भृशमभिरुषितः सरन्तपः कुरुपृतनापतिराह मद्रपम् ॥
कर्ण उवाच ।

8.31.43

भवतु भवतु किं विकत्थसे ननु मर्म तस्य हि युद्धमुद्यतम् ।
यदि स जयति मामिहाहवे तत इदमस्तु सुकत्थितं तव ॥
सञ्जय उवाच ।

8.31.44

एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।
याहि शल्येति चाप्येनं कंर्णः प्राह युयुत्सया ॥

8.31.45

स रथः प्रययौ शत्रून्निघ्नतः शल्यसारथिः ।
निघ्नन्नमित्रान्समरे तमोघ्नः सविता यथा ॥

8.31.46

ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः ।
स चालोक्य ध्वजिनीं पाण्डवानां धनञ्जयं त्वरया पर्यपृच्छत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc