भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 8.30

8.30.1

अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति ।
कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः ॥

8.30.2

यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः ।
शल्यस्तथा तवाद्यायं संयन्ता रथवाजिनाम् ॥

8.30.3

योधे त्वयि रथस्थे च मद्रराजे च सारथौ ।
रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थानभिभविष्यति ॥
सञ्जय उवाच ।

8.30.4

ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् ।
उवाच राजन्सङ्ग्रामेऽध्युषिते पर्युपस्थिते ॥

8.30.5

कर्णस्य यच्छ सङ्ग्रामे मद्रराज हयोत्तमान् ।
त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम् ॥

8.30.6

इत्युक्तो रथमास्थाय तथेति प्राह भारत ।
शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत् ॥

8.30.7

त्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ॥

8.30.8

ततो जैत्रं रथवरं गन्धर्वनगरोपमम् ।
विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत् ॥

8.30.9

तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि ।
सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा ॥

8.30.10

कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् ।
समीपस्थं मद्रराजमारोह त्वमथाब्रवीत् ॥

8.30.11

ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् ।
आरुरोह महातेजाः शल्यः सिंह इवाचलम् ॥

8.30.12

ततः शल्याश्रितं दृष्ट्वा कर्णः स्वं रथमुत्तमम् ।
अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः ॥

8.30.13

तावेकरथमारूढावादित्याग्निसमत्विषौ ।
अभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ॥

8.30.14

संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तमौ ।
ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्यरे ॥

8.30.15

स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितो बभौ ।
धनुर्विष्फारयन्घोरं परिवेषीव भास्करः ॥

8.30.16

आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् ।
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ॥

8.30.17

तं रथस्थं महाबाहुं युद्वायामिततेजसम् ।
दुर्योधनस्तु राधेयमिदं वचनमब्रवीत् ॥

8.30.18

अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे ।
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ॥

8.30.19

मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ ।
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ॥

8.30.20

ताभ्यां यदकृतं वीर वीरकर्म महामृधे ।
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ॥

8.30.21

गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् ।
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ॥

8.30.22

जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ ।
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ॥

8.30.23

ततस्तूर्यसहस्राणि भेरीणामयुतानि च ।
वाद्यमानान्यरोचन्त मेघशब्दो यथा दिवि ॥

8.30.24

प्रतिगृह्य तु तद्वाक्यं रथस्थो रथरुत्तमः ।
अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ॥

8.30.25

चोदयाश्वान्महाबाहो यावद्वन्मि धनञ्जयम् ।
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ॥

8.30.26

अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः ।
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ॥

8.30.27

अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् ।
पाण्डवानां विनाशाय दुर्योधनजयाय च ॥
सञ्जय उवाच ।

8.30.28

एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत् ।
कथं नु तान्महावीर्यान्पाण्डवानवमन्यसे ॥

8.30.29

सर्वास्त्रज्ञान्महेष्वासान्सर्वानेन महाबलान् । अनिवर्तिनो महाभागानजय्यान्सत्यविक्रमान् ।
अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः ॥

8.30.30

यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः ।
राधेय पार्थधनुषस्तदा नैवं वदिष्यसि ॥

8.30.31

यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे ।
विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि ॥

8.30.32

यदा द्रक्ष्यसि सङ्ग्रामे धर्मपुत्रं यमौ तथा ।
शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे ॥

8.30.33

अस्यतः क्षिण्वतश्चारीँल्लघुहस्तान्दुरासदान् ।
पार्थिवागपि चान्यांस्त्वं तदा नैवं वदिष्यसि ॥
सञ्जय उवाच ।

8.30.34

अनादृत्य तु तद्वाक्यं मद्रराजे भाषितम् ।
द्रक्ष्यस्यद्येत्यवोचत्तं शल्यं कर्णो जनेश्वर ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc