भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.89

7.89.1

चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः ।
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥
सञ्जय उवाच ।

7.89.2

एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥

7.89.3

स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः ।
एकस्य च बहूनां च रथनागनरक्षयः ॥

7.89.4

ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।
परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥

7.89.5

ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् ।
अवाकिरन्बाणजालैस्तत्र कृष्णधनञ्जयौ ॥

7.89.6

ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि ।
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥

7.89.7

उद्धान्तनयनैर्वक्रैः सन्दष्टौष्ठपुटैः शुभैः ।
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥

7.89.8

पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।
विनिकीर्णानि योधानां वदनानि चकाशिरे ॥

7.89.9

सुवर्णचित्राभरणाः संसिक्ता रुधिरेण च ।
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥

7.89.10

शिरसां पततां राजञ्शब्दोऽभूद्वसुधातले ।
कालेन परिपक्वानां तालानां पततामिव ॥

7.89.11

कबन्ध उत्थितः कश्चिद्विष्फार्य सशरं धनुः । किञ्चित्खङ्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ।
गृहीत्वाऽन्यस्य केशेषु शिरो नृत्यति चापरः ॥

7.89.12

पतितानि न जानन्ति शिरांसि पुरुषर्षभाः ।
अमृष्यमाणाः सङ्ग्रामे कौन्तेयं जयगृद्धिनः ॥

7.89.13

हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी ।
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥

7.89.14

अयं पार्थः कुतः पार्थः पार्थोऽयमिति सर्वशः । तिष्ठ पार्थेहि मां पार्थ क्व यासीति च जल्पताम् ।
तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥

7.89.15

अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे ।
पार्थभूतममन्यन्त जनाः कालेन मोहिताः ॥

7.89.16

निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः ।
शयाना बहवो वीराः कीर्तयन्तः स्वबान्धवान् ॥

7.89.17

सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वथाः ।
सनिर्व्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥

7.89.18

सबाणवर्माभरणाः सगदाः साङ्गदा रणे ।
महाभुजगसङ्काशा बाहवः परिघोपमाः ॥

7.89.19

उद्वेष्टन्ति विचेष्टन्ति सञ्चेष्टन्ति च सर्वशः ।
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥

7.89.20

यो यः स्म समरे पार्थं प्रतिसञ्चरते नरः ।
तस्यतस्यान्तको बाणः शरीरमुपसर्पति ॥

7.89.21

नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा ।
न कश्चित्तत्र पार्थश्च ददृशेऽन्तरमण्वपि ॥

7.89.22

यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् ।
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥

7.89.23

हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च ।
अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ॥

7.89.24

आवर्तमानमावृत्तं युध्यमानं च पाण्डवः ।
प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ॥

7.89.25

यथोदयन्वै गगने सूर्यो हन्ति महत्तमः ।
तथाऽर्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥

7.89.26

हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत ।
अन्तकाले यथा भूमिर्व्यवकीर्णा महीधरैः ॥

7.89.27

यथा मध्यन्दिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा ।
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥

7.89.28

तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप ।
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥

7.89.29

मारुतेनेव महता मेघानीकं व्यदीर्यत ।
प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥

7.89.30

प्रतोदैश्चापकोटीभिर्हुन्कारैः साधुवाहितैः ।
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥

7.89.31

चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः ।
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥

7.89.32

पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागं चोदयन्तस्तथाऽपरे ।
शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः ॥

7.89.33

तव योघ हतोत्साहा विभ्रान्तमनसस्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc