भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.88

7.88.1

व्यूढेषु तव सैन्येषु समुत्क्रुष्टेषु मारिष ।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥

7.88.2

अनीकानां च संह्रादे वादित्राणां च निःस्वने ।
प्रध्मापितेषु शङ्खेषु सन्नादे रोमहर्षणे ॥

7.88.3

प्रगृहीतेषु शस्त्रेषु भारतेषु युयुत्सुषु ।
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ॥

7.88.4

बलानां वायसानां च पुरस्तात्सव्यसाचिनः ।
पिशितासृग्भुजां सङ्घाः प्रलीयन्ते सहस्रशः ॥

7.88.5

मृगाश्च घोरसन्नादः शिवाश्चाशिवदर्शनाः ॥
दक्षिणेन प्रयातानामस्माकं नेदुरध्वनि ॥

7.88.6

लोकक्षये महाराज यादृशास्तादृशा हि ते ।
अशिवा धार्तराष्ट्राणां शिवाः पार्थस्य संयुगे ॥

7.88.7

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः ।
चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥

7.88.8

विष्वग्वाताः सनीहारा रूक्षाः शर्करकर्षिणः ।
ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते ॥

7.88.9

नाकुलिश्च शतानीको धृष्टद्युम्नश्च पार्षतः ।
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥

7.88.10

ततो रथसहस्रेण द्विरदानां शतेन च ।
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥

7.88.11

अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव ।
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥

7.88.12

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥

7.88.13

अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् ।
विषक्तं मयि दुर्धर्षं भिन्नं कुम्भमिवाश्मनि ॥

7.88.14

तिष्ठध्वं रथिनो यूयं सङ्ग्राममभिकाङ्क्षिणः ।
युध्यामि संहतानेतान्यशो मानं च वर्धयन् ॥

7.88.15

एवं ब्रुवन्महाराज महात्मा स महीपतिः ।
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ॥

7.88.16

ततोऽर्जुनो महाराज महात्मा महतां पतिः ।
महारथसमाख्यातो महेष्वासो व्यवस्थितः ॥

7.88.17

कक्षाग्निरिव दुःस्पर्शः सवज्र इव वासवः ।
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥

7.88.18

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव ।
युगान्ताग्निरिवार्चिष्मान्दिधक्षुः स्थास्नुजङ्गमम् ॥

7.88.19

क्रोधामर्षबलोद्धूतो निवातकवचान्तकः ।
युद्धे जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥

7.88.20

आमुक्तकवचः खङ्गी जाम्बूनदकिरीटभृत् ।
शुभ्रमाल्याम्बरधरः स्वङ्गदश्चारुकुण़्डलः ॥

7.88.21

रथप्रवरमास्थाय नरो नारायणानुगः ।
विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ॥

7.88.22

अग्रानीकस्य सोऽध्यर्ध इषुपाते धनञ्जयः ।
व्यवस्थाप्य रथं राजञ्शङ्खं दध्मौ प्रतापवान् ॥

7.88.23

अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष ।
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥

7.88.24

तयोः शङ्खप्रणादेन तव सैन्ये विशाम्पते ।
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥

7.88.25

यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात् ।
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥

7.88.26

प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः ।
एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥

7.88.27

सीदन्ति स्म नरा राजञ्शङ्खशब्देन मारिष ।
विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥

7.88.28

ततः कपिर्महानादं सहभूतैर्ध्वजालयैः ।
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥

7.88.29

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥

7.88.30

नानावादित्रसंहादैः क्ष्वेडितास्फोटिताकुलैः ।
सिंहनादैः समुत्क्रुष्टैः समाधूतैर्महारथैः ॥

7.88.31

तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने ।
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc