भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.87

7.87.1

तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः ।
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥

7.87.2

शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम् ।
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥

7.87.3

विष्फार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च ।
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः ॥

7.87.4

विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान् ।
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः ॥

7.87.5

चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षिताः ।
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥

7.87.6

सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः । समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ।

7.87.7

अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः ।
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥

7.87.8

नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः ।
सङ्ग्राममनसः शूरास्तत्रतत्र व्यवस्थिताः ॥

7.87.9

क्वार्जुनः क्व स गोविन्दः क्व च मानी वृकोदरः ।
क्व च ते सुहृदस्तेषामाह्वयन्ते रणे तदा ॥

7.87.10

ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम् ।
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः ॥

7.87.11

तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु ।
भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥

7.87.12

त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः ।
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥

7.87.13

शतं चाश्वसहस्राणां रथानामयुतानि षट् ।
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥

7.87.14

पदातीनां सहस्राणि दंशितान्येकविंशतिः ।
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत ॥

7.87.15

तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः ।
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥
सञ्जय उवाच ।

7.87.16

एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः । सम्प्रायात्सहगान्धारैर्वृतस्तैश्च महारथैः ।
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिहयस्थितैः ॥

7.87.17

चामरापीडिनः सर्वे जाम्बूनदविभूषिताः ।
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ॥

7.87.18

ते चैकसप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः ॥

7.87.19

मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः ।
हस्तिनां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥

7.87.20

अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव ।
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः ॥

7.87.21

ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ ।
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥

7.87.22

दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्चविस्तृतः ।
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः ॥

7.87.23

नानानृपतिभिर्वीरैस्तत्रतत्र व्यवस्थितैः ।
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥

7.87.24

पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः पुनः कृतः ।
सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः ॥

7.87.25

एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः ।
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥

7.87.26

अनन्तरं च काम्भोजो जलसन्धश्च मारिष ।
दुर्योधनश्च कर्णश्च तदनन्तरमेव च ॥

7.87.27

ततः शतसहस्राणि योदानानमनिवर्तिनाम् ।
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम् ॥

7.87.28

तेषां च पृष्ठतो राजा बलेन महता वृतः ।
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः ॥

7.87.29

शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः ।
नात्र तस्याभवद्भोदो जुगोपैनं ततः स्वयम् ॥

7.87.30

श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः । धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः ।
तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान् ॥

7.87.31

ताकिनं शोणहयं वेदीकृष्णाजिनध्वजम् ।
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥

7.87.32

सिद्धचारणसङ्घानां विस्मयः सुमहानभूत् ।
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥

7.87.33

सशैलसागरवनां नानाजनपदाकुलाम् ।
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥

7.87.34

बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिःस्वनमद्भुतानुरूपम् ।
अहितहृदयभेदनं महद्वै शकटमवेक्ष्य कृतं ननन्द राजा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc