भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.57

7.57.1

अङ्गं च पौरवं वीरं मृतं सृञ्जय शुश्रुम ।
सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत् ॥

7.57.2

तस्याश्वमेधे राजर्षेर्देशाद्देशात्समीयुषाम् ।
शिक्षाक्षरविधिज्ञानां नासीत्सङ्ख्या विपश्चिताम् ॥

7.57.3

वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः ।
सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः ॥

7.57.4

नटनर्तकगन्धर्वैः पूर्णकैर्वर्धमानकैः ।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः ॥

7.57.5

यज्ञे यज्ञे यथाकालं दक्षिणाः सोऽत्यकालयत् ।
द्विपान्दशसहस्राख्यानदात्काञ्चनसंवृतान् ॥

7.57.6

यः सहस्रं सहस्राणि कन्या हेमविभूषिताः ॥ धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः ।

7.57.7

शतं शतसहस्राणि स्वर्णमालानथर्षभान् ॥ गवां सहस्रानुचरान्दक्षिणामत्यकालयत् ।

7.57.8

हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः ॥ दासीदासखरोष्ट्रांश्च प्रादादाजाविकं बहु ।

7.57.9

रत्नानां विविधानां च विविधांश्चान्नपर्वतान् ॥ तस्मिन्संवितते यज्ञे दक्षिणामत्यकालयत् ।

7.57.10

तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ॥ अङ्गस्य यजमानस्य अपि विष्णुपदे वयम् ।

7.57.11

अमाद्यदिन्द्रुः सोमेन दक्षिणाभिर्द्विजातयः ।
देवमानुषगन्धर्वांश्चात्यरोचन्त दक्षिणाः ॥

7.57.12

अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः ।
गुणोत्तरास्तु क्रतवस्तस्यासन्सार्वकामिकाः ॥

7.57.13

स चेन्ममार सृञ्जय चतुर्भद्रतस्त्वया । पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc