भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.52

7.52.1

एवं विलपमाने तु कुन्तीपुत्रे युधिष्ठिरे ।
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः ॥

7.52.2

अथ दृष्ट्वा महात्मानं पाण्डुपुत्रो युधिष्ठिरः ।
युक्तासनो दीनमनाः पूजां चक्रे महात्मनः ॥

7.52.3

अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः ।
अब्रवीच्छोकसन्तप्तो भ्रातुः पुत्रवधेन च ॥

7.52.4

अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः ।
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे ॥

7.52.5

बालश्च बालबुद्धिश्च वीरश्च परवीरहा ।
अनुपायेन सङ्ग्रामे युध्यमानो विनाशितः ॥

7.52.6

मया प्रोक्तः स सङ्ग्रामे द्वारं सञ्जनयस्व नः ।
प्रविष्टेऽभ्यन्तरे तस्मिन्सैन्धवेन निवारिताः ॥

7.52.7

ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः ।
इदं चैवासमं युद्धमीदृशं यत्कृतं परैः ॥

7.52.8

तेनास्मि भृशसन्तप्तः शोकबाष्पसमाकुलः ।
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः ॥
सञ्जय उवाच ।

7.52.9

तं तथा विलपन्तं वै शोकव्याकुलमानसम् ।
उवाच सान्त्वयन्व्यासो युधिष्ठिरमिदं वचः ॥
व्यास उवाच ।

7.52.10

युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ ॥

7.52.11

स्वर्गमेष गतः शूरः शत्रून्हत्वा बहून्रणे ।
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः ॥

7.52.12

अनतिक्रमणीयो वै विधिरेष युधिष्ठिर ।
देवदानवगन्धर्वान्मूत्युर्हरति भारत ॥
युधिष्ठिर उवाच ।

7.52.13

इमे वै पृथिवीपालाः शेरते पृथिवीतले ।
निहताः पृतनामध्ये मृतसञ्ज्ञा महाबलाः ॥

7.52.14

नागायुतबलाश्चान्ये वायुवेगबलास्तथा ।
त एते निहताः सङ्ख्ये तुल्यरूपा नरैर्नराः ॥

7.52.15

नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित् ।
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः ॥

7.52.16

जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम् ।
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः ॥

7.52.17

मृता इति च शब्दोयं वर्तते च ततोऽर्थवत् ।
इमे मृता महीपालाः प्रायशो भीमविक्रमाः ॥

7.52.18

निश्चेष्टा निरभीमानाः शूराः शत्रुवशन्गताः ।
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः ॥

7.52.19

अत्र मे संशयः प्राप्तः कुतः सञ्ज्ञा मृता इति । कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः ।
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह ॥
सञ्जय उवाच ।

7.52.20

तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम् ।
आश्वासनमिदं वाक्यमुवाच भगवानृषिः ॥
व्यास उवाच ।

7.52.21

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अकम्पनस्य कथितं नारदेन पुरा नृप ॥

7.52.22

स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम् ।
अप्रसह्यतमं लोके प्राप्तवानिति नः श्रुतम् ॥

7.52.23

तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम् ।
ततस्त्वं मोक्ष्यसे दुःखात्स्नेहबन्धनसंश्रयात् ॥

7.52.24

समस्तपापराशिघ्नं शृणु कीर्तयतो मम ।
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम् ॥

7.52.25

पवित्रमरिसङ्घघ्नं पङ्गलानां च मङ्गलम् ।
यथैव वेदाध्ययनमुपाख्यानमिदं तथा ॥

7.52.26

श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः ।
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा ॥

7.52.27

पुरा कृतयुगे तात आसीद्राजा ह्यकम्पनः । स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि ।
योधयामास बलवान्बद्धश्चासीदकम्पनः ॥

7.52.28

तस्य पुत्रो हरिर्नाम नारायणसमो बले ।
श्रीमान्कृतास्त्रो मेधावी युधि शक्रोपमो बली ॥

7.52.29

स दृष्ट्वा पितरं युद्धे तदवस्थं महाद्युतिः ।
अचिन्तयित्वा मरणं शत्रुमध्यं ततोऽविशत् ॥

7.52.30

स शत्रुभिः परिवृतो बहुधा रणमूर्धनि ।
योधयामास तान्सर्वान्सर्वास्त्रकुशलो बली ॥

7.52.31

वर्षन्बाणसहस्राणि शत्रुष्वमितविक्रमः ।
पदातिरथनागाश्वान्प्रममाथ महाबलः ॥

7.52.32

स शरैराचितश्चक्रैर्गदाभिर्मुसलैरपि ।
मृद्गन्रथसहस्राणि पदातीन्वाजिवारणान् ॥

7.52.33

परानीकं विभिद्याजौ मोक्षयित्वा च तं नृपम् ।
पुनरेवाकरोद्युद्धं शत्रुमध्यगतो बली ॥

7.52.34

ततस्ते रथिनः सर्वे समेत्य पुनराहवे ।
जघ्नुस्तं परिवार्यैकं तोमरैरिव कुञ्जरम् ॥

7.52.35

स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः ।
शत्रुभिर्निहतः सङ्ख्ये पृतानायां युधिष्ठिर ॥

7.52.36

द्विषद्भिर्निहतं दृष्ट्वा प्रियं पुत्रमकम्पनः ।
अमर्षजनितक्रोध आहवात्सहसाऽगतः ॥

7.52.37

स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः ।
शोचन्नहनि रात्रौ च नालभत्सुखमात्मनः ॥

7.52.38

तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम् ।
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः ॥

7.52.39

स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम् ।
पूजयित्वा यथान्यायं कथामकथयत्तदा ॥

7.52.40

तस्य सर्वं समाचष्ट यथावृत्तं युधिष्ठिर ।
शत्रुभिर्विजयं सङ्ख्ये पुत्रस्य च वधं तथा ॥
अकम्पन उवाच ।

7.52.41

मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः ।
शत्रुभिर्बहुभिः सङ्ख्ये पराक्रम्य हतो बली ॥

7.52.42

शृणु मे प्राणिनां चापि मृत्युः प्रभवते किल । क एष मृत्युर्भगवन्किंवीर्यबलपौरुषः ।
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर ॥
व्यास उवाच ।

7.52.43

तस्य तद्वचनं श्रुत्वा नारदो वरदः प्रभुः ।
आख्यानमिदमाचष्ट पुत्रशोकापहं महत् ॥
नारद उवाच ।

7.52.44

शृणु राजन्महाबाहो आख्यानं बहुविस्तरम् ।
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥

7.52.45

प्रजाः सृष्टा तदा ब्रह्मा आदिसर्गे पितामहः ।
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः ॥

7.52.46

तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव ।
चिन्तयन्न ह्यसौ देव संहारं वसुधाधिप ॥

7.52.47

तस्य रोषान्महाराज मुखेभ्योऽग्निरजायत ।
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता ॥

7.52.48

ततो दिवं भुवं चैव ज्वालामालासमाकुलम् ।
चारचरं जगत्सर्वं ददाह भगवान्प्रभुः ॥

7.52.49

ततो हतानि भूतानि चराणि स्थावराणि च । महता क्रोधवेगेन त्रासयन्निव वीर्यवान् ।

7.52.50

ततो रुद्रो जटी स्याणुर्निशाचरपतिर्हरः ।
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम् ॥

7.52.51

तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया ।
अब्रवीत्परमो देवो ज्वलन्निव महामुनिः ॥

7.52.52

किं कर्म कामं कामार्ह कामाज्जातोऽसि पुत्रक ।
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc