भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.51

7.51.1

हते तस्मिन्महावीर्ये सौभद्रे रथयूथपे ।
विमुक्तरथसन्नाहाः सर्वे निक्षिप्तकार्मुकाः ॥

7.51.2

उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् ।
तदेव युद्धं ध्यायन्तः सौभद्रगतमानसाः ॥

7.51.3

ततो युधिष्ठिरो राजा विललाप सुदुःखितः । ततो युधिष्ठिरो राजा विललाप सुदुःखितः ।

7.51.4

अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ॥
युधिष्ठिर उवाच ।

7.51.4

एनं जित्वा कृपं शल्यं राजानं च सुयोधनम् ।
द्रोँणं द्रौणिं महेष्वासं तथैवान्यान्महारथान् ॥

7.51.5

द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया ।
हत्वा शत्रुगणान्वीरानेष शेते महारथः ॥

7.51.6

कृतास्त्रयु द्धकुशलान्महेष्वासान्महाबलान् ।
कुलशः पूणैर्युक्ताञ्छूरान्विख्यातपौरुषान् ॥

7.51.7

द्रोणेन र्प्राहेतं व्यूहमभेद्यममरैरपि ।
अदृष्टपूर्वमस्माभिः पद्मं चक्रायुधप्रियः ॥

7.51.8

भित्त्वा मध्यं प्रविष्टोऽसौ गोमध्यमिव केसरी ।
विक्रीडितं रणे तेन निघ्नता वै परान्वरान् ॥

7.51.9

यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे ।
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥

7.51.10

अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः ।
क्षिप्रं ह्यभिमुखः सङ्ख्ये विसञ्ज्ञो विमुखीकृतः ॥

7.51.11

स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् ।
प्राप्य दौःशासनिं कार्ष्णिः प्राप्तो वैवस्वतक्षयम् ॥

7.51.12

कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् ।
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥

7.51.13

हतवत्सां यथा धेनुं तद्दृर्शनकृतोन्मुखीम् । किंस्विद्वक्ष्याम्यपेतार्थमक्लिष्टमसमञ्जसम् ।
तावुभौ प्रतिवक्ष्यामि हृषीकेशधनञ्जयौ ॥

7.51.14

अहमेव सुभद्रायाः केशवार्जुनयोरपि ।
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ॥

7.51.15

न लुब्धो बुध्यते दोषाँल्लोभान्मोहात्प्रवर्तते ।
मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम् ॥

7.51.16

यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च ।
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ॥

7.51.17

कथं हि बालस्तरुणो युद्धानामविशारदः ।
सदश्व इव सम्बाधे विषमे क्षेममर्हति ॥

7.51.18

नो चेद्धि वयमप्येनं महीमनुशयीमहि ।
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥

7.51.19

अलुब्धो मितमान्हीमान्क्षमावान्रूपवान्बली ।
वपुष्मान्मानकृद्वीरः प्रियः सत्यपराक्रमः ॥

7.51.20

यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः ।
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ॥

7.51.21

महेन्द्रशत्रवो येन हिरण्यपुरवासिनः ।
अक्ष्णोर्निमेषमात्रेण पौलोभाः सगणा हताः ॥

7.51.22

परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः ।
तस्यास्माभिर्न शकितस्त्रातुमप्यात्मजो बली ॥

7.51.23

भयं तु सुमहत्प्राप्तं धार्तराष्ट्रान्महाबलान् ।
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ॥

7.51.24

क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयकारकः ।
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितं ॥

7.51.25

न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैः सलोकता ।
इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc