भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.38

7.38.1

तथा प्रमथमानं तं महेष्वासानजिह्मगैः ।
आर्जुनिं मामकाः सङ्ख्ये के त्वेनं समवारयन् ॥
सञ्जय उवाच ।

7.38.2

शृणु राजन्कुमारस्य रणे विक्रीडितं महत् ।
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ॥

7.38.3

मद्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे ।
शल्यादवरजः क्रुद्ध क्रिन्बाणान्समभ्ययात् ॥

7.38.4

स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् ।
उदक्रोशन्महाशब्दं तिष्ठतिष्ठेति चाब्रवीत् ॥

7.38.5

तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् ।
छत्रं ध्वजं नियन्तारं त्रिवेणुं चाप्युपस्करम् ॥

7.38.6

चक्रं युगं च तूणीरं ह्यनुकर्षं सायकैः ।
पताकां चक्रगोप्तारौ सर्वोपकरणानि च ॥

7.38.7

लघुहस्तः प्रचिच्छेद ददृशे तं न कश्चन ।
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः ॥

7.38.8

वायुनेव महाचैत्यः समूलं चित्रवेदिकः ।
अनुगास्तस्य वित्रस्ताः प्राद्रवन्सर्वतो दिशः ॥

7.38.9

आर्जुनेः कर्म तद्दृष्ट्वा सम्प्रणेदुः समन्ततः ।
नादेन सर्वभूतानि साधुसाध्विति भारत ॥

7.38.10

शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः ।
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ॥

7.38.11

अभ्यधावन्त सङ्क्रुद्धा विविधायुधपाणयः ।
रथैरश्वैर्गजैश्चान्ये पद्भिश्चान्ये बलोत्कटाः ॥

7.38.12

बाणशब्देन महता रथनेमिस्वनेन च ।
हुन्कारैः क्ष्वेडितोत्कृष्टैः सिंहनादैः सगर्जितैः ॥

7.38.13

ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् ।
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवितादिति ॥

7.38.14

तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव ।
यो योस्मै प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ॥

7.38.15

सन्दर्शयिष्यन्नस्त्राणि विचित्राणि लघूनि च ।
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ॥

7.38.16

वासुदेवादुपात्तं यदस्त्रं यच्च धनञ्जयात् ।
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषवत् ॥

7.38.17

दूरमस्य गुरुं भारं साध्वसं च पुनः पुनः ।
सन्दधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ॥

7.38.18

चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत ।
सुदीप्तस्य शरत्काले सवितुर्मण्डलं यथा ॥

7.38.19

ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः ।
महाशनिमुचः काले पयोदस्येव निःस्वनः ॥

7.38.20

हीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः ।
सम्मिमानयिषुर्वीरानिष्वस्त्रैश्चाप्ययुध्यत ॥

7.38.21

मृदुर्भूत्वा महाराज दारुणः समपद्यत ।
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ॥

7.38.22

शरान्विचित्रान्सुबहून्रुक्मपुङ्खाञ्शिलाशितान् ।
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ॥

7.38.23

क्षुरप्रैर्वत्सदन्तैश्च विपाठेश्च महायशाः ।
नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि ॥

7.38.24

अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः ।
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc