भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.37

7.37.1

तां प्रभाग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा ।
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥

7.37.2

ततो राजानमावृत्तं सौभद्रं प्रति संयुगे ।
दृष्ट्वा द्रोणोऽब्रवीद्योधान्परीप्सध्वं नराधिपम् ॥

7.37.3

पुराऽभिमन्युर्लक्षं नः पश्यतां हन्ति वीर्यवान् । तमाद्रवत माभैष्ट क्षिप्रं रक्षत कौरवम् ।
सञ्जय उवाच ।

7.37.4

एवमुक्तास्ततस्तेन भारद्वाजेन धीमता । कृतज्ञानबलोत्सेधाः सुहृदो जितकाशिनः ।
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥

7.37.5

द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः ।
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥

7.37.6

पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् ।
सौभद्रं शरवर्षेण महता समवाकिरन् ॥

7.37.7

सम्मोहयित्वा तमथ दुर्योधनममोचयन् ।
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥

7.37.8

ताञ्शरौघेण महता साश्वसूतान्महारथान् ।
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥

7.37.9

तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः ।
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥

7.37.10

त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ॥

7.37.11

तान्यन्तरिक्षे चिच्छेद पौत्रस्ते निशितैः शरैः ।
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥

7.37.12

ततो रथपदात्योघाः कुञ्जराः सादिनश्च ह । कोपितास्तेन शूरेण शरैराशीविषोपमैः ।
परिवब्रुर्जिघांसन्तः सौभद्रमपराजितम् ॥

7.37.13

समुद्रमिव पर्यस्तं त्वदीयं तं बलार्णवम् ।
दधारैकोऽर्जुनिर्बाणैर्वेलेवोद्वृत्तमर्णवम् ॥

7.37.14

शूराणां युध्यमानानां निघ्नतामितरेतरम् ।
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥

7.37.15

तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे ।
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥

7.37.16

दुःशानो द्वादशभिः कृपः शारद्वतस्त्रिभिः ।
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥

7.37.17

विविंशतिस्तु सप्तत्या कृतवर्मा च सप्तभिः ।
बृहद्बलस्तथाऽष्टाभिरश्वत्थामा च सप्तभिः ॥

7.37.18

भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षङ्भिराशुगैः ।
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥

7.37.19

स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः ।

7.37.19

नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥

7.37.20

ततोऽभिमन्युः सङ्क्रुद्धस्त्रास्यमानस्तवात्मजैः ।
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥

7.37.21

गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः ।
अभ्यद्रवत तं कार्ष्णिमश्मकेन्द्रः कृतत्वरः ॥

7.37.22

अश्वाश्चाश्मकमादाय त्वरमाणाऽभ्यहारयन् ।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥

7.37.23

तस्याभिमन्युर्दशभिर्हयान्सूतं ध्वजं शरैः ।
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥

7.37.24

ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे ।
सञ्चचाल बलं सर्वं पलायनपरायणम् ॥

7.37.25

ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट् शलः । शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ।
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः ॥

7.37.26

बृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ।
दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ॥

7.37.27

सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः ।
शरमादत्त कर्णाय वर्मकायावभेदिनम् ॥

7.37.28

तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः ।
प्राविशद्धरणीं वेगाद्वल्मी कमिव पन्नगः ॥

7.37.29

स तेनातिप्रहारेण व्यथितो विह्वलन्निव ।
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाऽचलः ॥

7.37.30

तथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् ।
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥

7.37.31

कर्णस्तं पञ्चविंशत्या नाराचानां समार्पयत् ।
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥

7.37.32

स शराचितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः ।
विचरन्ददृशे सैन्ये पाशहस्त इवान्तकः ॥

7.37.33

शल्यं च शरवर्षेण समीपस्थामवाकिरत् ।
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥

7.37.34

ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः ।
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥

7.37.35

तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशास्विना ।
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥

7.37.36

सम्प्रेक्ष्य तं महाबाहुं रुक्मपुङ्खैः समावृतम् ।
त्वदीयाः प्रपलायन्ते मृगाः सिंहार्दिता इव ॥

7.37.37

सौभद्रशरनिर्भग्नाः समरेऽमरविक्रमाः ।
एवं शल्यो विमृदितस्तव पौत्रेण भारत ॥

7.37.38

स तु रणयशसाऽभिपूज्यमानः पितृसुरचारणसिद्धयक्षसङ्गैः
अवनितलगतैश्च भूतसङ्घै-- रतिविबभौ हुतभुग्यथाऽज्यसिक्तः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc