भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.202

7.202.1

तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ।
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया ॥

7.202.2

ततस्ते सैनिका राजन्सर्वे तत्रावतस्थिरे ।
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥

7.202.3

एक एव च बीभत्सुः सोमकावयवैः सह ।
मात्स्यैरन्यैश्च सन्धाय कौरवान्सन्न्यवर्तत ॥

7.202.4

ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् ।
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥

7.202.5

य शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम् ।
धार्तराष्ट्रेषु या प्रीतिर्देषोऽस्मासु च यच्च ते ॥

7.202.6

यच्च भूयोऽस्ति तेजस्ते तत्सर्वं मयि दर्शय ।
स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः ॥

7.202.7

कालानलसमप्रख्यं द्विषामन्तकोपमम् । समासादय पाञ्चाल्यं मां चापि सहकेशवम् ।
दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे ॥
धृतराष्ट्र उवाच ।

7.202.8

आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय ।
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः ॥

7.202.9

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् ॥
अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान् ॥
सञ्जय उवाच ।

7.202.10

युवराजे हते चैव वृद्वक्षत्रे च पौरवे ।
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ॥

7.202.11

धृष्टद्युम्ने सात्यकौ च भीमे चापि पारजिते । युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ।

7.202.12

अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो ।
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥

7.202.13

तस्मादनर्हमश्लीलमप्रियं द्रोणिमुक्तवान् ।
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा ॥

7.202.14

एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप ।
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा ॥

7.202.15

द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ।
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् ॥

7.202.16

देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ।
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः ॥

7.202.17

सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ।
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥

7.202.18

ततस्तुमुलमाकाशे शरवर्षमजायत ।
पावकार्चिपरीतं तत्पार्थमेवाभिपुप्लुवे ॥

7.202.19

उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे ।
तमश्च सहसा रौद्रं चमूमवततार ताम् ॥

7.202.20

रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः ।
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च ॥

7.202.21

वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम् ।
रुधिरं चापि वर्षन्तो निनेदुस्तोयदा दिवि ॥

7.202.22

पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः ।
परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥

7.202.23

भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम् ।
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवाभवत् ॥

7.202.24

अस्त्रतेजोभिसन्तप्ता नागा भूमिशयास्तथा ।
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥

7.202.25

जलजानि च सत्वानि दह्यमानानि भारत ।
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥

7.202.26

दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः ।
उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥

7.202.27

तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः ।
प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः ॥

7.202.28

दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः ।
नदन्तो भैरवान्नादाञ्चलदोपमनिस्वनान् ॥

7.202.29

अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते ।
त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः ॥

7.202.30

द्रुमाणां शिखराणीव दावदग्धानि मारिष । अश्वबृन्दान्यदृश्यन्त रथबृन्दानि भारत ।
अपतन्त रथौघाश्च तत्रतत्र सहस्रशः ॥

7.202.31

तत्सैन्यं भयसंविग्नं ददाह युधि भारत ।
युगान्ते सर्वभूतानि संवर्तक इवानलः ॥

7.202.32

दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे ।
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥

7.202.33

ततस्तूर्यसहस्राणि नानालिङ्गानि भारत ।
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥

7.202.34

कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः ।
तमसा संवृते लोके नादृश्यन्त महाहवे ॥

7.202.35

नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् ।
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥

7.202.36

अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् ।
सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना ॥

7.202.37

ततो मुहूर्तादिव तत्तमो व्युपशशाम ह ।
प्रववौ चानिलः शीतो दिशश्च विमला बभुः ॥

7.202.38

तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् ।
अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा ॥

7.202.39

ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ । सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ ।
ततो गण्डीवधनन्वा च केशवश्चाक्षतावुभौ ॥

7.202.40

सपताकध्वजहयः सानुकर्षवरायुधः ।
प्रबभौ सरथो युक्तस्तावकानां भयङ्करः ॥

7.202.41

ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह ।
पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥

7.202.42

हताविति तयोरासीत्सेनयोरुभयोर्मतिः ।
तरसाऽभ्यागतौ दृष्ट्वा सहितौ कैशवार्जुनौ ॥

7.202.43

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ ।
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताऽभवन् ॥

7.202.44

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः ।
मुहूर्तं चिन्तयामास किन्त्वेतदिति मारिष ॥

7.202.45

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः ।
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्ततः ॥
सञ्जय उवाच ।

7.202.46

ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः ।
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ॥

7.202.47

ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम् ।
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह ॥

7.202.48

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम् ।
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥

7.202.49

भोभो माया यदृच्छा वा दैवं वा किमिदं भवेत् ।
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥

7.202.50

अधरोत्तरमेतद्वा लोकानां वा पराभवः ।
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥

7.202.51

नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः ।
न सर्पा यक्षपतगा न मनुष्याः कथञ्चन ॥

7.202.52

उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् ।
तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत् ॥

7.202.53

सर्वघानि मया मुक्तमस्त्रं परमदारुणम् ।
केनेमौ मर्त्यधर्माणौ नाधाक्षीत्केशवार्जुनौ ॥

7.202.54

एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ।
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने ॥
व्यास उवाच ।

7.202.55

महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात् ।
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥

7.202.56

योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः ।
आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः ॥

7.202.57

आद्यः सर्वस्य लोकस्य अनादिनिधनोऽच्युतः ।
व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ह ॥

7.202.58

अतोऽजय्यः सर्वभूतैर्मनसाऽपि जगत्पतिः ।
तस्मादिमं जेतुकाम अज्ञानतमसा वृतः ॥

7.202.59

मा शुचः पुरुषव्याघ्र विद्वि तद्वदिहार्जुनम् ।
तस्य शक्तिरसौ पार्थास्तस्माच्छोकमिमं त्यज ॥

7.202.60

विश्वेश्वरोऽयं लोकादिः परमात्मा ह्यधोक्षजः ।
सहस्रसंहितादंशादेकांशोऽयमजायत ॥

7.202.61

देवानां हितकामार्थं लोकानां चैव सत्तमः ।
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥

7.202.62

स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः ।
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः ॥

7.202.63

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च ।
अशोषयत्तदाऽत्मानं वायुभक्षोऽम्बुजेक्षणः ॥

7.202.64

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् ।
द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥

7.202.65

स तेन तपसा तात ब्रह्मभूतो यदाऽभवत् । ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ।
ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम् ॥

7.202.66

अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम् ।
रुद्रमीशानवृषभं हरं शम्भुं कपर्दिनम् ॥

7.202.67

चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह । दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम् ।
अतिमन्युं महात्मानं सर्वभूतप्रचेतसम् ॥

7.202.68

दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम् ।
पिनाकिनं वज्रिणं दीप्तशूलं परश्वथिं गदिनं चायतासिम् ॥

7.202.69

बभ्रूजटामण्डलचन्द्रमौलिं व्याघ्राजिनं परिघिणं दण्डपाणिम् ।
शुभाङ्गदं नागयज्ञोपवीतं विश्वैर्गणैः शोभितं भूतसङ्घैः । एकीभूतं तपसां सन्निधानं वचोधिकैः सुष्टुतमिष्टवाग्भिः ॥

7.202.70

जलं दिशं खं क्षितिं चन्द्रसूर्यौ हुताशवायुप्रतिमं सुरेशम् ।
नालं द्रष्टुं यं जना भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम् ॥

7.202.71

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा वीतशोकाः ।
तन्निष्ठात्मा तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श ॥

7.202.72

दृष्ट्वा चैनं वाड्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे वासुदेवः ॥

7.202.73

अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् ।
रुद्रं नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ॥

7.202.74

वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् ।
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम् ॥

7.202.75

अजमीशानमव्यक्तं कारणात्मानमच्युतम् । अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने ।
पद्माक्षस्तं विरुपाक्षमभितुष्टाव भक्तिमान् ॥
श्रीनारायण उवाच ।

7.202.76

त्वत्सम्भूता भूतकृतो वरेण्य गोसारोऽस्य भुवनस्यादिदेव । आविश्येमां धरणीं येऽभ्यरक्षन् पुरा पुराणीं तव देव सृष्टिम् ॥
सुरासुरान्नागरक्षःपिशाचा-- न्नरान्सुपर्णानथ गन्धर्वयक्षान् ।

7.202.77

पृथग्विधान्भूतसङ्घांश्च विश्वां-- स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ॥

7.202.78

ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥

7.202.79

रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी ।
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूताः स्थास्नु चरिष्णु चेदम् ॥

7.202.80

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताथिश्चैक्यं सन्क्षये यान्ति भूयः ।
एवं विद्वान्प्रभवं चाप्ययं च त्वसम्भूतं तव सायुज्यमेति ॥

7.202.81

दिव्यामृतौ मानसौ द्वौ सुपर्णा-- ववाक्शाखः पिप्पलः सप्तगोप्तः ।
वाचश्चार्था देवताः लोकपाला लोकानन्ये ये पुरा धारयित्वा । गता हि तेभ्यः परमं तत्परं च त्वत्सम्भूतास्ते च तेभ्यः परस्त्वम् ॥

7.202.82

भूतं भव्यं भविता चाप्रधृष्यं त्वत्सम्भूता भुवनानीह विश्वा ।
भक्तं च मां भजमानं भजस्व प्रीत्या मां वै लोकपितामहेश ॥

7.202.83

आत्मानं त्वमात्मनो न व्यबोधं विद्वानेवं गच्छि ब्रह्म शुक्रम् ।
अस्तौषं त्वां तव सम्मानमिच्छ-- निचिन्वन्वै सदृशं देववर्य । सुदुर्लभान्देहि परान्ममेष्टा-- नभिष्टुतः प्रविकार्षीश्च मायाम् ॥
व्यास उवाच ।

7.202.84

तस्मै वरानचिन्त्यात्मा देवदेवः पिनाकधृत् ।
विष्णवे देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥
श्रीभगवानुवाच ।

7.202.85

मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु ।
अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥

7.202.86

न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः ।
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः ॥

7.202.87

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ।
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥

7.202.88

न शस्त्रेण न वज्रेण नाग्निना न च वारिणा ।
न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च ॥

7.202.89

न हस्तेन न पादेन न काष्ठेन न लोष्टुना । कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन ।
अपि वै समरं गत्वा भविष्यसि ममाधिकः ॥

7.202.90

एवमादीन्वराँल्लब्ध्वा प्रसादादथ शूलिनः ।
स एष देवश्चरति मायया मोहयञ्जगत् ॥

7.202.91

तस्यैव तपसा जातो नरो नाम महामुनिः ।
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥

7.202.92

तावेतौ पूर्वदेवानां परमोपचितादृषी । लोकयात्राविधानार्थं दानवानां वधाय च ।
धर्मसंस्थापनार्थाय सञ्जायेते युगेयुगे ॥

7.202.93

तथैव कर्मणा कृत्स्नं महतस्तपरसोऽपि च ।
तेजो वाग्भिश्च विद्वंस्त्वं जातो रुद्रान्महामते ॥

7.202.94

स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ।
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥

7.202.95

शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम् ।
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥

7.202.96

स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् ।
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥

7.202.97

जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः । ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चायां युगेयुगे ।
देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुसम्भवः ॥

7.202.98

सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥

7.202.99

एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः ।
प्रार्थयन्ते परं लोके स्थाणुमेव च शाश्वतम् ॥

7.202.100

[स एष* रुद्रभक्तश्च केशवो रुद्रसम्भवः.] कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः ॥

7.202.101

सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः ।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥
सञ्जय उवाच ।

7.202.102

तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः ।
नमश्चकार रुद्राय बहुमेने च केशवम् ॥

7.202.103

हष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये ।
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत् ॥

7.202.104

ततः प्रत्यवहारोऽभूत्पाण्डवानां विशाम्पते ।
कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥

7.202.105

युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ।
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc