भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.203

7.203.1

तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय ।
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥
सञ्जय उवाच ।

7.203.2

तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै ।
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ॥

7.203.3

दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् । मुनिं स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् ।
यदृच्छयाऽगतं व्यासं पप्रच्छ भरतर्षभ ॥
अर्जुन उवाच ।

7.203.4

सङ्ग्रामे न्यहनं शत्रूञ्शरौघैर्विमलैरहम् ।
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥

7.203.5

ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते ।
तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने ॥

7.203.6

तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः ।
तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम् ॥

7.203.7

भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः ।
शूलपाणिर्मया दृष्टस्तेजसा सूर्यसन्निभः ॥

7.203.8

न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति ।
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥
व्यास उवाच ।

7.203.9

प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम् ।
भुवनं भूर्भुवं देवं तेजसां प्रवरं प्रभुम् ॥

7.203.10

ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् ।
तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥

7.203.11

महादेवं महात्मानमीशानं जटिलं विभुम् ।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीवराससम् ॥

7.203.12

महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् ।
जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम् ॥

7.203.13

जगद्योनिं जगद्बीजं जयिनं जगतो गतिम् ।
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥

7.203.14

विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम् ।
शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥

7.203.15

योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् ।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥

7.203.16

लोकत्रयविधातारमेकं लोकत्रयाश्रयम् ।
शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम् ॥

7.203.17

शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम् ।
सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥

7.203.18

ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम् ।
दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥

7.203.19

तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः ।
वामना जटिला मुण्डा हस्वग्रीवा महोदराः ॥

7.203.20

महाकाया महोत्साहा महाकर्णास्तथाऽपरे ।
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥

7.203.21

ईदृशैः स महादेवः पूज्यमानो महेश्वरः ।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥

7.203.22

तस्मिन्घोरे सदा पार्थ सङ्ग्रामे रोमहर्षणे ।
द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥

7.203.23

कस्तां सेनां तदा पार्थ मनसाऽपि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥

7.203.24

स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥

7.203.25

गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥

7.203.26

तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥

7.203.27

ये भक्ता वरदं देव शिवं रुद्रमुमापतिम् ।
अनन्यभावेन सदा सर्वेशं समुपासते ॥

7.203.28

सङ्ग्रामेषु जयं प्राप्य पालयन्ति महीमिमाम् ।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥

7.203.29

नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा ।
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥

7.203.30

कपर्दिने करालाय हर्यक्षवरदाय च ।
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ॥

7.203.31

काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥

7.203.32

नमो वृक्षाय सेनान्ये मध्यमाय नमोनमः । हरिकेशाय मुण्डाय कृशायोत्तारणाय च ।
भास्कारय सुतीर्थाय देवदेवाय रंहसे ॥

7.203.33

बहुरूपाय सर्वाय प्रियाय प्रियवाससे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥

7.203.34

गिरिशाय प्रशान्ताय पतये चीरवाससे ।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥

7.203.35

पर्जन्यपतये चैव भूतानां पतये नमः ।
वृक्षाणां पतये चैव गवां च पतये नमः ॥

7.203.36

वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ।
स्रुवहस्ताय देवाय धन्विने भार्गवाय च ॥

7.203.37

बहुरूपाय विश्वस्य पतये मुञ्चवाससे । सहस्रशिरसे चैव सहस्रचरणाय च ।
सहस्रबाहवे चैव सहस्रवदनाय च ॥

7.203.38

शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् ।
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥

7.203.39

प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ।
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥

7.203.40

वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ।
वृषाङ्गं वृषभोदारं वृषभं वृषभेक्षणम् ॥

7.203.41

वृषायुधं वृषशरं वृषभूतं वृषेश्वरम् ।
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ॥

7.203.42

लोकेशं वरदं पुण्यं ब्रह्मण्यं ब्राह्मणप्रियम् ।
त्रिशूलपाणिं वरदं खङ्गचर्मधरं प्रभुम् ॥

7.203.43

पिनाकिनं खङ्घधरं लोकानां पतिमीश्वरम् ।
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥

7.203.44

नमस्तस्मै सुरेशाय गणानां पतये नमः ।
सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने ॥

7.203.45

धनुर्धराय देवाय प्रियधन्वाय धन्विने ।
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥

7.203.46

उग्रायुधाय देवाय नमः सुरवराय च ।
नमोस्तु बहुरूपाय नमोस्तु बहुधन्विने ॥

7.203.47

नमोस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने । नमोस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ।

7.203.48

वनस्पतीनां पतये नराणां पतये नमः ।
मातॄणां पतये चैव गणानां पतये नमः ॥

7.203.49

गवां च पतये नित्यं यज्ञानां पतये नमः ।
अपां च पतये नित्यं देवानां पतये नमः ॥

7.203.50

पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च ।
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥

7.203.51

कर्माणि यानि दिव्यानि महादेवस्य धीमतः ।
तानि ते कीर्तयिष्यामि तथाप्रज्ञं यथाश्रुतम् ॥

7.203.52

न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः ।
सुखमेधन्ति कुपिते तस्मिन्नपि गुरागताः ॥

7.203.53

दक्षस्य यजमानस्य विधिवत्सम्भृतं पुरा । विव्याध कुपितो यज्ञं निर्दयस्त्वभवत्तदा ।
धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥

7.203.54

तेन शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा । विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥

7.203.55

तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥

7.203.56

आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा ।
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥

7.203.57

अन्धेन तमसा लोका न प्राकाशन्त संवृताः ।
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥

7.203.58

चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च ।
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥

7.203.59

पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव ।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥

7.203.60

ततो निश्चक्रमुर्देवा वेपमाना भयार्दिताः ॥

7.203.61

पुनश्च सन्दधे दीप्तान्देवानां निशिताञ्शरान् ।
सधूमान्सस्फुलिङ्गांश्च विद्युत्तोयदसन्निभान् ॥

7.203.62

तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम् ।
रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन् ॥

7.203.63

भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे । तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा ।
भग्नाश्चापि सुरा आसन्भीताश्चाद्यापि तं प्रति ॥

7.203.64

असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।
आयसं राजतं चैव सौवर्णं परमं महत् ॥

7.203.65

सौवर्णं कमलाक्षस्य तारकाक्षस्य राजतम् । तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम् ।
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि ॥

7.203.66

अथ सर्वे सुरा रुद्रं जग्मुः शरणमर्दिताः ।
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः ॥

7.203.67

ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः ।
पीडयन्त्यधिकं लोकं यस्मात्ते वरदर्पिताः ॥

7.203.68

त्वदृते देवदेवेश नान्यः शक्तः कथञ्चन ।
हन्तुं दैत्यान्महादेव जहि तांस्त्वं सुरद्विपः ॥

7.203.69

रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ।
निपातयिष्यसे चैतानसुरान्भुवनेश्वर ॥

7.203.70

स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया ।
गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः ॥

7.203.71

पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः ।
अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः ॥

7.203.72

चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृत् ।
अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः ॥

7.203.73

यूपं कृत्वा तु मलयमवनाहं च तक्षकम् ॥

7.203.74

योक्त्राङ्गानि च सत्वानि कृत्वा शर्वः प्रतापवान् ।
वेदान्कृत्वाऽथ चतुरश्चतुरश्वान्महेश्वरः ॥

7.203.75

उपदेवान्खलीनांश्च कृत्वा लोकत्रयेश्वरः ।
गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः ॥

7.203.76

कृत्वोन्कारं प्रतोदं च ब्रह्माणं चैव सारथिम् ।
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम् ॥

7.203.77

विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च ।
वायुं कृत्वाऽथ वाजाभ्यां पुङ्खे वैवस्वतं यमम् ॥

7.203.78

विद्युत्कृत्वाऽथ निश्राणं मेरुं कृत्वाऽथ वै ध्वजम् ।
आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः ॥

7.203.79

त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः ।
असुराणामन्तकरः श्रीमानतुलविक्रमः ॥

7.203.80

स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः । स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः ।
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥

7.203.81

यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च ।
त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः ॥

7.203.82

पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् ।
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥

7.203.83

पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम् ।
देव्याः स्वयंवरे वृत्तं शृणुष्वान्यद्धनञ्जय ॥

7.203.84

बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः ।
उमा जिज्ञासमाना वै कोयमित्यब्रवीत्सुरान् ॥

7.203.85

असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः । बाहुं सवज्रं तं तस्य क्रुद्धस्यास्तम्भयत्प्रभुः ।
[प्रहस्य* भगवांस्तूर्णं सर्वलोकेश्वरो विभुः ॥

7.203.86

ततः स स्तम्भितभुजः शक्रो देवगणैर्वृतः ।
जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम् ॥

7.203.87

ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा ॥

7.203.88

किमप्यङ्कगतं ब्रह्मन्पार्वत्या भूतमद्भुतम् ।
बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः ॥

7.203.89

तस्मात्त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम् ।
अयुध्यता हि बालेन लीलया सपुरन्दराः ॥

7.203.90

तेषां तद्वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः । ध्यात्वा स शम्भुं भगवान्बालं चामिततेजसम् ।
उवाच भगवान्ब्रह्मा शक्रादींश्च सुरोत्तमान् ॥

7.203.91

चराचरस्य जगतः प्रभुः स भगवान्हरः ।
तस्मात्परतरं नान्यत्किञ्चिदस्ति महेश्वरात् ॥

7.203.92

यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः ।
स पार्वत्याः कृते शर्वः कृतवान्बालरूपताम् ॥

7.203.93

ते मया सहिता यूयं प्रापद्यध्वं तमेव हि] ।
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥

7.203.94

न सम्बबुधिरे चैनं देवास्तं भुवनेश्वरम् ।
सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥

7.203.95

अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम् ।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥
[ब्रह्मोवाच ।

7.203.96

त्वं यज्ञो भुनस्यास्य त्वं गतिस्त्वं परायणम् ।
त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम् ॥

7.203.97

त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ॥

7.203.98

भगवन्भूतभव्येश लोकनाथ जगत्पते ।
प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै ॥
व्यास उवाच ।

7.203.99

पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत् ॥ ]

7.203.100

ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥

7.203.101

तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः ।
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥

7.203.10

स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित् ।
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः ॥

7.203.10

स भवः स च पर्जन्यो महादेवः सनातनः ।
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥

7.203.10

स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि तु ।
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥

7.203.10

धाता च स विधाता च विश्वात्मा विश्वकर्मकृत् ।
सर्वामां देवतानां च धारयत्यवपुर्वपुः ॥

7.203.10

सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः ।
शतधा सहस्रधा चैव भूयः शतसहस्रधाः ॥

7.203.10

द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।
घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः ॥

7.203.10

घोरा तु यातुधानस्य सोऽग्निर्विष्णुः स भास्करः ।
सौम्यातु पुनरेवास्य आपो ज्योतींषि चन्द्रमाः ॥

7.203.10

वेदाः साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः । यदत्र परमं गुह्यं स वै देवो महेश्वरः ॥ ईदृशश्च महादेवो भूयांश्च भगवानजः ।

7.203.10

न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥ अपि वर्षसहस्रेण सततं पाण़्डुनन्दन । सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् ॥

7.203.112

स मोचयति सुप्रीतः शरण्यः शरणागतान् ।
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥

7.203.113

स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ।
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥

7.203.114

स चैव वेत्ति लोकेषु मनुष्याणां शुभाशुभे ।
ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते ॥

7.203.115

महेश्वरश्च महतां भूतानामीश्वरश्च सः ।
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् ॥

7.203.116

तस्य देवस्य यद्वक्त्रं समुद्रे तदधिष्ठितम् ।
ब़डबामुखेति विख्यातं पिबत्तोयमयं हविः ॥

7.203.117

एष चैव श्मशानेषु देवो वसति नित्यशः ।
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥

7.203.118

अस्य दीप्तानि रूपाणि घोराणि च बहूनि च ।
लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च ॥

7.203.119

नामधेयानि लोकेषु बहून्यस्य यथार्थवत् ।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मणस्तथा ॥

7.203.120

वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम् ।
नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः ॥

7.203.121

स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः ।
स विभुः स प्रभुर्देवोविश्वं व्याप्नोति वै महत् ॥

7.203.122

ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मनुयस्तथा ।
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥

7.203.123

सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥

7.203.124

दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथास्थितम् ।
महयत्येष लोकांश्च महेश्वर इति स्मृतः ॥

7.203.125

ऋषयश्चैव देवाश्च गन्धर्वाप्यरसस्तथा ।
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥

7.203.126

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ॥

7.203.127

यदस्य बहुधा रूपं भूतभव्यभवस्थितम् ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥

7.203.128

एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा ।
क्रोधाद्यश्चाविशल्लोकांस्तस्मात्सर्व इति स्मृतः ॥

7.203.129

धूम्ररूपं च यत्तस्य धूर्जटिस्तेन चोच्यते ।
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥

7.203.130

तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः ।
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥

7.203.131

समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु ।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥

7.203.132

सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा ।
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥

7.203.133

महत्पूर्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् ।
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥

7.203.134

[सूर्याचन्द्रमसोर्लोके प्रकाशन्ते रुचश्च याः ।
ताः केशसञ्ज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः ॥

7.203.135

भूतं भव्यं भविष्यं च सर्वं जगदशेषतः ।
भव एव ततो यस्माद्भूतभव्यभवोद्भवः ॥

7.203.136

कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते ।
स देवदेवो भगवान्कीर्त्यतेऽतो वृषाकपिः ॥

7.203.137

ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च ।
निगृह्य हरते यस्मात्तस्माद्वर इति स्मृतः ॥

7.203.138

निमीलिताभ्यां नेत्राभ्यां बलाद्देवो महेश्वरः । ललाटे नेत्रमसृजत्तेन त्र्यक्षः स उच्यते ॥ ]

7.203.139

विषमस्थः शरीरेषु समश्च प्राणिनामिह ।
स वायुर्विषमस्थेषु प्राणोऽपानः शरीरिषु ॥

7.203.140

पूजयेद्विग्रहं यस्तु लिङ्गं चापि महात्मनः ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥

7.203.141

ऊरुभ्यामर्धमाग्नेयं सोमोऽर्धं च शिवा तनुः ।
आत्मनोऽर्धं तथा चाग्निः सोमोर्धं पुनरुच्यते ॥

7.203.142

तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः ।
भास्वती मानुषेष्वस्य तनुर्घोराऽग्निरुच्यते ॥

7.203.143

ब्रह्मचर्यं चरत्येष शिवा याऽस्य तनुस्तया ।
याऽस्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥

7.203.144

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥

7.203.145

एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।
सङ्ग्रामे शास्त्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृत ॥

7.203.146

सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयाऽनघ ।
कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि ॥

7.203.147

एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः ।
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥

7.203.148

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् । देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ।

7.203.149

सर्वार्थसाधनं पुण्यं सर्वकिल्बिषनाशनम् ।
सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥

7.203.150

चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा ।
विजित्य शत्रून्सर्वान्स रुद्रलोके महीयते ॥

7.203.151

चरितं महात्मनो नित्यं साङ्ग्रामिकमिदं स्मृतम् ।
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥

7.203.152

भक्तो विश्वेश्वरं देवं मानुषेषु च यः सदा ।
वरान्कामान्स लभते प्रसन्ने त्र्यम्बके नरः ॥

7.203.153

गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः ।
गस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः ॥
सञ्जय उवाच ।

7.203.154

एवमुक्त्वाऽर्जुनं सङ्ख्ये पराशरसुतस्तदा ।
जगाम भरतश्रेष्ठ यथागतमरिन्दम ॥
वेशम्पायन उवाच ।

7.203.155

एतदाख्याय वै सूतो राज्ञः सर्वं तु सञ्जयः ।
प्रयातः शिबिरायैव द्रष्टुं कर्णस्य वैशसम् ॥

7.203.156

युद्धं कृत्वा महद्धोरं पञ्चाहानि महाबलः ।
ब्राह्मणो निहतो राजन्ब्रह्मलोकमवाप्तवान् ॥

7.203.157

स्वधीते यत्फलं वेदे तदस्मिन्नपि पर्वणि ।
क्षत्रियाणामभीरूणां युक्तमत्र महद्यशः ॥

7.203.158

य इदं पठते पर्व शृणुयाद्वाऽपि नित्यशः ।
स मुच्यते महापापैः कृतैर्घोरैश्च कर्मभिः ॥

7.203.159

यज्ञावाप्तिर्ब्राह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यशश्च ।
शेषौ वर्णौ काममिष्टं लभेते पुत्रान्पौत्रान्नित्यमिष्टांस्तथैव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc