भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.198

7.198.1

अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः ।
अप्रियं वा प्रियं वाऽपि महाराज धनञ्जयम् ॥

7.198.2

ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत ।
कुत्सयन्निव कौन्तेयमर्जुनं भरतर्षभ ॥

7.198.3

मुनिर्यथाऽरण्यगतो भाषते धर्मसंहितम् ।
न्यस्तदण्डो यथा पार्थं ब्राह्मणः संशितव्रतः ॥

7.198.4

क्षतत्राता क्षताज्जीवन्क्षन्ता स्त्रीष्वपि साधुषु ।
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियः ॥

7.198.5

स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः ।
अविपश्चिद्यथा वाचं व्याहरन्नाद्य शोभसे ॥

7.198.6

पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः ।
न चातिवर्तसे धर्मं वेलामिव महोदधिः ॥

7.198.7

न पूजयेत्त्वां कोन्वद्य यत्त्रयोदशवार्षिकम् ।
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ॥

7.198.8

दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते ।
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ॥

7.198.9

यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः ।
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ॥

7.198.10

वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः ।
अनर्हमाणास्तं भावं त्रयोदश समाः परैः ॥

7.198.11

बहूनि क्षाम्य शत्रूणां सत्यधर्मरता वयम् ।
तथा तन्मर्षयित्वा तु यथा ते उत्पथे स्थिताः ॥

7.198.12

एतान्यमर्षस्थानानि मर्षितानि त्वयाऽघन ।
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ॥

7.198.13

तमधर्ममपाकृष्टं स्मृत्वाऽद्य सहितस्त्वया ।
सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ॥

7.198.14

त्वया हि कथितं पूर्वं युद्धायाभ्यागता वयम् ।
घटामहे यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ॥

7.198.15

स्वधर्मं नेच्छसे ज्ञातुं वृथा वचनमेव ते ।
भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ॥

7.198.16

वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन ।
विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् ॥

7.198.17

अधर्ममेन विपुलं धार्मिकः सन्न बुध्यसे ।
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ॥

7.198.18

वासुदेवे स्थिते चापि द्रोणपुत्रं प्रशंससि ।
यः कलां षोडशीं पूर्णां धनञ्जय न तेऽर्हति ॥

7.198.19

स्वयमेवात्मनो दोषान्ब्रुवाणः किं न लज्जसे ॥

7.198.20

मम नागायुतं पार्थ बलं बाह्वोर्विधीयते ।
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ॥

7.198.21

आविध्यैतां गदां गुर्वी भीमां काञ्चनमालिनीम् ।
गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ॥

7.198.22

द्रावयेयं शरैश्चापि सेन्द्रान्देवान्समागतान् ।
सराक्षसगणान्पार्थ सासुरोरगमानवान् ॥

7.198.23

स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ ।
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ॥

7.198.24

अथवा तिष्ठ बीभत्सो सह सर्वैः सहोदरैः ।
अहमेनं गदापाणिर्जेष्याम्येको महाहवे ॥

7.198.25

ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् ।
सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुर्हरिम् ॥
धृष्टद्युम्न उवाच ।

7.198.26

बीभत्सो विप्रकर्माणि विहितानि मनीषिभिः ।
याजनाध्यापने दानं यथा यज्ञप्रतिग्रहौ ॥

7.198.27

षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः ।
हतो द्रोणो मया ह्येवं किं मां पार्थ विगर्हसे ॥

7.198.28

अपक्रान्तः स्वधर्माच्च क्षात्रधर्मं व्यपाश्रितः ।
अधर्मेण हतस्तस्मादस्त्रेण क्षुद्रकर्मकृत् ॥

7.198.29

तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् ।
प्रतिमायी निहन्याद्यो न युक्तं पार्थ तत्र किम् ॥

7.198.30

तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा ।
कुरुते भैरवं नादं तत्र किं मम हीयते ॥

7.198.31

न चाद्भुतमिदं मन्ये यद्द्रौणिश्चात्र गर्जति ।
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ॥

7.198.32

यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् ।
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ॥

7.198.33

यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे ।
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय ॥

7.198.34

यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्च्छितः ।
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ॥

7.198.35

विशेषात्पितृहन्ता मे न स वध्यः कथं मया । योऽयं पापः सुदुर्मेधा बान्धवान्युधि जघ्निवान् ।
तस्य विप्रब्रुववधे कथं पापं भवेन्मम ॥

7.198.36

विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् ।
जानन्धर्मार्थतत्त्वज्ञ किं मामर्जुन गर्हसे ॥

7.198.37

नृशंसः स मयाऽक्रम्य रथ एव निपातितः ।
तन्मामनिन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ॥

7.198.38

कालानलसमं पार्थ ज्वलार्कविषोपमम् ।
भीमं द्रोणशिरश्छिन्नं न प्रशंससि मे कथम् ॥

7.198.39

योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् ।
छित्त्वाऽपि तस्य मूर्धानं नैवास्मि विगतज्वरेः ॥

7.198.40

तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया ।
निषादविषये क्षिप्तं जयद्रथशिरो यथा ॥

7.198.41

अथावधश्च शत्रूणामधर्मः श्रूयतेऽर्जुन ।
क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा पुनः ॥

7.198.42

स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव ।
यथा त्वया हतः शूरो भगदत्तः पितुः सखा ॥

7.198.43

पितामहं रणे हत्वा मन्यसे धर्ममात्मनः ।
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ॥

7.198.44

सम्बन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि ।
स्वगात्रकृतसोपानं निषण्णमिव दन्तिनम् ॥

7.198.45

क्षमामि ते सर्वमेव वाग्व्यतिक्रममर्जुन ।
द्रौपद्या द्रौपदेयानां कृते नान्येन हेतुना ॥

7.198.46

कुलक्रमागतं वैरं ममाचार्येण विश्रुतम् ।
तथा जानात्ययं लोको न यूयं पाण्डुनन्दनाः ॥

7.198.47

नानृती पाण्डवो ज्येष्ठो नाहं वाऽधार्मिकोऽर्जुन ।
न क्षत्रिय इति प्राहुर्यो न हन्ति रणाजिरे ॥

7.198.48

पितरं वा गुरुं वाऽपि जिघांसु पुत्रशिष्ययोः ।
जिह्मेन वाऽप्यजिह्मेन हन्यादेवाविचारयन् ॥

7.198.49

इत्युक्तं ब्रह्मणा पूर्वं क्षत्रियाणां द्विषद्वधे ।
तस्माच्छिष्येण निहतः शत्रुर्मे ब्राह्मणब्रुवः ॥

7.198.50

यः क्षत्रियसुतो हन्यात्पितरं वा गुरुं च वा । अनिष्टं क्षत्रियो हन्यात्स वै क्षत्रिय उच्यते ।
शिष्यद्रोही हतः पापो युध्यस्व विजयस्तव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc