भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.197

7.197.1

प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे प्रभो ।
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥

7.197.2

चचाल पृथिवी चापि चुक्षुभे च महोदधिः ।
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ॥

7.197.3

शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत ।
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे ॥

7.197.4

तमसा तावकीर्यन्त सूर्यश्च कलुषोऽभवत् ।
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥

7.197.5

देवदानवगन्धर्वास्त्रस्तास्त्वासन्विशाम्पते ।
कथङ्खथाऽभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥

7.197.6

व्यथिताः सर्वराजानस्त्रस्ताश्चासन्विशाम्पते ।
तद्दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम् ॥
धृतराष्ट्र उवाच ।

7.197.7

निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे ।
भृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥

7.197.8

कुरूनापततो दृष्ट्वा धृष्टद्मुम्नस्य रक्षणे ।
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।

7.197.9

प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः ।
पुनश्च तुमुलं शब्दं श्रुत्वाऽर्जुनमथाब्रवीत् ॥
युधिष्ठिर उवाच ।

7.197.10

आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे ।
निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥

7.197.11

नाशंसन्तो जयं युद्धे दीनात्मानो धनञ्जय ।
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो रणात् ॥

7.197.12

केचिद्वान्तै रथैस्तूर्णं निहतैः पाष्णियन्तृभिः ।
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥

7.197.13

भग्ननीडैराकुलाश्वैः प्रारुह्यान्यान्विचेतसः ।
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथान् ॥

7.197.14

भग्नाक्षयुगचक्रैश्च व्याकृष्यन्त समन्ततः ।
रथान्विशीर्णानुत्सृज्य पद्भिः केचिच्च विद्रुताः ॥

7.197.15

हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः ।
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः ॥

7.197.16

शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ।
विशस्त्रकवचनाश्चान्ये वाहनेभ्यः क्षितिं गताः ॥

7.197.17

सञ्छिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः ।
क्रोशन्तस्तात पुत्रेति पलायन्ते परे भयात् ॥

7.197.18

नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ।
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् ॥

7.197.19

जलेन क्लेदयन्त्यन्ये विमुच्य कवचनान्यपि ।
पलायनपराश्चान्ये योधाः शतसहस्रशः ॥

7.197.20

अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् ।
पुनरावर्तितं केन यदि जानासि शंस मे ॥

7.197.21

हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् ।
रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान् ॥

7.197.22

एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे ।
मुमुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान् ॥

7.197.23

य एष तुमुलः शब्दः श्रूयते रोमहर्षणः ।
सेन्द्रानप्येष लोकांस्त्रीन्ग्रसेदिति मतिर्मम ॥

7.197.24

मन्ये वज्रधरस्यैष निनादो भैरवस्वनः ।
द्रोणे हते कौरवार्यं व्यक्तमभ्येति वासवः ॥

7.197.25

प्रहृष्टरोमकूपाः स्मः संविग्नरथकुञ्जराः ।
धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥

7.197.26

क एष कौरवान्दीर्णानवस्थाप्य महारथः ।
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥
अर्जुन उवाच ।

7.197.27

उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः ।
धमन्ति कौरवाः शङ्खान्यस्य वीर्यं समाश्रिताः ॥

7.197.28

यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते ।
धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि ॥

7.197.29

हीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् ।
इन्द्रविष्मुसमं वीर्ये कोपेऽन्तकमिव स्थितम् ॥

7.197.30

बृहस्पतिसमं बुद्ध्या नीतिमन्तं महारथम् ।
आख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ॥

7.197.31

यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् ।
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥

7.197.32

जातमात्रेण वीरेण येनोच्चैः श्रवसा यथा ।
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥

7.197.33

तच्छ्रुत्वान्तर्हितं भूतं नाम तस्याकरोत्तदा ।
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥

7.197.34

यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा ।
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥

7.197.35

गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् ।
तन्न जातुं क्षमेद््द्रौणिर्जानन्पौरुषमात्मनः ॥
स हि तेनैव नः सर्वान्क्षपयेदिति मे मतिः ॥

7.197.36

उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् ।
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥

7.197.37

चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे ।
रामे वालिवधाद्यद्वदेवं द्रोणे निपातिते ॥

7.197.38

सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः ।
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥

7.197.39

स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् ।
आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥

7.197.40

ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः ।
आसीत्सुविह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥

7.197.41

स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः ।
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥

7.197.42

न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् ।
रक्षत्विदानीं सामात्यो यदि शक्तोसि पार्षतम् ॥

7.197.43

ग्रस्तमाचार्य पुत्रेण क्रुद्धेन हतबन्धुना ।
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥

7.197.44

सौहार्दं सर्वभूतेषु यः करोत्यतिमानुषः ।
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥

7.197.45

विक्रोशमाने हि मयि भृशमाचार्यगृद्विनि ।
अपाकीर्य स्वयं धर्मं शिप्येण निहतो गुरुः ॥

7.197.46

यदा गतं वयो भूयः शिष्टमल्पतरं च नः ।
तस्येदानीं विरोधोऽयमधर्मोऽयं कृतो महान् ॥

7.197.47

पितेव नित्यं सौहार्दात्पितेव हि च धर्मतः ।
सोऽल्पकालस्य राज्यस्य कारमाद्वातितो गुरुः ॥

7.197.48

धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम्पते ।
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥

7.197.49

सम्प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः ।
अब्रवीत्सततं पुत्रान्मामेवाभ्यधिकं गुरुः ॥

7.197.50

अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः ।
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥

7.197.51

तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः ।
कृतो ह्यनार्यैरस्माभीर राज्यार्थे लुब्धबुद्धिभिः ॥

7.197.52

अहो बत महत्पापं कृतं कर्म सुदारुणम् ।
यद्राज्यसुखलोभेन द्रोणोऽयं साधुघातितः ॥

7.197.53

पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः ।
त्यजेत्सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः ॥

7.197.54

स मया राज्यकामेन हन्यमानो ह्युपेक्षितः ।
तस्मादर्वाक्शिरा राजन्प्राप्तोऽस्मि नरकं प्रभो ॥

7.197.55

ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम् ।
घातयित्वाऽद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc