भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.164

7.164.1

वर्तमाने यथा यद्धे घोररूपे भयावहे ।
तमसा संवृते लोके रजसा च महीपते ॥

7.164.2

नापश्यन्त रणे योधाः परस्परमवस्थिताः ।
अनुमानेन सञ्ज्ञाभिर्युद्धं तद्ववृधे महत् ॥

7.164.3

नरनागाश्वमथनं परमं रोमहर्षणम् । द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः ।
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥

7.164.4

वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः ।
तमसा संवृते चैव समन्ताद्विप्रदुद्रुवुः ॥

7.164.5

ते सर्वतो विद्रवन्तो योधा विध्वस्तचेतनाः ।
अहन्यन्त महाराज धावमानाश्च संयुगे ॥

7.164.6

महारथसहस्राणि जघ्नुरन्योन्यमाहवे ।
अन्ये तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥

7.164.7

ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत ।
व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥
धृतराष्ट्र उवाच ।

7.164.8

तेषां संलोड्यमानानां पाण्डवैर्विहतौजसाम् ।
अन्धे तमसि मग्नानामासीत्किं वो मनस्तदा ॥

7.164.9

कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः ।
बभूव लोके तमसा तथा सञ्जय संवृते ॥
सञ्जय उवाच ।

7.164.10

ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै ।
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥

7.164.11

द्रोणः पुरस्ताज्जघने तु शल्य-- स्तथा द्रौणिः कृतवर्मा सौबलश्च ।
स्वयं तु सर्वाणि बलानि राज-- न्राजाऽभ्ययाद्गोपयन्वै निशायाम् ॥

7.164.12

उवाच सर्वांश्च पदातिसङ्घा-- न्दुर्योधनः पार्थिवसान्त्वपूर्वम् ।
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥

7.164.13

ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् ॥

7.164.14

देवर्षिगन्धर्वसुरर्षिसङ्घा विद्याधराश्चाप्सरसां गणाश्च ।
नागाः सयक्षोरगकिन्नराश्च हृष्टा दिविस्था जगृहुः प्रदीपान् ॥

7.164.15

दिग्धैर्वतेभ्यश्च समापतन्तो-- ऽदृश्यन्त दीपाः ससुगन्धितैलाः ।
विशेषतो नारदपर्वताभ्यां सम्बोध्यमानाः कुरुपाण्डवार्थम् ॥

7.164.16

सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम् ।
महाधनैराभरणैश्च दिव्यैः शस्त्रैश्च दीप्तैरपि सम्पतद्भिः ॥

7.164.17

रथेरथे पञ्च विदीपकास्तु प्रदीपकास्तत्र गजे त्रयश्च ।
प्रत्यश्वमेकश्च महाप्रदीपः कृतास्तु तैः पाण्डवैः कौरवेयैः ॥

7.164.18

क्षणेन सर्वे विहिताः प्रदीपा व्यादीपयन्तो ध्वजिनीं तवासु ॥

7.164.19

सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः ।
प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः ॥

7.164.20

प्रकाशितायां तु ततो ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्सपत्नान् ।
रराज राजेन्दर सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली ॥

7.164.21

जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरासनेषु ।
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र तदा बभूवुः ॥

7.164.22

गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः ।
प्रतिप्रभारश्मिभिराजमीढ पुनःपुनः सञ्जनयन्ति दीपान् ॥

7.164.23

छत्राणि वालव्यजनानि खङ्गा दीप्ता महोल्काश्च तथैव राजन् ।
व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः ॥

7.164.24

शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत् ।
प्रकाशितं चाभरणप्रभाभि-- र्भृशं प्रकाशं नृपते बभूव ॥

7.164.25

पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुच्छदानि ।
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे ॥

7.164.26

प्रकम्पितानामभिधातवेगै-- रभिघ्नतां चापततां जवेन ।
वक्राण्यकाशन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि ॥

7.164.27

महावने दारुमये प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत् ।
तथा तदाऽसीद्वजिनी प्रदीप्ता महाभया भारत भीमरूपा ॥

7.164.28

तत्सम्प्रदीप्तां बलमस्मदीयं निशाम्य पार्थास्त्वरितास्तथैव ।
सर्वेषु सैन्येषु पदातिसङ्घा-- नचोदयंस्तेऽपि चक्रुः प्रदीपान् ॥

7.164.29

गजेगजे सप्त कृपाः प्रदीपा रथेरथे चैव दश प्रदीपाः ।
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये ॥

7.164.30

सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च ।
मध्ये तथाऽन्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥

7.164.31

मध्ये तथाऽन्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः ॥

7.164.32

सर्वेषु सैन्येषु पदातिसङ्घा विमिश्रिता हस्तिरथाश्वबृन्दैः ।
व्यदीपयंस्ते ध्वजिनीं प्रदीप्ता-- स्तथा बलं पाण्डवेयाभिगुप्तम् ॥

7.164.33

तेन प्रदीप्तेन तथा प्रदीप्तं-- बलं तवासीद्बलवद्बलेन ।
भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभिगुप्तः ॥

7.164.34

तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः ।
तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् ॥

7.164.35

तेन प्रकाशेन दिवं गतेन सम्बोधिता देवगणाश्च राजन् ।
गन्धर्वयक्षासुरसिद्धसङ्घाः समागमन्नप्सरसश्च सर्वाः ॥

7.164.36

तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च ।
हतैश्च शूरैर्दिवमारुहद्भि-- रायोधनं दिव्यकल्पं बभूव ॥

7.164.37

रथाश्वनागाकुलदीपदीप्तं संरब्धयोधं हतविद्रुताश्वम् ।
महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव ॥

7.164.38

तच्छक्तिसङ्घाकुलचण़्डवातं महारथाभ्रं गजवाजिघोषम् ।
शस्त्रौगवर्षं रुधिराम्बुधारं निशि प्रवृत्तं रथदुर्दिनं तत् ॥

7.164.39

तस्मिन्महाग्निप्रतिमो महात्मा सन्तापंयन्पाण्डवान्विप्रमुख्यः ।
गभस्तिभिर्मध्यगतो यथाऽर्को वर्षात्यये तद्वदभून्नरेन्द्र ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc