भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.163

7.163.1

सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः ।
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह ॥

7.163.2

न ह्यहत्वा रणे शत्रुं सोमदत्तं महाबलम् ।
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ॥

7.163.3

ततः सम्प्रैषयद्यन्ता सैन्धवांस्तान्मनोजवान् ।
तुरङ्गामाञ्छङ्खवर्णान्सर्वशब्दातिगान्रणे ॥

7.163.4

तेऽवहन्युयुधानं तु मनोमारुतरंहसः ।
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् ॥

7.163.5

तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे ।
सोमदत्तो महाबाहुरसम्भ्रान्तो न्यवर्तत ॥

7.163.6

विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान् ।
छादयामास शैनेयं जलदो भास्करं यथा ॥

7.163.7

असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् ।
छादयामास बाणौघैः समन्ताद्भरतर्षभ ॥

7.163.8

सोमदत्तस्तुतं षष्ट्या विव्याधोरसि माधवम् ।
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः ॥

7.163.9

तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ ।
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशकौ ॥

7.163.10

रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ ।
परस्परमवेक्षेतां दहन्ताविव लोचनैः ॥

7.163.11

रथमण्डलमार्गेषु चरन्तावरिमर्दनौ ।
घोररूपौ हितावास्तां वृष्टिमन्ताविवाम्बुदौ ॥

7.163.12

शरसम्भिन्नगात्रौ तु सर्वतः शखलीकृतौ ।
श्वाविधाविव राजेन्द्र दृश्येतां शरविक्षतौ ॥

7.163.13

सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यराजताम् ।
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ॥

7.163.14

सम्प्रदीपितसर्वाङ्गौ सायकैस्तैर्महारथौ ।
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ॥

7.163.15

ततो युधि महारज सोमदत्तो महारथः ।
अर्धचन्द्रेम चिच्छेद माधवस्य महद्धनुः ॥

7.163.16

अथैनं पञ्चविंशत्या सायकानां समार्पयत् ।
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ॥

7.163.17

अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् ।
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत ॥

7.163.18

ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् ।
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ॥

7.163.19

सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम् ।
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् ॥

7.163.20

सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः ।
धनुश्छिच्छेद भल्लेन क्षुरप्रेण शितेन ह ॥

7.163.21

अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् ।
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ॥

7.163.22

अथान्यद्धनुरादाय सोमदत्तो महारथः ।
सात्यकिं छादयामास शरवृष्ट्या महाबलः ॥

7.163.23

सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः ।
सात्यकिं शरजालेन सोमदत्तोऽप्यपीडयत् ॥

7.163.24

दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् ।
सोमदत्तोप्यसम्भ्रान्तो भीममार्च्छच्छितैः शरैः ॥

7.163.25

ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम् ।
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ॥

7.163.26

तमापतन्तं वेगेन परिघं घोरदर्शनम् ।
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः ॥

7.163.27

स पपात द्विधा च्छिन्न आयसः परिघो महान् ।
महीधरस्येव महच्छिखरं वज्रदारितम् ॥

7.163.28

ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे ।
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ॥

7.163.29

ततश्चतुर्भिश्च शरैस्तूर्णं तांस्तुरगोत्तमान् ।
समीपं प्रेषयामास प्रेतराजस्य भारत ॥

7.163.30

सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा ।
जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः ॥

7.163.31

ततः शरं महाघोरं ज्वलन्तमिव पावकम् ।
मुमोच सात्वतो राजन्स्वर्णपुङ्गं शिलाशितम् ॥

7.163.32

स विमुक्तो बलवता शैनेयेन शरोत्तमः ।
घोरस्तस्योरसि विभो निपपाताशु भारत ॥

7.163.33

सोऽतिविद्धो महाराज सात्वतेन महारथः ।
सोमदत्तो महाबाहुर्निपपात ममार च ॥

7.163.34

तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः ।
महता शरवर्षेण युयुधानमुपाद्रवन् ॥

7.163.35

छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः । पाण्डवाश्च महाराज सह सर्वैः प्रभद्रकैः ।
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवन् ॥

7.163.36

ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् ।
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः ॥

7.163.37

सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् ।
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ॥

7.163.38

ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः ।
युधिष्ठिरोऽपि सङ्क्रुद्धः प्रतिविव्याध पञ्चभिः ॥

7.163.39

सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन् ।
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ॥

7.163.40

स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः ।
अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ॥

7.163.41

ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः ।
साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ॥

7.163.42

ततो मुहूर्तं व्यथितः शरपातप्रपीडितः ।
निषसाद रथोपस्थे द्रोणो भरतसत्तम ॥

7.163.43

प्रतिलभ्य ततः सञ्ज्ञां मुहूर्ताद्द्विजसत्तमः ।
क्रोधेन महताऽविष्टो वायव्यास्त्रमवासृजत् ॥

7.163.44

असम्भ्रान्तस्ततः पार्थो वायव्येनैव वीर्यवान् ।
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत ॥

7.163.45

चिच्छेद च धनुर्दीर्घं ब्राह्मणस्य च पाण्डवः । ततोऽन्यद्धनुरादत्त द्रोणः क्षत्रियमर्दनः ।
तदप्यस्य शितैर्भल्लैश्चिच्छेद कुरुपुङ्गवः ॥

7.163.46

ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् ॥

7.163.47

युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छ्रणु ।
उपारमस्व युद्धे त्वं द्रोणाद्भरतसत्तम ॥

7.163.48

यतते हि सदा द्रोणो ग्रहणे तव संयुगे ।
नानुरूपमहं मन्ये युद्धमस्य त्वया सह ॥

7.163.49

योऽस्य सृष्टो विनाशाय स एवैनं हनिष्यति ।
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः ॥

7.163.50

राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धमिष्यते ।
तत्र त्वं गच्छ कौन्तेय हस्त्यश्वरथसंवृतः ॥

7.163.51

यावन्मात्रेण च मया सहायेन धनञ्जयः ।
भीमश्च रथशार्दूलो युध्यते कौरवैः सह ॥

7.163.52

वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् ॥

7.163.53

प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः ।
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ॥

7.163.54

रथघोषेण महता नादयन्वसुधातलम् । पर्जन्य इव धर्मान्ते नादयन्वै दिशो दश ।
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जाग्रह पाण्डवः ॥

7.163.55

द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे ।
नादयंस्तलघोषेण तव सैन्यानि मारिष ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc