भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.149

7.149.1

तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना ।
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥

7.149.2

पश्यतां सर्वसैन्यानां मामकानां महारणे ।
अहन्यत कथं युद्धे सैन्धवः सव्यसाचिना ॥

7.149.3

कथं द्रौणिकृपैर्गुप्तः कर्णेन च महारणे ।
फल्गुनाग्निमुखं घोरं प्रविष्टः साधु सैन्धवः ॥

7.149.4

तस्मिन्हते महेष्वासे मन्दात्मा स सुयोधनः ।
भ्रातृबिः सहितः सूत किमकार्षीदनन्तरम् ॥
सञ्जय उवाच ।

7.149.5

सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत ।
अमर्षवशमापन्नः कृपः शारद्वतस्ततः ॥

7.149.6

महता शरवर्षेण पाण्डवं समवाकिरत् ।
द्रौणिश्चाभ्यद्रवद्राजन्रथमास्थाय फल्गुनम् ॥

7.149.7

तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ ।
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥

7.149.8

स तथा शरवर्षाभ्यां सुमहद्ध्यां महाभुजः ।
पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥

7.149.9

सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च ।
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ॥

7.149.10

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥

7.149.11

तेन नातिभृशं त्रस्तौ विशिखैर्भृशपीडितौ ।
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥

7.149.12

अथ शारद्वतो राजन्कौन्तेयशरपीडितः ।
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ॥

7.149.13

विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् ।
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥

7.149.14

तस्मिन्भग्ने महाराज कृपे शारद्वते युधि ।
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥

7.149.15

दृष्ट्वा शारद्वतं पार्थो मूर्च्छितं शरपीडितम् । धिग्धिङ्मामिति चैवोक्त्वा कृपणं पर्यदेवयत् ।
अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत् ॥

7.149.16

पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् ।
कुलान्तकरणे पापे जातमात्रे सुयोधने ॥

7.149.17

नीयतां परलोकाय साध्वयं कुलपांसनः ।
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥

7.149.18

तदिदं समनुप्राप्तं वचनं सत्यवादिनः ।
तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम् ॥

7.149.19

धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् ।
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥

7.149.20

ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा ।
एष शेते रथोपस्थे कृपो मद्बाणपीडितः ॥

7.149.21

अकामयानेन मया विशिखैरर्दितो भृशम् ।
अवसीदन्रथोपस्थे प्राणान्पीडयतीव मे ॥

7.149.22

पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च ।
अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥

7.149.23

शरार्दितः स हि मया प्रेक्षमाणो महाद्युतिः । शोचयत्येष नियतं भूयः पुत्रवधाद्धि माम् ।
कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम् ॥

7.149.24

उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः ।
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥

7.149.25

ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः ।

7.149.25

घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥

7.149.26

तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् ।
आचार्यं शरवर्षेण रथे सादयता कृपम् ॥

7.149.27

यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः ।
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ॥

7.149.28

तदिदं वचनं साधोराचार्यस्य महात्मनः ।
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥

7.149.29

नमस्तस्मै सुपूज्याय गौतमायापलायिने ।
धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम् ॥
सञ्जय उवाच ।

7.149.30

तथा विलपमाने तु सव्यसाचिनि तं प्रति । *ततो राजन्हृष्टीकेशः सन्ङ्गामशिरसि स्थितम् ।
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत् ॥

7.149.31

दिष्ठ्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया ।
दिष्ट्या विनिहतः पापो वृद्धक्षत्रः सहात्मजः ॥

7.149.32

धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत ।
सीदेत समरे जिष्णो नात्र कार्या विचारणा ॥

7.149.33

न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् ।
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ॥

7.149.34

महाप्रभावा बहवस्त्वया तुल्याधिकापि वा ।
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ॥

7.149.35

ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः ।
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् ॥

7.149.36

नेदृशं शक्नुयात्कश्चिद्रमे कर्तुं पराक्रमम् ।
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ॥

7.149.37

एवमेव हते कर्णे सानुबन्धे दुरात्मनि ।
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ॥

7.149.38

तमर्जुनः प्रत्युवाच प्रसादात्तव माधव ।
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा ॥

7.149.39

अनाश्चार्यो जयस्तेषां येषां नाथोऽसि केशव ।
त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः ॥

7.149.40

तवैष भारो धार्ष्णेय तवैव विजयः प्रभो ।
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ॥

7.149.41

एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान् ।
दर्शयामास पार्थाय क्रूरमायोधनं महत् ॥
श्रीकृष्ण उवाच ।

7.149.42

प्रार्थयन्तो जये युद्धे प्रथितं च महद्यशः ।
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ॥

7.149.43

विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः ।
सञ्छिन्नभिन्नमर्माणो वैक्लव्यं परमं गताः ॥

7.149.44

ससत्वा गतसत्वाश्च प्रभया परया युताः ।
सजीवा इव लक्ष्यन्ते गतसत्वा नराधिपाः ॥

7.149.45

तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः ।
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ॥

7.149.46

वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैर्मकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ॥

7.149.47

कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः ।
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ॥

7.149.48

[अनुकर्षैरुपासङ्गैः पताकाभिर्ध्वजैस्तथा ।
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ॥

7.149.49

चक्रैः प्रमथितैश्चित्रैरक्षैश्च बहुधा रणे ।
युगैर्योक्त्रैः कलापैश्च धनुर्भिः सायकैस्तथा ॥

7.149.50

परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा ।
शक्तिभिर्भिण्डिपालैश्च तूणैः शूलैः परश्वथैः ॥

7.149.51

प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च ।
शतघ्नीभिर्भुशुण्डीभिः खङ्गैः परशुभिस्तथा ॥

7.149.52

मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा ।
सुवर्णविकृताभिश्च कशाभिर्भरतर्षभ ॥

7.149.53

घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि । स्रग्भिश्च नानाभरणैर्बस्त्रैश्चैव महाधनैः ।
अपविद्धैर्बभौ भूमिर्ग्रहैर्द्यौरिव शारदी ॥

7.149.54

पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः ।
पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम् ॥

7.149.55

इमांश्च गिरिकूटाभान्नागानैरावतोपमान् । क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः ।
दरीमुखैरिव गिरीन्गैरिकाम्बुपरिस्रवान् ॥

7.149.56

तांश्च बाणहतान्वीर पश्य निष्टनतः क्षितौ ।
हयांश्च पतितान्पश्य स्वर्णभाण्डविभूषितान् ॥

7.149.57

गन्धर्वनगराकारान्रथांश्च निहतेश्वरान् ।
छिन्नध्वजपताकाक्षान्विचक्रान्हतसारथीन् ॥

7.149.58

निकृत्तकूबरयुगान्भग्नेषान्बन्धुरान्प्रभो ।
पश्य पार्थ हयान्भूमौ विमानोपमदर्शनान् ॥

7.149.59

पत्तींश्च निहतान्वीर शतशोऽथ सहस्रशः ।
धनुर्भृतश्चर्मभृतः शयानान्रुधिरोक्षितान् ॥

7.149.60

महीमालिङ्ग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान् ।
पश्य योधान्महाबाहो त्वच्छरैर्भिन्नविग्रहान् ॥

7.149.61

निपातितद्विपरथाजिसङ्कुल-- मसृग्वसापिशितसमृद्धकर्दमम् ।
निशाचरश्ववृकपिशाचमोदनं महीतलं नरवर पश्य दुर्दृशम् ॥

7.149.62

इदम्महत्त्वय्युपपद्यते प्रभो रणाजिरे कर्म यशोऽभिवर्धनम् ।
शतक्रतौ चापि च देवसत्तमे महाहवे जघ्नुषि दैत्यदानवान् ॥ ]
सञ्जय उवाच ।

7.149.63

एवं सन्दर्शयन्कृष्णो रणभूमिं किरीटिने ।
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत् ॥

7.149.64

सात्यकिः पार्थमभ्यायाद्भीमसेनश्च पाण्डवः ।
युधामन्यूत्तमौजौ च पाञ्चालस्यात्मजावुभौ ॥

7.149.65

ते निवार्य शरैर्द्रौणिं कर्णं च सह भूमिपैः ।
आगच्छन्रथिनश्चैव यत्र राजा युधिष्ठिरः ॥

7.149.66

स दर्शयन्नेव किरीटिनेऽरिहा जनार्दनस्तामरिभूमिमञ्जसा ।
अजातशत्रुं समुपेत्य पाण्डवं निवेदयामास हतं जयद्रथम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc