महाभारत · अध्याय 7.148
एवस्मिन्नेव काले तु त्वरमाणे दिवाकरे ।
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥
पार्थ पार्थ शिरो ह्येनद्यत्कृते न पतेद्भुवि ।
श्रूयतां तद्यथावृत्तं कारणं सैन्धवं *प्रति ॥
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः ।
स च घोरेण तपसा दैन्धवं प्राप्तवान्सुतम् ॥
जयद्रथममित्रघ्नं वागुवाचाशरीरिणी ।
नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना ॥
तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः । गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ।
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥
शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुश्चालक्षितो भुवि ॥
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः ।
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः ॥
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् ।
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ॥
तस्यापि शतधा मूर्धा फलिष्यति न संशयः ।
यदि चेदस्ति मे लाभस्तपसो वा दमस्य वा ॥
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् ।
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः ॥
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् ।
स्यमन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे ।
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज ।
उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत ॥
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले ।
तवापि शतधा मूर्धा फलिष्यति न संशयः ॥
यथा चेदं न जानीयात्स राजा तपसि स्थितः ।
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन ।
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥
यथैतत्सैन्धवशिरः शरैरेव धनञ्जय ।
वृद्धक्षत्रे पतत्येव तथा नीतिर्विधीयताम् ॥
सञ्जय उवाच ।
ततः सुमहदाश्चर्यं तत्रापश्याम भारत ।
स्यमन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः ॥
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः ।
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ॥
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् ।
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् ।
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम ॥
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत ।
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्वरातलम् ॥
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले ।
गते तस्यापि शतधा मूर्धाऽगच्छदरिन्दम ॥
ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम् ।
वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ॥
ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् ।
कर्मणा तेन पार्थस्य विस्मिताः सर्वदेवताः ॥
सर्वदा समरे यस्य गोप्ता नित्यं जनार्दनः ।
कथं तस्य जयो न स्यादिति भूतानि मेनिरे ॥
एतदर्थं शिरस्तस्य व्यापयामास पाण्डवः ।
स्यमन्तपञ्चकाद्बाह्यं शरैरेव यथाक्रमम् ॥
कृत्वा तच्च महत्कर्म निहत्य च जयद्रथम् ।
अस्त्रं पाशुपतं पार्थः संहर्तुमुपचक्रमे ॥
संहरत्यपि कौन्तेये तदस्त्रं तत्र भारत ।
ववौ शीतः सुगन्धश्च पवनो ह्लादयन्निव ॥
संहारं च प्रमोक्षं च दृष्ट्वा तत्र दिवौकसः ।
विस्मयं परमं जग्मुः प्रशशंसुश्च पाण्डवम् ॥
एवमस्त्रेण तान्वीरो योधयित्वा धनञ्जयः ।
जयद्रथशिरः पश्चाद्व्यापयामास पाण्डवः ॥
तच्छिरश्च्यावमानं तु ददृशुस्तावका युधि ।
शल्यकर्णकृपा राजन्मोहिताः सव्यसाचिना ॥
शिरसि च्याविते तस्य शरैराशीविषोपमैः ।
पश्चात्कायोऽपतद्भूमिं शोचयन्सर्वपार्थिवान् ॥
दृष्ट्वा तु निहतं सङ्ख्ये सिन्धुराजं महारथम् ।
पुत्राणां तव नेत्रेभ्यो दुःखादास्रं प्रवर्तत ॥
ततो विनिहते राजन्सिन्धुराजे किरीटिना ।
तमस्तद्वासुदेवेन संहृतं भरतर्षभ ॥
पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः ।
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम ॥
एवं स निहतो राजन्पार्थेनामिततेजसा ।
अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः ॥
हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप ।
दुःखादश्रूणि मुमुचुर्निराशाश्चाभवञ्जये ॥
ततो जयद्रथे राजन्हते पार्थेन केशवः ।
दध्मौ शङ्खं महाबाहुरर्जुनश्च परन्तपः ॥
भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत ।
उत्तमौजाश्च विक्रान्तः शङ्खान्दध्मुः पृथक्पृथक् ॥
श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः ।
सैन्धनं निहतं मेने फल्गुनेन महात्मना ॥
ततो वादित्रघोषेण स्वान्योधान्पर्यहर्षयत् ।
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ॥
ततः प्रववृते राजन्नस्तं गच्छति भास्करे ।
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो रोमहर्षणः ॥
ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः ।
सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च ।
अयोधयंस्तु ते द्रोणं जयोऽन्मत्तास्ततस्ततः ॥
अर्जुनोऽपि ततो योधांस्तावकान्रथसत्तमान् ।
अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0