भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.135

7.135.1

दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्राधिरथिरायत्तौ नातरत्पाण्डवं रणे ॥

7.135.2

कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे । न च कर्णसमं लोके पश्यामि कञ्चन ।
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥

7.135.3

कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः ।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥

7.135.4

वसुषेणसहायं मां नालं देवाऽपि संयुगे ।
किं नु पाण्डुसुता राजन्गतसत्वा विचेतसः ॥

7.135.5

तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् ।
युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत् ॥

7.135.6

अहो दुर्मुखमेवैकं युद्धानामविशारदम् ।
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ॥

7.135.7

अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः ।
न शक्त्याः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ॥

7.135.8

तेऽपि चास्य महाघोरं बलं नागायुतोपमम् ।
जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥

7.135.9

किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् ।
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥

7.135.10

कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितम् ।
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥

7.135.11

योऽजयत्समरे कर्णं पुरन्दर इवासुरम् ।
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥

7.135.12

द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम् ।
भीमो धनञ्जयान्वेषी कस्तमार्च्छेज्जिजीविषु ॥

7.135.13

को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः ।
उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः ॥

7.135.14

प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः ।
न भीमसेनं सम्प्राप्य निवर्तेत कदाचन ॥

7.135.15

पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः ।
ये भीमसेनं सङ्क्रुद्धमन्वधावन्विमोहिताः ॥

7.135.16

यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् ।
उक्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥

7.135.17

तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम् ।
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥

7.135.18

यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः ।
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥

7.135.19

स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् ।
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति पुत्रकः ॥

7.135.20

दृष्ट्वा भ्रातॄन्हतान्सङ्ख्ये भीमसेनेन दंशितान् ।
आत्मापराधात्सम्मूढो नूनं तप्यति पुत्रकः ॥

7.135.21

को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् ।
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥

7.135.22

बडबामुखमध्यस्थो मुच्येतापि हि मानवः ।
न भीममुखसम्प्राप्तो मुच्येदिति मतिर्मम ॥

7.135.23

न पार्था न च पञ्चाला न च केशवसात्यकी ।
जानते युधि संरब्धा जीवितं परिरक्षितुम् ॥

7.135.24

अहो मम सुतानां हि विपन्नं सूत जीवितम् ॥
सञ्जय उवाच ।

7.135.25

यस्त्वं शोचसि कौरव्य वर्तमाने महाभये ।
त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥

7.135.26

स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः ।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥

7.135.27

स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् ।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥

7.135.28

यत्तु कुत्सयसे योधान्युध्यमानान्महाबलान् ।
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत ॥

7.135.29

दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् ।
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च भारत ॥

7.135.30

दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः ।
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन् ॥

7.135.31

ते समन्तान्महाबाहुं परिवार्य वृकोदरम् ।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥

7.135.32

आगच्छतस्तान्सहसा कुमारान्देवरूपिणः ।
प्रतिजग्राह समरे भीमसेनो हसन्निव ॥

7.135.33

तव दृष्ट्वा तु तनयान्दुर्मर्षणपुरोगमान् ।
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥

7.135.34

विसृजन्विशिखांस्तीक्ष्णान्स्वर्णपुङ्खाञ्ञ्छिलाशितान् ।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥

7.135.35

कुरवस्तु ततः कर्णं परिवार्य समन्ततः ।
अवाकिरन्भीमसेनं शरैः सन्नतपर्वभिः ॥

7.135.36

तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् ।
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥

7.135.37

प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः ।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥

7.135.38

तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥

7.135.39

स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः ।
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥

7.135.40

तं भीससेनः संरम्भात्क्रोधसंरक्तलोचनः ।
विष्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc