भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.134

7.134.1

सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः ।
रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम् ॥

7.134.2

महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥

7.134.3

अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत् ।
ननाद च महानादं पुनर्विव्याध चोरसि ॥

7.134.4

तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ।
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम् ॥

7.134.5

कर्णस्तु नवभिर्भीमं भित्त्वा राजंस्तनान्तरे ।
ध्वजमेकेन विव्याध विशोकं च त्रिभिः शरैः ॥

7.134.6

सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत ।
तोत्रैरिव महानागं कशाभिरिव वाजिनम् ॥

7.134.7

सोऽतिविद्धो महाराज पाण्डवेन यशस्विना ।
सृक्विणी लेलिहन्वीरः क्रोधरक्तान्तलोचनः ॥

7.134.8

ततः शरं महाराज सर्वकायावदारणम् ।
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥

7.134.9

स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः ।
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥

7.134.10

ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः । वज्रकल्पां चतुष्किष्कुं गुर्वी रुक्माङ्गदां गदाम् ।
प्राहिणोत्मूतपुत्राय षडस्रामविचारयन् ॥

7.134.11

तया जघानाधिरथेः सदश्वान्साधुवाहिनः ।
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥

7.134.12

ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ ।
ध्वजमाघिरथेश्छित्त्वा सूतमभ्यहनच्छरैः ॥

7.134.13

हताश्वसूतमुत्सृज्य स रथं पतितध्वजम् ।
विष्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥

7.134.14

तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् ।
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥

7.134.15

विरथं तं नरश्रेष्ठं दृष्ट्वाऽधिरथिमाहवे ।
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥

7.134.16

एष दुर्मुख राधेयो भीमेन विरथीकृतः ।
तं रथेन नरश्रेष्ठ सम्पादय महारथम् ॥

7.134.17

ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः ।
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः ॥

7.134.18

दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् ।
वायुपुत्रः प्रहृष्टोऽभूत्सृक्विणी परिसंलिहन् ॥

7.134.19

ततः कर्णं महाराज वारयित्वा शिलीमुखैः ।
दुर्मुखाय रथं तूर्णं प्रेषयामास पाण्डवः ॥

7.134.20

तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः ।
सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥

7.134.21

ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते ।
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥

7.134.22

शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् ।
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥

7.134.23

तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् ।
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ॥

7.134.24

तस्मिंस्तु विवरे राजन्नाराचान्गार्धवाससः ।
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥

7.134.25

ते तस्य कवचं भित्त्वा स्वर्णचित्रं महोजसः ।
हेमपुङ्खा महाराज व्यशोभन्त दिशो दश ॥

7.134.26

अपिबन्सूत पुत्रस्य शोणितं रक्तभोजनाः ।
क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः ॥

7.134.27

प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः ।
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥

7.134.28

तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः ।
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥

7.134.29

ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः ।
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥

7.134.30

ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् ।
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥

7.134.31

स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः ।
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥

7.134.32

स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः ।
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥

7.134.33

स विह्वलो महाराज कर्णो भीमशराहतः ।
प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात् ॥

7.134.34

भीमसेनस्तु विष्फार्य चापं हेमपरिष्कृतम् ।
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc