भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.106

7.106.1

अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः ।
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत स्̤अञ्जय ॥
सञ्जय उवाच ।

7.106.2

अपराह्णे महाराज सङ्ग्रमे रोमहर्षणे ।
पाञ्चालानां कुरूणां च द्रोणद्यूतमवर्तत ॥

7.106.3

पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः ।
अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष ॥

7.106.4

ततस्तुल तुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः ।
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥

7.106.5

सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह ।
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥

7.106.6

द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः ।
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥

7.106.7

तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
विमुञ्चन्निशितान्बाणान्महेन्द्राशनिसन्निभान् ॥

7.106.8

तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः ।
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥

7.106.9

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्रमिव शम्बरः ॥

7.106.10

तमापतन्तं सहसा व्यादितास्यमिवान्तकम् ।
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥

7.106.11

युधिष्ठिरं महाराजं जिगीषुं समवस्थितम् ।
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥

7.106.12

नकुलं कुशलं युद्धे पराक्रन्तं पराक्रमी ।
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥

7.106.13

सहदेवं तथाऽयान्तं दुर्मुखः शत्रुकर्शनः ।
शैररनेकसाहस्रैः समवाकिरदाशुगैः ॥

7.106.14

सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् ।
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥

7.106.15

द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् ।
संरब्धान्रथिनः श्रेष्ठान्सौमदत्तिरवारयत् ॥

7.106.16

भीमसेनं तदा क्रुद्धं भीमरूपो भयानकः ।
प्रत्यवारयदायान्तमार्श्यशृङ्गिर्महाबलः ॥

7.106.17

तयोः समभवद्युद्धं नरराक्षसयोर्मृधे ।
यादृगेव पुरावृत्तं रामरावणयोर्नृप ॥

7.106.18

ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् ।
आजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत ॥

7.106.19

तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे ।
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥

7.106.20

अदृश्यं समरे चक्रे राजानं सायकोत्तमैः ।
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥

7.106.21

ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः ।
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥

7.106.22

ततो द्रोणो भृशं क्रुद्धो दर्मराजस्य संयुगे ।
चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः ॥

7.106.23

अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।
शरैरनेकसाहस्रैः पूरयामास सर्वतः ॥

7.106.24

अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः ।
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥

7.106.25

केचिच्चैनममन्यन्त तथैव विमुखीकृतम् ।
हृतो राजेति राजेन्द्र ब्राह्मणेन महात्मना ॥

7.106.26

स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः । त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ।
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥

7.106.27

ततस्तान्सायकांस्तत्र दोणनुन्नान्सहस्रशः ।
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥

7.106.28

छित्त्वा तु ताञ्शरान्राजक्रोधसंरक्तलोचनः । शक्तं जग्राह समरे गिरीणामपि दारिणीम् ।
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥

7.106.29

समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली ।
नादेन सर्वभूतानि त्रासयन्निव भारत ॥

7.106.30

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे ।
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥

7.106.31

सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा । प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा ।
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥

7.106.32

तामापतन्तीं सहसा दृष्ट्वा द्रोणो विशाम्पते ।
प्रादुश्चक्रै ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥

7.106.33

तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् ।
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥

7.106.34

ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् ।
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष ॥

7.106.35

विद्व्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः ।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेदास्य महद्धनुः ॥

7.106.36

तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः ।
गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥

7.106.37

तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः ।
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तप ॥

7.106.38

ते गदे सहसा मुक्ते समासाद्य परस्परम् ।
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ॥

7.106.39

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष ।
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥

7.106.40

चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम् ।
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ॥

7.106.41

हताश्वात्तुल रथात्तूर्णमवप्लुत्य युधिष्ठिरः ।
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥

7.106.42

विरथं तं समालोक्य व्यायुधं च विशेषतः ।
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥

7.106.43

मुञ्चंश्चेषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः ।
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ॥

7.106.44

तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना ।
हाहेति सुमहाञ्शब्दः पाण्डूनां समजायत ॥

7.106.45

हृतो राजा हृतो राजा भारद्वाजेन मारिष ।
इत्यांसीत्सुमहाञ्शब्दः पाण्डूसैन्यस्य सर्वतः ॥

7.106.46

ततस्त्वरितमारुह्य सहदेवरथं नृपः ।
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc